एकदिनपरम्परा।
विन्डीसस्य विश्वकीर्त्यमानप्राप्ताङ्कम् अनुगम्य
भारतस्य चरित्रविजयः।
👉 शुभमान गिलाय युगलशतकं (२२३*)
👉 रोहितशर्मणे शतकं (१०१)
👉 एकदिने भारतस्य अभिलेख्यमानं धावनाङ्कानिगमनम् 
युगलशतकं प्राप्तवान् शुभमान गिलः।
गुवाहटी> शुभमानगिलस्य ताडनझंझावातेन वेस्ट् इन्डीसेन विरचितः धावनाङ्कप्राकारः भग्नः। युगलशतकेन (२२३*) भारतगणनायकेन शुभमानगिलेन, तथा शतकेन (१०१) रोहित शर्मणा च ताडनताङ्डवे कृते धावनाङ्कानुगमने नूतनं विश्वकीर्तिं विरच्य विन्डीसं विजित्य एकदिनक्रिकट्परम्परा भारतेन स्वायत्तीकृता। स्पर्धात्रयात्मिकायाः परम्परायाः द्वितीये प्रतिद्वन्द्वे अष्ट द्वारकाणां विजयः आसीत् भारतस्य।
प्रथमं कन्दुकताडनं कृतवतः विन्डीसदलस्य प्रारम्भताडकः जोण् कांबलः १०१ धावनाङ्कान्, नायकः षाय होपः १०४ धावनाङ्कान्, अमिर् जाङ्को ११४ धावनाङ्कान् च सम्पाद्य ते ५० क्षेपणचक्रेषु सप्त द्वारकाणां विनष्टे ४०५ धावनाङ्काः इति महत् विजयलक्ष्यं भारताय दत्तवन्तः।
प्रत्युत्तरताडने प्रारम्भताडकः शुभमान गिलः केवलं ६२ कन्दुकैः प्रथमं शतकं सम्पादितवान्। ततः रोहित शर्मा अपि शतकं [१०१] प्राप्य बहिर्गतः। तस्य स्थाने ताडनमारब्धवतः विराटकोलिनः [१९ कन्दुकेषु २९]सहयोगेन नायकः गिलः २२३ धावनाङ्कान् सम्पाद्य अबाह्यः अभवत्। ११३ कन्दुकैः एव तस्य २२३ धावनाङ्कोपलब्धिः।