OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, June 14, 2026

 त्रिभाषानयः। 

केन्द्रीयविद्यालयेषु संस्कृतम् अनिवार्यम्।

नवदिल्ली> केन्द्रीयविद्यालयेषु षष्ठी नवमी कक्ष्यासु तृतीयभाषारूपेण संस्कृतशिक्षणम् अनिवार्यं कृतम्। त्रिभाषानयस्य उपस्थापनस्य अंशतया अस्ति केन्द्रप्रशासनस्य अयं प्रक्रमः। एतत्संबद्धं विज्ञप्तिप्रचारपत्रं [circular]  बहिरागतम्। 

  प्रादेशिकभाषाः शिक्षणार्थं सन्त्यपि सर्वेषु केन्द्रीयविद्यालयेषु संस्कृतभाषा अपि भवितव्या। यदा रक्षितॄणां सेवासम्बद्धं स्थानसंक्रमणं  [transfer] भविष्यति तदा छात्राणां संस्कृतशिक्षणे भङ्गं न भवेत् इत्यत एव नूतनादेशः इति अधिकारिभिरुक्तम्।

  सि बी एस् ई विद्यालयेषु तृतीयभाषारूपेण संस्कृतम् इतरा कापि लभ्या प्रादेशिकभाषा वा चयनं कर्तुं शक्यते।

Latest newsLatest news

 लेफ. जेनरल् धीरज सेठः स्थलसेनाधिकारी।


नवदिल्ली> स्थलसेनायाः आगामि अधिकारिमुख्यरूपेण लफ्टनन्ट् जनरल् पदीयः धीरज सेठः नियुक्तः। जूण् ३० तमे दिनाङ्के कार्यभारं स्वीकरिष्यति। वर्तमानीनः स्थलसेनाधिकारी जनरल् उपेन्द्र द्विवेदी अस्मिन् मासे सेवानिवृत्तः भविष्यति।

 असमे वायुसेनाविमानं भग्नम्। 

पञ्च सैनिकाः मृत्युमुपगताः।

असमे भग्नम् ए एन्-३२ व्योमसेनाविमानम्।

गुवाहती> असमे जोर्हट् वायुसेनानिलये अवतरणवेलायां सेनायाः ए एन्-३२ इति यात्राविमानं भग्नीभूय पञ्च सैनिकाः मृताः। सहवैमानिकः अद्भुतकरेण रक्षां प्राप्तः। 

 शनिवासरे प्रभाते उपदशवादने आसीदियं दुर्घटना। साधारणया क्रियमाणस्य परीक्षणडयनस्य अनन्तरम् अवतरणसमये मार्गात् विभ्रंश्य पार्श्वं घट्टयित्वा दह्यमानमासीत्। दुष्टं पर्यावरणं तीव्रा वृष्टिश्च दुर्घटनायै कारणमभवदिति प्राथमिकनिगमनम्। उच्चस्तरीयान्वेषणाय वायुसेनया आदिष्टम्।

ए एन्-३२  - वायुसेनायाः 'रणतुरगः' इति कीर्त्यमानं युगलयन्त्रोपेतं सैनिकयात्राविमानमस्ति एतत्। प्रतिकूलावस्थाः अतिजीवितुं शक्तिमदस्ति। उपशतं विमानानि इदानीं सेनायां विद्यन्ते। व्योम-स्थलसैनिकानां यात्रायै पण्यवस्तुनयनाय च इदं विमानमुपयुज्यते।

 विश्वचषकपादकन्दुकम्।

ब्रसीलं समस्थितिं गृह्णन् मोरोको।

न्यूयोर्क्> अद्य प्रत्युषसि सम्पन्नः ब्रसील-मोरोको प्रतिद्वन्द्वः समस्थितिमभजत। 

प्रथमार्धखण्डे पतितेन एकैकेन लक्ष्यकन्दुकेन दलद्वयमपि समस्थितिं परिपालयामास। २१तमे निमिषे मोरोकोदलस्य इस्मय़िल्  सायिबारि नामकः प्रथमतया लक्ष्यं प्राप्तवान्। ३२ तमे निमिषे ब्रसीलस्य विनेष्यस् जूनियर् नामकेन प्राप्तेन प्रतिलक्ष्यकन्दुकेन समस्थितिम् अगृह्णीत्। 

  द्वितीयार्धखण्डे अधिकसमये च लक्ष्यकन्दुकाय द्वाभ्यामपि दलाभ्यां प्रयत्नः कृतः अपि  फलवत्तां न प्राप।

Latest news

Saturday, June 13, 2026

 विश्वचषकपादकन्दुकम्।

दक्षिणकोरियायाः विजयेन प्रारम्भः। 

कानडा - बोस्निया स्पर्धायां समस्थितिः।

कानडा-बोस्निया स्पर्थायाः। 

ग्वाडलहारा (मेक्सिको)> शुक्रवासरे प्रभाते एष्या भूखण्डात् विजयप्रतीक्षायाः रथमारुह्य अमेरिकाभूखण्डं प्राप्तं दक्षिणकोरियादलं यूरोपीयप्रबलेषु अन्यतमं चेक् रिपब्लिक् राष्ट्रदलं विजित्य प्रारम्भस्पर्धा अविस्मरणीयमकरोत्। एकं विरुध्य लक्ष्यकन्दुकद्वयेन आसीत् कोरियाविजयः। 

कोरियादलेन क्रीडायाः आरम्भादेव उज्वलक्रीडा प्रदर्शिता अपि ५९ तमे निमिषे चेक् दलस्य नायकः नाम्ना  लाडिस्लाव् क्रेजिसी प्रथमतया लक्ष्यकन्दुकं सम्प्राप्तवान्। ततः विजिगीषया संग्रामं कृतवत् कोरियादलस्य ह्वाङ् इन् बीं नामकः (६७), स्थानान्तरितः क्रीडकः ओह् ह्यूयोण् ग्यू नामकश्च (८०) स्वराष्ट्रं विजयतीरं नीतवन्तौ। 

टोरन्टो>  रात्रौ कानडायां सम्पन्ने प्रतिद्वन्द्वे आतिथेयराष्ट्रस्य कानडादलं पराजयः इत्यपमानात् रक्षां प्राप्तम्। प्रतिद्वन्द्विनः बोस्नियायाः जोवो लूकिच् नामकः २१ तमे निमिषे प्रथमं लक्ष्यकन्दुकं सम्प्राप्तवान्। उत्साहेन क्रीडितस्य कानडादलस्य कैन् लारिन् नामकः ७६ तमे निमिषे लक्ष्यं सम्पाद्य समस्थितिं प्रापितवान्। तृतीयवारं विश्वचषकं क्रीडन्ती कानडा प्रथमतया एव अङ्कावलीपत्रे स्थानं लभते।

Latest newsLatest news

 पश्चिमेष्यायां शीघ्रमेव शान्तिरिति ट्रम्पः! 

वाषिङ्टणः> मासत्रयाधिकं यावत् इरानं विरुध्य क्रियमाणं युद्धं समापितं, शान्त्युपलब्ध्यर्थम् उभयसम्मतिपत्रं रविवासरे हस्ताक्षरीकरिष्यतीति यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः प्रास्तौत्। युद्धसमाप्तिसन्ध्यर्थं इतः पूर्वम् एतावत् सामीप्यं नाभवदिति इरानस्य विदेशकार्यमन्त्री अब्बास् अराग्ची इत्यस्य प्रस्तावोSपि पश्चिमेष्यायां शान्तिप्रतीक्षां वर्धापयति। 

  इरानस्य परमोच्चनेता अयत्तोल्ला मोजताबा खमनेयी इत्यनेन अङ्गीकृते सम्मतपत्रे अमेरिकायै उपराष्ट्रपतिः जे डि वान्सः हस्ताक्षरं करिष्यतीति ट्रम्पेण प्रस्तुतम्। रविवासरे जनीवानगरे [स्विट्सर्लान्ट्] भवेत् हस्ताक्षरीकरणकार्यक्रमः इति सूच्यते।

 गोलिकाप्रक्षेपेतिहासः 

जस्पाल राणा दिवंगतः।


नवदिल्ली> विख्यातः गोलिकाप्रक्षेपकः परिशीलकश्च जस्पाल राणावर्यः [४९] मृत्युमुपगतवान्। हृदयसंबन्धरोगेण दिल्लीस्थे निजीयातुरालये परिचर्याधीनः आसीत् सः। गुरुवासरे रात्रौ अन्त्यमभवत्। जर्मन्यां म्यूणिक् इत्यत्र भारतसंघेन सह विश्वचषकगोलिकाप्रक्षेपे भागं कृत्वा जूण् प्रथमदिने प्रत्यागतः सः उरोवेदनया आतुरालयं प्रविष्टः आसीत्। 

  उत्तरख्ण्डे लब्धजन्मा जस्पाल‌ः द्वादशे वयसि भुषुण्डिप्रयोगस्पर्धायां सुवर्णपतकं सम्पाद्य देशीयश्रद्धाम् अलभत। ततः एष्यन् गयिंस् मध्ये चत्वारि सुवर्णानि अभिव्याप्य अष्ट पतकानि सम्प्राप्तवान्। कोमण्वेल्त् गयिंस् मध्ये नव सुवर्णानि अभिव्याप्य १५ पतकानि सम्पादितवान्। 

  तदनन्तरं गोलिकाप्रक्षेपे  भारतस्य परिशिलकपदं प्राप्तस्य तस्य परिशीलनेन २०२४ तमे पारीस् ओलिम्पिक्से मनु भाक्करः  कांस्ययुगलं प्राप्तवान्। अर्जुन पुरस्कारः (१९९४), पद्मश्री (१९९७), द्रोणाचार्यपुरस्कार‌ः (२०२०) इत्येतैः सः बहुमानितः अस्ति।



Friday, June 12, 2026

 गृहधर्मिण्यः राष्ट्रविधात्र्यः  इति सर्वोच्चन्यायालयः।

गृहसेवायै प्रतिमासं ३०,००० रूप्यकाणां मूल्यं निश्चित्य अङ्गीकारः।


नवदिल्ली> गृहधर्मिण्यः (House wife) राष्ट्रनिर्माणाय प्रयतमानाः विशिष्टमहिलाः भवन्तीति सर्वोच्चन्यायालयेन निरीक्षितम्। मानवानां राष्ट्रस्य चाभिवृद्धये ताभिः दीयमानं योगदानम् अमूल्यमिति न्यायालयेन अभिप्रेतम्। 

  वाहनदुर्घटनया मृत्युमुपगतायाः पञ्चाबनिवासिन्याः गृहकार्यकुशलायाः सेवनाय प्रतिमासं ३०,००० रूप्यकाणि वेतनं निश्चित्य तस्याः पतये निष्कृतिं दातुं न्यायाधिपस्य सञ्जय करोलस्य अध्यक्षतायां विद्यमानेन नीतिपीठेन आदिष्टम्। तस्य विधिप्रस्तावे आसीत् पूर्वोक्तं निरीक्षणम्। पूर्वं एतादृशदुर्घटनानिष्कृतिप्रकरणेषु गृहिण्यै नाममात्रं धनमासीत् भृतिरूपेण निश्चितम्। 

  भारतस्य अशेषाभ्यन्तरोत्पादनस्य [GDP] १५ तः १७ प्रतिशतं यावद्भविष्यति गृहिणीनां सेवनस्य मूल्यमिति नीतिपीठेन निरीक्षितम्। कुटुम्बिनीनां महिलानां सेवनं राष्ट्रनिर्माणरूपेण अङ्गीकर्तव्यमिति नीतिपीठेन निर्दिष्टम्।

Latest news


 पण्यमहानौकां प्रति यू एस् आक्रमणम्। 

त्रयः भारतीयनाविकाः मृताः। 

नवदिल्ली> ओमानसमुद्रतीरे यू एस् नौसेनायाः अग्निशस्त्राक्रमणेन अग्निबाधितायाः पण्यमहानौकायाः तिरोभूताः त्रयः भारतीयनाविकाः मृत्युमुपगताः इति केन्द्रसर्वकारेण दृढीकृतम्। गुरुवासरे केन्द्र नौकाश्रयमन्त्री सर्वानन्द सोनोवालः वृत्तान्तोSयं स्थिरीकृतवान्। 

  हिमाचल प्रदेशनिवासी आदित्य शर्मा (२८), आन्ध्रप्रदेशीयः सुरेश पट्नालः (४४) इत्येतौ मृतौ। तृतीयस्य नामादिकं न बहिरागतम्। बुधवासरे पलावु देशस्य ध्वजोपेता 'सेटेबल्लो' नामिका महानौका आसीत् आक्रमणाधीना।

 होर्मुस् पुनरपि पिहितम्। 

यू एस्-इरानयोः परस्पराक्रमणम् अनुवर्तते। 

टेहरानं> विश्वमशेषम् इन्धनोपलब्धिसन्दिग्धतां बलेन नयन् आगोलपण्यवस्तुसञ्चलनस्य तन्त्रप्रधानः होर्मुस्  समुद्रसङ्कोचः इरानेन पूर्णतया पिहितः। सर्वासामपि महानौकानां सञ्चारनिरोध इति इरानेन उद्घोषितम्। 

  गतदिने यू एस् इरानः च परस्परं व्योमयुद्धं कठिनतया कृतवन्तौ। इरानस्य इन्धनोत्पादनप्रधानं खार्गद्वीपं निग्रहीष्यतीति ट्रम्पेन भीषा घोषिता।

 फिफा विश्वचषकः।

उद्घाटनस्पर्धायां मेक्सिको विजयीभूतम्।[२ - ०]

क्रीडा घटनाबहुला- त्रीणि रक्तपत्राणि। 

लक्ष्यकन्दुकप्राप्त्यां मेक्सिकोदलस्य आह्लादः। 

मेक्सिकोनगरं> २३ तम विश्वचषकपादकन्दुकमहोत्सवे समारब्धे प्रथमे प्रतिद्वन्द्वे आतिथेयस्य मेक्सिकोराष्ट्रस्य विजयः। प्रतिद्वन्द्विनं दक्षिणाफ्रिकादलं प्रत्युत्तररहितेन लक्ष्यकन्दुकद्वयेन पराजापयत। कार्कश्यक्रीडया घटनाबहुलायाम् अस्यां स्पर्धायां त्रीणि रक्तपत्राणि [red cards] क्रीडानियन्त्रकेन प्रयुक्तानि। 

  क्रीडायाः नवमे निमिषे जूलियन् क्विनोसस् नामकेन मेक्सिको राष्ट्राय प्रथमं लक्ष्यकन्दुकं सम्प्राप्तम्। ततः ६७ तमे निमिषे रौल् हिमनस् इत्यनेन द्वितीयं  लक्ष्यकन्दुकमपि सम्प्राप्तम्। किन्तु क्रीडा बहुवारं कार्कश्यरूपमापन्ना इत्यतः त्रयः क्रीडकाः रक्तपत्रप्रदर्शनेन बहिर्गताः। द्वौ दक्षिणाफ्रिकीयक्रीडकौ एको मेक्सिको क्रीडकश्च एवं क्रीडाबाह्याः जाताः।

Latest newsLatest news

Thursday, June 11, 2026

 नरेन्द्रमोदिनः अनन्यथाप्राप्तित्वम्।

विश्वस्मात् अभिनन्दनप्रवाहः। 


 नवदिल्ली> भारतस्य राजनैतिकेतिहासे नवीनां कीर्तिं स्थापितवन्तं प्रधानमन्त्रिणं   नरेन्द्रमोदिनं प्रशंसयन्तः विश्वनेतारः राष्ट्रियनेतारश्च।    निर्वाचनेन प्रधानमन्त्रीपदं प्राप्य निरन्तरं ४४०० दिनानि  तत्स्थाने विराजमानः व्यक्तिः इति ऐतिहासिकपदं नरेन्द्रमोदी महोदयः अर्जितवान्। अनेन सः भारतस्य प्रथमप्रधानमन्त्रिणः पण्डितस्य जवाहरलालनेहरू महोदयस्य कीर्तिमानं भञ्जितवान्।

  यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः, आस्ट्रेलियायाः प्रधानमन्त्री स्कोट् मोरिसणः, रष्यायाः राष्ट्रपतिः व्लादिमिर् पुतिनः, इटली, मालिद्वीपः,  श्रीलङ्का इत्यादीनां राष्ट्राणां प्रशासननेतारश्च मोदिनम् अभिनन्दितवन्तः। तेषां सर्वेषां  कृते मोदिवर्यः कृतज्ञतां प्रकाशितवान् च। 


१९५२ तमे वर्षे मई-मासस्य १३ दिनाङ्कतः १९६४ तमे वर्षे मई-मासस्य २७ दिनाङ्कपर्यन्तं निरन्तरं ४,३९८ दिनानि यावत् जवाहरलालनेहरू महोदयः निर्वाचितः प्रधानमन्त्री रूपेण देशस्य शासनं कृतवान्। २०१४ तमे वर्षे मई-मासस्य २६ दिनाङ्के प्रथमवारं देशस्य प्रधानमन्त्रिरूपेण शपथग्रहणं कृतवान् नरेन्द्रमोदी, २०१९, २०२४ तमवर्षयोः सामाजिकनिर्वाचनयोः अपि निरन्तरं जनमतं प्राप्य तृतीयवारमपि प्रशासने अनुवर्तते।


"विकासस्य प्रगतेः च कालः"

विगतेषु ४४०० दिनेषु देशस्य आर्थिक-सामाजिक-डिजिटल् क्षेत्रेषु बृहत्परिवर्तनानि अभवन् इति भाजपानेतृत्वेन सूचितम्।


डिजिटल् परिवर्तनानि यू.पी.आई. (UPI), डिजिटल्-इण्डिया-परियोजनाभ्यां च भारतं विश्वस्य बृहत्तमं डिजिटल्-व्यवहार-देशं सञ्जातम्।


बृहद् विकासात्मकपरियोजनाः - वन्देभारत-रेल्यानानि, द्रुतगति-राजमार्गाः (Expressways), नवीनं संसदभवनम्, आयुष्मान् भारत स्वास्थ्यपरियोजना च मोदीसर्वकारस्य प्रमुखाः वैभवाः इति मन्यन्ते।


वैश्विकप्रभावः -  विश्वस्य तीव्रगत्या वर्धमाना बृहत्तमा अर्थव्यवस्था-रूपेण भारतं परिवर्तयितुं, वैश्विकस्तरे देशस्य कूटनैतिकप्रभावं वर्धयितुं च एतया सिद्ध्या साध्यम् अभवत्।

 पश्चिमेष्या अशान्ता। 

आग्नेयक्रीडा अनुवर्तते। 

इराने अमेरिकायाः व्योमाक्रमणं; जोर्दान-कुवैट्-बहरिनराष्ट्राणि प्रति इरानस्य प्रत्याक्रमणम्। 

टेहरानं>  होर्मुस् समुद्रधुनिसमीपे स्वस्य सैनिकोदग्रयानं भग्नीकृतम् इत्यारोप्य अमेरिका गतदिने इरानम् आक्रामत्। प्रत्याक्रमणरूपेण जोर्दान-कुवैट्-बहरिनराष्ट्रेषु वर्तमानानि यू एस् सेनाशिबिराणि इरानेन आक्रान्तानि। 

  परन्तु इरानस्य ड्रोणेन सह संघट्य एव अमेरिकायाः उदग्रयानं भग्नमिति अमेरिकीयसेनाधिकारिणं प्रसूचयन् अन्ताराष्ट्रमाध्यमैः वृत्तान्तीकृतम्। घण्डाचतुष्टयं दीर्घिते यू एसस्य आक्रमणे इरानीयनगरस्थेषु व्योमप्रतिरोधसंविधानानि, भूतलनियन्त्रणकेन्द्राणि, समुद्रतीरस्थानि 'रडार्' केन्द्राणि च विशीरितानीति अमेरिकया निगदितम्।

Latest newsLatest news

 अद्य आरभ्य विश्वं कन्दुकं परितः भ्रमति। 

२३तमं विश्वचषकपादकन्दुकम् अद्य अर्धरात्रे प्रारभ्यते। 

प्रथमस्पर्धा - मेक्सिको × दक्षिणाफ्रिका। 

प्रथमस्पर्धा - मेक्सिकोस्थे 'आस्टेका' क्रीडाङ्कणे।

उद्घाटनस्पर्धा विधास्यमानं आस्टेका' क्रीडाङ्कणम्।

मेक्सिकोनगरं> अद्य आरभ्य विश्वस्य चक्षूंसि 'ट्रयोण्डा' [Trionda] नामककन्दुके केन्द्रीकृत्य कन्दुकेन सह भ्रमणमारप्स्यन्ते। परं ३९ दिनानि विश्वस्य 'कोणचत्वराणि' पादकन्दुकस्य अनियन्त्रित-अनिश्चित-अप्रतीक्षितप्रवेगेन सह आन्दोलनं करिष्यन्ति। आविश्वं युद्धस्य सन्दिग्धतायाम् आशङ्कायां क्लेशावस्थायां च वर्तमानायां सत्यामपि *लोकान् एकायमाना २३ तमा विश्वचषकपादकन्दुकस्पर्धापरम्परा अद्य अर्धरात्रे समारभ्यते।* 


  यू एस् ए, मेक्सिको, कानडा इत्येतेषु त्रिषु राष्ट्रेषु १६ वेदिकासु  एव स्पर्धाः विधास्यन्ति। बृहद्-लघूनि ४८ राष्ट्राणि विश्वचषकोत्सवे भागं कुर्वन्ति। आहत्य १०४ स्पर्धाः भविष्यन्ति। विश्वजेतारं निर्णीयमाना अन्तिमस्पर्धा जुलाई १९ तमे दिनाङ्के सम्पत्स्यते। 

  अद्य रात्रौ १२. ३० वादने (भारतीयसमयः) मेक्सिको नगरस्थे 'आस्टेका' क्रीडाङ्कणे मेक्सिको दक्षिणाफ्रिकयोः प्रथमस्पर्धा विधास्यति। अन्तिमस्पर्धा अमेरिकायां 'न्यू जेर्सी' क्रीडाङ्कणे च विधास्यति।

 प्रधानमन्त्रिपदे अद्य नरेन्द्रमोदिनः ३४०० तमं दिनम्। 

चिते पदे नेह्रुवर्यस्य  अनन्यथाप्राप्तिम् अतीतवान्। 

नरेन्द्र मोदी।

नवदिल्ली> स्वतन्त्रभारते निर्वाचनेन अधिकारं प्राप्य अनुस्यूततया अधिकतमदिनानि प्रधानमन्त्रिपदे उपतस्थिवान् इति अनन्यथाप्राप्तित्वं बुधवासरे नरेन्द्र मोदी स्वायत्तीकृतवान्। प्रथमप्रधानमन्त्री जवाहर लाल नेह्रोः ४३९८ दिनानीति प्राप्तित्वं  परं पुरावृत्तमभवत्। परन्तु इदानीमपि अधिकतमकालं प्रधानमन्त्रिपदम् अलङ्कृतवान् इति स्थानं नह्रुवर्याय एव कल्पते। 

  १९५७ तमे वर्षे आसीत् नह्रुवर्यस्य प्रथमा प्रधानमन्त्रिपदप्राप्तिः।१९५२ तमे वर्षे  निर्वाचनं यावत् सः मध्यकालीनसर्वकारं नीतवान्। तस्मिन् वर्षे मेय् १३ तमदिनाङ्कतः मरणपर्यन्तं ४३९८ दिनानि सः प्रधानमन्त्रिपदे उपतस्थिवान्। २०१४ मेय् २६ तमे दिनाङ्के प्रधानमन्त्रिपदम् आरूढवान् मोदिवर्यः २०२६ जूण् दशमदिने ४३९९ दिनानि पूरयित्वा नेह्रुवर्यस्य उपलब्धिं बिभेद।

Wednesday, June 10, 2026

 तमिल् चलनचित्रसंविधायकः पि. भारतीराजः दिवङ्गतः।

चित्रं - मातृभूमिवार्ता

  चेन्नै> वार्धक्य सहजेन रोगेण तमिल् चलनचित्रसंविधायकः पि. भारतीराजः (८४) दिवङ्गतः। तस्य पुत्रस्य मनोजस्य अकालमृत्योः अनन्तरं भारतीराजस्य अस्वास्थ्यम् अधिकतया वर्धितम् आसीत्।   महोदयेन चलनचित्रक्षेत्रे बह्व्या: ग्रमीणकथायाः पुनराख्यानं कृतम् ।

 'वी बी जी रांजी' अभियोजना जूलाय् प्रथमदिनाङ्कतः। 

नवदिल्ली> 'महात्मा गान्धी  दृढवृत्ति' अभियोजनायाः स्थाने केन्द्रप्रशासनेन आविष्कृता 'वी बी जी रांजी' नामिका अभियोजना   जूलाय् मासस्य प्रथमदिनाङ्के आरप्स्यते। वर्तमानीनपरियोजनायां ये वृत्तिं कृतवन्तः तेभ्यः तेषां वेतनं निश्चयेन लप्स्यते इति केन्द्रसर्वकारेण निगदितम्। तदर्थं ३०,००० कोटि रूप्यकाणि अनुमोदितानि। 

  वी बी रांजी अभियोजनायै ९५,६९२ कोटि रूप्यकाणि राज्येभ्यः अनुमोदितानि। न केवलं धनराशेः अनुज्ञा किन्तु यथाकालं वेतनलब्धिरपि सर्वकारेण दृढीकरिष्यते इति राज्यानां ग्रामविकासमन्त्रिभिः सह कृते मेलने केन्द्रमन्त्रिणा शिवराज सिंह चौहानेन स्पष्टीकृतम्।

 पाकिस्थानधीनकाश्मीरे संघर्षः तीव्रः। 

विंशत्यधिके जनाः मृताः 

मुसाफराबादः> पाकिस्थानं प्रशासनं विरुध्य पाकिस्थानधीनकाश्मीरे प्रक्षोभः तीव्रायते। प्रतिषेधिनः पाकिस्थानस्य सुरक्षासेना च मिथः कृते प्रतिद्वन्द्वे इतःपर्यन्तं विंशत्यधिके जनाः मृताः। द्विशताधिके जनाः व्रणिताश्च। 

  प्रक्षोभस्य नेतृत्वं वहत् नागरिकाधिकारसंघटनं 'जोयन्ट् अवामी आक्षन् कम्मिटी' [Joint Avami Action Committee] नामकं गतसप्ताहे प्रशासनेन निरुद्धमासीत्। ततः परमेव अयं प्रदेशः अशान्तः जातः। रविवासरस्य रात्रौ रावल्कोट्, मुसाफराबादः इत्येते स्थानद्वये प्रवृत्ते प्रतिद्वन्द्वे सप्त जनाः मृताः।

 केरलम्। 

वयनाट् जनपदे 'षिगल्ला'रोगः व्याप्यते। 

६०+ बालकाः रोगबाधिताः; ४००+ बालकाः लक्षणोपेताः। 

सुल्त्तान् बत्तेरी> राज्ये वयनाट् जनपदे 'षिगल्ला'नामकः जीवाणुजन्यरोगः व्याप्यते। सुल्त्तान् बत्तेरी प्रदेशे समीपप्रदेशेषु च ४४३ बालका‌ः लक्षणोपेताः सन्तः निरीक्षणे  वर्तन्ते। ६८ बालकाः रोगस्थिरीकृताः सन्तः आतुरालये परिचर्यायां वर्तन्ते। 

 राज्यसर्वकारे‌ण शीघ्रमेव प्रतिरोधप्रवर्तनानि आयोजितानि। राज्ये सर्वत्र जागरूकतानिर्देशाः प्रदत्ताः। स्वास्थमन्त्री के मुरलीधरः वयनाट् प्राप्य अवस्थाः अवलोकितवान्।   कल्पट्टाविधानसभासदस्यः  कृषिविभागमन्त्री टि सिद्दिखः रोगप्रतिरोधप्रवर्तनानि एकोपयितुं व्याप्रियमाणः अस्ति।

Tuesday, June 9, 2026

 ओमानतीरे महानौका अग्निबाधिता। 

नवदिल्ली> ओमानतीरे २४ भारतीयनाविकैः सह सञ्चरन्त्यां तैलमहानौकायाम् अग्निबाधा जाता। सोमवासरे पश्चिमेष्यायाम् इरानः इस्रयेलश्च परस्परम् आक्रमणं कृतवन्तौ आस्ताम्। किन्तु अग्निबाधायाः कारणं न स्पष्टीकृतम्। 

  सर्वे नाविकाः सुरक्षिताः वर्तन्ते इति केन्द्र महानौकाशयमन्त्रालयस्य निदेशकः ओपेष् कुमारशर्मा अवोचत्। होर्मुस् समुद्रसङ्कोचात् बहिः स्थीयमाना इयं महानौका शून्या अस्तीति तेन निगदितम्। मडगास्करदेशस्य ध्वजं वहन्ती एम् टि मारिवेक्स् नामिका महानौका आसीत् अग्निबाधिता।

 तमिल्नाडुमुख्यमन्त्रीविजयः ग्रैंडमास्टर्-प्रज्ञानन्देन सह चतुरङ्ग-क्रीडामकरोत्।

चेन्नै> सोमवासरे (जूण् ८, २०२६) चेन्नैनगरस्थे सचिवालये मुख्यमन्त्रिणं सि. जोसेफ विजयं द्रष्टुं ग्रैंडमास्टर् प्रज्ञानन्दः यदा आगतवान्, तदा मुख्यमन्त्री तत्क्षणमेव अधिकारिणः चतुरङ्गफलकं आनेतुम् आदिष्टवान्, तेन सह एकं वारं क्रीडितवान् च।

"अहं एतत् न प्रतीक्षितवान्। सः [मुख्यमन्त्रीविजयः] अधिकारिणः फलकम् आनेतुम् उक्त्वा मया सह क्रीडितुम् आरब्धवान्। सः चतुरङ्गं क्रीडति स्म इति अहं न जानामि स्म। यद्यपि अहं विजयी अभवम्, तथापि सः सुन्दरम् अक्रीडत्। सः प्रायेण स्वमित्रैः सह क्रीडति इति माम् अकथयत्," इति ग्रैंडमास्टर् उक्तवान्।

नोर्वेदेशे तस्य विजयम् अधिकृत्य मुख्यमन्त्री तस्मै ५० लक्षरूप्यकाणां धनपत्रं अपि उपहाररूपेण दत्तवान्।

न दूरवाण्यः, न च अन्तर्जालम्: नीट्-युजी (NEET-UG) प्रश्नपत्रनिर्मातारः जूण् २१ पर्यन्तं रहसि स्थापिताः, पुनःपरीक्षा भविष्यति इति विवरणम्।

चित्रं - पि टि ऐ

   प्रश्नपत्रस्य गुप्तताभङ्गम् अधिकृत्य मेय्-मासस्य तृतीये (३) दिनाङ्के आयोजितं नीट्-युजी-मूलपरीक्षाकेन्द्रं निरस्य सप्ताहेभ्यः परं एतं निर्णयं स्वीकृतवन्तः। राष्ट्रियप्रवेशपरीक्षायाः कृते स्वीकृतेषु अतीव कठिनेषु सुरक्षाक्रमेषु अन्यतमेन रूपेण, नाषणल् एलिजिबिलिटी कम् एन्ट्रन्स् टेस्ट् - अंडर् ग्रेजुवेट् (NEET-UG) २०२६ इत्यस्याः पुनःपरीक्षायाः प्रश्नपत्रनिर्माणकार्ये नियुक्ताः विद्वांसः जूण् २१ दिनाङ्के परीक्षायाः समाप्तिं यावत् सुरक्षिते तथा च अप्रकाशिते कस्मिंश्चित् स्थाने अवरुद्धाः स्थापिताः सन्ति इति प्रतिवेदनमस्ति।

 केरलम्। 

 उत्तरकेरले अतितीव्रवृष्टिः स्यात्। 

त्रिषु जनपदेषु विद्यालयविरामः।

अनन्तपुरी> केरले कोष़िक्कोट्, कण्णूर्, कासरगोड् जनपदेषु कुजवासरे अतितीव्रा वृष्टिः भवेदिति ऋतुविज्ञानीयविभागेन निगदितम्। त्रिष्वपि जनपदेषु विद्यालयानां शिक्षाविरामः उद्घोषिता। मलप्पुरं, वयनाट् जनपदद्वये ओरञ्ज् जागरूकता प्रख्यापिता। इतरेषु जनपदेषु पीतजागरूकता च उद्घोषिता।

 फिलिप्पीन्से भूकम्पः- ३२ जनाः मृताः। 

फिलिलिपीन्से दुरापन्नस्य भूकम्पस्य दृश्यम्। 

मानिला> द्वीपराष्ट्रे फिलिपीन्से सोमवासरे दुरापन्ने भूकम्पे ३२ जनाः मृताः। १३४ जनाः आहताः। बहूनि भवनानि विशीर्णानि। 

  प्रादेशितसमयानुसारं सार्धसप्तवादने राष्ट्रस्य दक्षिणपार्श्वे वर्तमाने 'मिन्डनावो' द्वीपे आसीत् भूकम्पः। मापिन्यां ७. ८ अङ्कितमासीत्। ततः घण्डाद्वयाभ्यन्तरे लघु तीव्र मिश्राणि १३० अनन्तरभूचलनानि अनुभूतानि। सुनामीजागरूकता उद्घोषिता अपि परं निराकृता।

 दह्यते महानसः।

पाकवातस्य मूल्यं पुनरपि वर्धापितम्। 

नवदिल्ली> मूल्यवर्धने क्लिश्यमानानां जनानामुपरि अशनिपातमिव गार्हिकपाकेन्धनस्य मूल्यमपि वर्धापितम्। मासत्रयाभ्यन्तरे  द्वीतीयवारमेव मूल्यवर्धनम्। दिल्ल्यां १४.२ किलोमितस्य दण्डगोलस्य २९ रूप्यकाणि वर्धयित्वा ९४२ रूप्यकाणि अभवन्। 

  भोजनालयादीनां वाणिज्यगोलकानां मूल्यं पूर्वमपि वर्धयित्वा जनाः कलेशमनुभवन्ति। 

  किन्तु अन्ताराष्ट्रविपण्यां जातम् इन्धनमूल्यवर्धनमेव अधुनातनमूल्यवर्धनस्य कारणमिति केन्द्रसर्वकारेण उच्यते। पाकवात-डीसल्-पेट्रोलानां मूल्यवर्धनानन्तरमपि सामाजिकक्षेत्रीयतैलसंस्थाः नष्टे एव प्रचलन्तीति केन्द्रप्रशासनस्य वादः।

Monday, June 8, 2026

अनुगृहीताभिनेता सलिंकुमारः कालयवनिकां प्राप्तः।

अनुग्रहीताभिनेता सलिंकुमारः कालयवनिकाम् अन्तर्दधे। 

नरेन्द्र मोदी, राहुल गान्धी इत्यादयः अन्वशोचयन्। 

सलिंकुमारः तस्य विभिन्नवेषेषु। 

कोच्ची> कैरलीचलच्चित्रमण्डले स्वमुद्राम् अङ्कितवान् राज्य-राष्ट्रियपुरस्कारं प्राप्तवान् अनुग्रहीतः अभिनेता सलिंकुमारः [५६] दिवंगतः। यकृत्संबन्धेन अस्वास्थ्येन कोच्चीनगरस्थम् आतुरालयं प्रवेशितस्य तस्य अन्त्यं शनिवासरे रात्रौ अभवत्। सहस्रशः जनानां, सामाजिक-सांस्कृतिक-राजनैतिकप्रमुखानां अन्त्याञ्जलिं स्वीकृत्य रविवासरे सायं तस्य शरीरमपि पञ्चत्वं प्राप। काञ्चिदपि धार्मिकाचारान् विना राज्यबहुमत्या च आसीत् मृतदेहसंस्कारः सम्पन्नः।

  शब्दानुकरणकलया कलाक्षेत्रं प्रविष्टवान् एरलाकुलं जनपदीयः सलिंकुमारः २००३ तमे वर्षे  हास्यकथापात्राणि स्वीकृत्य चलच्चित्रमण्डलं प्रविष्टवान्। नटनक्षेत्रे अपरिच्छेद्यम् अभिनयचक्रवालं प्रदर्शितवान् सः २५० अधिकं चित्रैः कलास्वादकानां मनसि चिरप्रतिष्ठां सम्प्राप्तः। ततः  भावात्मकाभिनयेन २००७,२०१०,२०१२ वर्षेषु राज्य-राष्ट्रियपुरस्कारान् सम्प्राप्तवान्। त्रीणि चलच्चित्राणि संविधानं कृतवान्। 

  सलिंकुमारस्य वियोगे प्रधानमन्त्री नरेन्द्र मोदी, विपक्षनेता राहुल गान्धी, इत्यादयः देशीयनेतारः अन्वशोचयन्। केरलस्य बहवः सामाजिक-सांस्कृतिक-राजनैतिकप्रमुखाः साक्षादागत्य अन्त्याञ्जलिं समार्पयन्।

निषा शशिकुमार: एवरेस्टशिखरम् आरूढवती कनिष्ठा व्यक्तिः।

 निषा शशिकुमार: एवरेस्टशिखरम् आरूढवती कनिष्ठा व्यक्तिः।

     चेन्नै निवासिनी १६ वर्षीया निषा शशिकुमारः विश्वस्य सर्वोच्चं एवरेस्टशिखरम् आरूढवती कनिष्ठा व्यक्तिः अभवत्। चिट्टूर् जनपदस्थायाः अस्याः निषायाः पर्वतारोहणे प्रेरणा तस्याः पिता शशिकुमार गन्धः आसीत्।

 वर्षद्वयात् पूर्वं नेपाले उत्तराखण्डे च कृतेन पदयात्रा (ट्रकिंग्) माध्यमेन निषायाः पर्वतारोहणे आसक्तिः उत्पन्ना। निषा एतावता रष्यदेशस्य मौण्ट् एल्ब्रस्, आफ्रिकायाः किलिमञ्जारो, आस्ट्रेलियायाः मौण्ट् कोस्युस्को, इण्डोनेष्यायाः कार्स्टेन्स् पिरामिड्, अर्जेन्टीनायाः अकोन्काग्वा इत्यादीनि शिखराणि आरूढवती। १५ वर्षे वयसि कार्स्टेन्स् पिरमिड् आरुह्य सा 'इण्डिया बुक् आफ् रेकॉर्ड्स्' मध्ये स्थानं प्राप्नोत्।


चित्राणि - इ टी वी भारतात्।

आगामि लक्ष्यम् - पञ्चमहाद्वीपानां शिखराणि आरूढवत्याः निषायाः आगामी लक्ष्यं उत्तर-अमेरिकायाः मौण्ट् डेनाली अस्ति। अस्य वर्षस्य नवम्बरमासाभ्यन्तरे 'सेवेन् सम्मिट्स् चैलेञ्ज्' (सप्तशिखरस्पर्धा) पूर्णं कूर्वाणा सा विश्वस्य कनिष्ठा शिखर विजयिनीनी इति भवितुं प्रयतते।

 पर्वतारोहणेन विना निषा बास्केटबाल्-क्रीडिका अस्ति, सा कराटे इति- कायिकाभ्यासम् अपि जानाति। निषा "पॉलिसी रिफॉर्म्स टू क्लैम्ब मौण्ट एवरेस्ट" नामकं पुस्तकम् अपि रचितवती।

 पश्चिमेष्यायुद्धं दिनशतमतीतम्। 

शान्तिः विदूरे।


> इरानं विरुध्य २०२६ फेब्रुवरि २८ तमे दिनाङ्के यू एस्-इस्रयेलसख्येन आरब्धं युद्धं शतं दिनानि अतीतानि। आविश्वम् इन्धनोपलब्धिसन्दिग्धता तथा मूल्यवर्धनं च क्लेशायमानं वर्तते। 

एप्रिल् अष्टमदिनाङ्कादारभ्य ह्रस्वकालिकः युद्धविरामः उपस्थापितः अपि पश्चिमेष्या इदानीमपि संघर्षभरिता अवशिष्यते। आणवयेजना न त्यक्ता इत्यारोप्य यू एस्, इस्रयेलश्च मिलित्वा इरानं आक्रमतः स्म। 

 इराने लबनने च आहत्य सप्तसहस्रं जनाः मृत्युमुपगताः इति गण्यन्ते। इतरेषु गल्फराष्ट्रेषु त्रिंशत्,इस्रयेले २६ च जनाः मृताः। १३ यू एस् सैनिकाः अपि एतस्मिन् कालान्तरे हताः।

 गुजरात्।

अतितापेन ८ सिंहशाबकाः मृताः। 

अहम्मदाबादः> गुजरात् राज्ये गीर् वने अष्ट सिंहशाबकानां मरणम् कठिनतापेन इति स्पष्टीकृतम्। गान्धिनगरस्थे  बयो टेकनोलजी परीक्षणालये विधत्तायां परिशोधनायामस्ति इदं दृढीकरणम्। 

  गते मासद्वये राज्ये उष्णमानं ४० - ४५ डिग्रीमितम् आसीत्।

 नोर्वे चतुरङ्गवीरताकिरीटं प्रग्नानन्दः अलभत। 


ओस्लो> अविश्वसनीयप्रकटनेन भारतस्य आर् प्रग्नानन्दः नोर्वे चतुरङ्गवीरताकिरीटं प्राप्तवान्। निर्णायके अन्तिमप्रतिद्वन्द्वे जर्मनेः विन्सन्ट् कैमर् नामकं पराजित्य एव २० वयस्कः प्रग्नानन्दः वीरः जातः। 

  विश्वस्मिन् प्रबलान् पञ्च कीडकान् प्रतिरुध्य अस्ति प्रग्नानन्दस्य विजयः। वर्तमानीनः विश्ववीरः माग्नस् काल्सः (नोर्वे), वेस्ली सोक् (अमेरिका), अलिरेसा फिरोसः (फ्रान्स्)  इत्यादयः प्रग्नानन्दस्य प्रतिद्वन्द्विषु प्रमुखाः आसन्।

Sunday, June 7, 2026

 वर्षाकालदुष्प्रभावः

केरले पञ्च मरणानि। 

अनन्तपुरी> वर्षाकालमारभ्य दिनत्रये अतीते केरले विविधप्रदेशेषु पञ्च जनाः मृताः। तेषु त्रयः बालकाः भवन्ति। 

  कोष़िक्कोट् जनपदे स्नानार्थं नदीं गत्वा प्रवाहे निपत्य माता सप्तवयस्कः पुत्रश्च मृतौ। कासरगोडजनपदे वृष्ट्या गृहस्य आवेष्टकं निपत्य द्वौ बालकौ मृतौ। तृश्शूर् जनपदे एकः युवकः वृक्षनिकृन्तनः मृतः। दशमदिनाङ्कपर्यन्तं तीव्रवृष्टिः अनुवर्तिष्यते इति ऋतुविज्ञानीयविभागेन निगदितम्।

 जन्तर् मन्तर् क्रीडाङ्कणे सी जे पी युवसामाजिकसंघटनस्य प्रतिषेधः सम्पन्नः। 

जन्तर मन्तरे प्रतिषेधाय सञ्चितवन्तः जनाः। 

नवदिल्ली> नीट्, सि बी एस् ई परीक्षाणां कृत्यविलोपम् आलक्ष्य केन्द्र विद्याभ्यासमन्त्रिणा धर्मेन्द्र प्रधानेन स्थानं त्यक्तव्यम् इति कार्यमुन्नीय राष्ट्रराजधान्यां सी जे पी [कोक्रोच् जनता पार्टी]  नामक युवजनसमाजस्य प्रत्यक्षप्रतिषेधः सम्पन्नः। 'सामाजिकमाध्यमान्दोलनम्'  इति रीत्या आरब्धस्य सी जे पी युवजनसमाजस्य प्रथमे प्रत्यक्षरोषप्रकटने सहस्रशः युवजनाः भागं कृतवन्तः। 

  कोक्रोच् जनता पार्टी इत्यस्य स्थापकः अभिजित् दीप् के इत्यस्य ओण् लैन् द्वारा कृताह्वानमनुसृत्य जन्तर् मन्तर् क्रीडाङ्कणं प्राप्तानां युवकानां हस्तेषु राष्ट्रियध्वजं पुष्पाणि च दृश्यन्ते स्म। ह्यः आसीत् अभिजित् दीपस्य अमेरिकातः स्वदेशं प्रति आगमनम्। 

  प्रभाते दशवादने आरब्धः प्रतिषेधः सायं उपचतुर्वादने समाप्तः। सप्ताहाभ्यन्तरे विद्याभ्यासमन्त्रिणः स्थानत्यागं न भविष्यति तर्हि राष्ट्रव्यापकं प्रतिषेधं विधास्यतीति अभिजित् दीप् के वर्येण प्रोक्तम्।

 वैभवसूर्यवंशी भारतस्य वरिष्ठसंघे। 

वैभव सूर्यवंशी।

भारतीयसंघं प्राप्नुवन् कनिष्ठतमः क्रीडकः। 

सूर्यकुमारः निराकृतः; सञ्जू अन्तर्भूतः। 

मुम्बई> कतिपयकालेन क्रिकटक्रीडाक्षेत्रे तरङ्गायितः कौमारवयस्कः कन्दुकताडकः वैभव सूर्यवंशी भारतस्य वरिष्ठदलं प्राप्यमाणः कनिष्ठतमः क्रिकट्तारमभवत्। अस्य मासस्यान्त्ये अयर्लान्डे ततः इङ्गलाण्टे च आयोज्यमानासु टि-२० क्रीडासु एव सूर्यवंशिनः स्थानम्। 

  १५ वर्षाणि, ७१ दिनानि च वयस्के वैभवे क्रीडासंघं प्राप्ते क्रिकट् इतिहासस्य सच्चिन् टेण्टुल्करस्य नाम्नि भूतम् अनन्याप्तप्राथम्यं [world record] पुरावृत्तमभवत्। यदा सच्चिनः भारताय प्रथमतया क्रीडितवान् तदा तस्य वयः  १६ वर्षाणि २०५ दिनानि चासीत्। 

  सूर्यकुमार यादवं नायकस्थानात् संघाच्च निष्कासितः।नायकस्थाने श्रेयस् अय्यरः नियुक्तः। टि -२० विश्वचषके उज्वलप्रकटनं प्रदर्शितवान् सञ्जू सांसणः  अपि भारतदले अन्तर्भूतः।

 राष्ट्रे ४८ उत्क्षेपिणीषु 'ई-८५' इन्धनम्।

राष्ट्रे ई-८५ एथनोल्मिश्रितेन्धनं मन्त्री हरदीप सिंह पुरी उद्घाटयति। 

नवदिल्ली> भारते ८५% एथनोल् नामकरासवस्तूपेतम् इन्धनं  - ई ८५ - विश्वपर्यावरणदिने बहिर्नीतम्। शुक्रवासरे केन्द्र पेट्रोलियं मन्त्री हरदीप सिंह पुरी दिल्ल्याम् इन्डियन् ओयिल् उत्क्षेपिणीकेन्द्रे अस्य उद्घाटनमकरोत्। 

  विविधेन्धनवाहनेभ्यः [flex fuel vehicles] सज्जीकृते अस्मिन् ई-८५ इन्धने ८५ प्रति शतं एथनोल् अवशिष्टं पेट्रोल् चास्ति। 

  इदानीं आराष्ट्रं ४८ उत्क्षेपिणीषु ई - ८५ इन्धनं लभ्यते। डिसम्बरमासे ५०० उत्क्षेपिणीभ्यः लभ्यते। २०२७ वर्षान्त्ये ५००० उत्क्षेपिणीभ्यः इदमिन्धनं लप्स्यते। पेट्रोलियम् इन्धनानाम् आयातं न्यूनीकर्तुमुद्दिश्य एव अयं नूतनः प्रक्रमः।

 रष्यातः भारताय 'सुखोय्-५७' वाग्दत्तम्। 

सेन्ट पीटेर्स्बर्ग्> रष्यायाः पञ्चमपरम्परायां वर्तमानं युद्धविमानं सुखोय् - ५७ नामकं भारताय दास्यतीति रूसीयराष्ट्रपतिः व्लादिमिर् पुतिनः अवोचत्। भारते रष्यया सह सुखोय् - ५७ युद्धविमानं निर्मातुं सन्नद्धता अपि तेन निगदिता। विविधवार्तासंस्थानाम् अधिकारिभिः सह कृते मेलने आसीत् तस्यायं प्रस्तावः। 

  भारतस्य विश्वस्तः सहयोगी भवति भारतमिति पुतिनेन प्रोक्तम्। भारत-रूसयोः सौहृदं विनाशयितुं केषांचित् पाश्चात्यराष्ट्राणां प्रयत्नः विफलः भवेदिति सः अवदत्।

Saturday, June 6, 2026

 विविधेन्धनवाहनानाम् उपयोगं वर्धापयितुं केन्द्रप्रशासनम्।

८५% एथनोल् युक्तेन्धनं प्रयुज्यते। 

मुम्बई> राष्ट्रे विविधेन्धनवाहनानाम् [Flex Fuel Vehicles] उपयोगः वर्धापयिष्यते इति केन्द्र पेट्रोलियं-प्रकृतिवायुविभागस्य मन्त्री हरदीप सिंह पुरी प्रावोचत्। तदर्थं ८५% एथनोल् युक्तवाहनानि राष्ट्रे  व्यापकं कर्तुं प्रचारं विधास्यति। पेट्रोलियेन्धनस्य आयातं नयूनीकर्तुमेव अस्य उद्देश्यमिति मन्त्रिणा प्रोक्तम्। 

  प्रारम्भस्तरे दिल्ली-एन् सि आर् क्षेत्रं, पूने,नासिक् इत्येतेषु स्थानेषु अभियोजनेयं विधास्यते। ५०० एथनोल् उत्क्षेपणयन्त्राणि [pump] अचिरेण एषु स्थानेषु सज्जीकरिष्यन्ति। वर्षेणैकेन उत्क्षेपणयन्त्राणां संख्या ५००० इति वर्धिष्यते। मारुति सुसुकी संस्थायाः फ्लेक्स् फ्यूवल् वाहनं 'वागण् आर्' इत्यस्य प्रस्तितिवेलायामासीत् मन्त्रिणः अयं प्रस्तावः।

 आन्डमानतटे बृहत्परिमाणे प्रकृतिवायुसञ्चयः।

आन्डमानसमुद्रान्तर्भागे प्रकृतिवाय्विन्धने अधिगते। 

हैदराबादः> आन्डमान निकोबार द्वीपसमीपे समुद्रतीरे बृहत्परिमाणे वायुरूपं प्रकृतेन्धनम् अधिगतम्। द्वीपसमूहस्य पूर्वतटात् १५ कि मी दूरे 'ओयिल् इन्डिया लिमिटड्' संस्थायाः 'श्रीविजयपुरं-३' इत्यस्मिन् पर्यवेक्षणकूपे अस्ति वाय्विन्धनस्य सान्निध्यम् अधिगतम्। केन्द्र पेट्रोलियं-प्रकृतिवायुमन्त्री हर्दीप सिंह पुरी वृत्तान्तमिदं निगदितवान्। 

  समुद्रस्य ३५५ मीटर् अधस्तात् १९०० मीटर् भौमान्तर्भागे अस्ति वायुसान्निध्यं दृष्टम्। राष्ट्रस्य समुद्रान्तरपर्यवेक्षणाभियोजना 'समुद्रमन्तन् मिषन्' इत्यस्मिन् एव अयमभिमानोपलब्धिः।

 उत्तरप्रदेशः

नोयिडायां स्थानद्वये अग्निबाधा। 

नोयिडा> राष्ट्रराजधानीसमीपे उत्तरप्रदेशस्थे नोयिडाप्रदेशे 'सेक्टर् ७४' इत्यत्र वाससमुच्चये अग्निबाधा दुरापन्ना। जनापायः नाभवत्। २८ श्रेणीयुक्तस्य वाससमुच्चयस्य १२ तमश्रेण्यामासीत् अग्निबाधा। 

 'सेक्टर् ५२' इत्यत्र शताब्दि विहारे अतिथिवासस्थाने अपि शुक्रवासरे अग्निबाधा जाता। तत्रापि जनापायः नाभवत्।

 संस्कृतविश्वविद्यालयपरिसरः निशाशलभैः सम्पन्नः।

जैववैविध्यानुशीलनं कृतवन्तः के ए श्रीजीत्, पि जि मनोज्, पि धन्या, ऐश्वर्या सुरेष्, टि आदर्शः च।

कालटी> श्रीशङ्कराचार्य संस्कृत विश्वविद्यालयस्य आस्थानकेन्द्रं कालटीपरिसरः जैववैविध्यैः सम्पन्न इति अनुशीलने प्रत्यभिज्ञातम्। शलभेषु निशाशलभेषु च अधिकं जैववैविध्यम् अत्र दृश्यते। केरले इतःपर्यन्तं प्रत्यभिज्ञातेषु २२१५ निशाशलभजातिप्रकारेषु [species] ३६३ वर्गाः अत्र विद्यन्ते। विश्वविद्यालयस्य 'सुकृति' नामकस्य अरण्यसमाजस्य [Forestry club] नेतृत्वे आसीत् जैववैविध्यस्य आधिकारिकम् अङ्कनं कृतम्। 

  २०२४ ओक्टोबरमासे अनुशीलनं समारब्धम्। ऊर्णनाभः (१६ जातिप्रकाराः), सस्यानि (१४१ जातिप्रकाराः), मण्डूकः (६ जातिप्रकाराः), सर्पाः (८ जातिप्रकाराः) इत्येते च कालटी मुख्यपरिसरे विद्यन्ते। भौमशास्त्रे शोधच्छात्रः टी आदर्शः, समाजसदस्यौ तथा आंगलेयविभागे शोधच्छात्रे ऐश्वर्या सुरेषः, पी धन्या, चरित्रविभागे गवेषक‌ः के ए श्रीजित्, विश्वविद्यालयस्य ग्रन्थशालातः सेवानिवृत्तः जीविनिरीक्षकः पी जी मनोजः इत्येतैः एव अनुशीलनानन्तरम् आवेदनपत्रं सज्जीकृतम्। पि जी मनोजेन प्रोक्तं यत् परिसरात् अधिगम्यमानानां जीविनां चित्राणि Eye naturalist platform इत्यत्र उपारोपणं [upload] कृत्वा Geo-tag क्रियन्ते च। अनन्तरं कृत्रिमबुद्धिमत्तायाः (AI) साहाय्येन प्रत्यभिज्ञायन्ते। आविश्वं शास्त्रज्ञाः प्रकृत्यनुशीलनकुशलाश्च इमानि अधिगमनानि स्थिरीकुर्वन्ति। 

  स्वकीयपक्षिसङ्केतेन विद्यमानः केरलस्य एक एव परिसरः भवति कालटी संस्कृतविश्वविद्यालयपरिसरः।

Friday, June 5, 2026

 केरलम्।

राज्यस्य आर्थिकस्वास्थ्यविषये धवलपत्रं प्रकाशितम्। 

मुख्यमन्त्री वी डी सतीशः विधानसभायां धवलपत्रं प्रस्तौति। 

५.०७ कोटीनां ऋणसंकटः। समूलपरिष्करणमावश्यकमिति सर्वकारः।

आयव्ययपत्रसम्मेलनं १९ तमे दिनाङ्के आरप्स्यते। 

अनन्तपुरी> केरलस्य  आर्थिकस्वास्थ्यस्थितिमधिकृत्य नूतनेन यू डी एफ् सर्वकारेण सज्जीकृतं  धवलपत्रं वित्तमन्त्रिपदं वहन् मुख्यमन्त्री वि डि सतीशः विधानसभायां समर्पितवान्। राज्यं ५. ०७लक्षं कोटि रूप्यकाणाम् ऋणबन्धने वर्तते। सर्वकारसेवकेभ्यः अनुबद्धकेभ्यश्च [contractors] ४८,७७३ कोटि रूप्यकाणि  अवश्यं दातव्यानि सन्ति। 'किफ्बी' संस्थया जाता ऋणग्रस्तता ५६,००० कोटि अस्ति।  ऋणमोक्षाय  न   केवलव्ययाकुञ्चनं किन्तु समग्रं परिष्करणम् आवश्यकमिति मुख्यमन्त्री  प्रस्तुतवान्। 

  भूतपूर्वः 'केबिनट् सेक्रेटरी' पदीयस्य डो के एम् चन्द्रशेखरस्य आध्यक्ष्ये आर्थिक कुशलौ प्रोफसर् सी वीरमणिः, डी नारायणः इत्येतयोः सदस्यत्वे च  आसीत् धवलपत्रस्य सज्जीकरणम्। 

  मुख्यमन्त्री वि डि सतीशः परं वार्ताहरसम्मेलने धवलपत्रस्य विशदीकरणं power point साहाय्येन कृतवान्। किन्तु यानि धवलपत्रे परामृष्टानि तानि वस्तुताविरुद्धानि इत्यादिक्षिप्तं विपक्षीयैः।

 मध्यप्रदेशे हल्मा-परम्परायाः पुनरुज्जीवनम्  

​मध्यप्रदेशे हल्मा-प्रथायाः पुनरुज्जीवनं जनजातीयपरम्परायाः प्रभावः प्रकटयति। बोरपाडाग्रामे पङ्किलकूपस्य पुनरुद्धारणाय तथा च स्वावलम्बनस्य पुनः प्राप्तये भिल्लजनजातीयाः बहुभ्यः वर्षेभ्यः प्रचलन्तीं निःशुलक-सामूहिकश्रमस्य पद्धतिं पुनरुज्जीवितवन्तः। मध्यप्रदेशस्य झाबुआमण्डलस्य बोरपाडाग्रामे एकस्य सार्वजनिककूपस्य स्वच्छतायै पुनरुद्धाराय च भिल्लपरम्परायाः 'हल्मा' इति प्रथां ग्रामवासिनः पुनराविष्कृतवन्तः (पुनरुज्जीवितवन्तः)।

​पञ्चायतसंसदि पुनः पुनः कृताः प्रार्थनाः यदा विफलाः अभवन्, तदा  षट्-विंशत्यधिक-द्विसहस्र (२०२६)  तमस्य वर्षस्य मई-मासस्य षष्ठे दिनाङ्के कूपतः पङ्कं, शिलाखण्डान्, अवकरं च निष्कासयितुं ग्रामवासिनः कूपसमीपं सम्मिलिताः।।

​एषः प्रयासः दर्शयति यत् जनजातीयज्ञानं सामूहिक-प्रवृत्तिः च स्थानीयविकासं कथं पोषयितुं शक्नोति, विशेषतः यदा सर्वकारीयसेवाः विफलाः भवन्ति। ​कस्यापि महानगरस्य आव्हानानि इव कठिनाः समस्याः एव अस्य ग्रामस्य दैनन्दिनजीवनं बाधन्ते। नगरेषु विद्यमानाः क्लेशाः प्रायः प्रवृत्तिषु (वार्तासु) प्रकटीभवन्ति, परन्तु ग्रामस्य कष्टानि अधिकं मौनेन एव सह्यन्ते इति एव विशेषः (भेदः)।

​हल्मा-प्रथायाः स्वरूपम्: -

पारस्परिक-सहयोगस्य सामाजिक-दायित्वस्य च आधारेण, निष्कृतिं विना जनाः यत्र सम्मिल्य कार्यं कुर्वन्ति सा एका पारम्परिका सामूहिकश्रमपद्धतिः अस्ति

 दशमदिनाङ्कपर्यन्तं केरले महती वृष्टिः।

अनन्तपुरी> केरले वर्षाकालः संप्राप्तः इति ऋतुविज्ञानीयविभागेन  निगदितम्। तस्य अंशतया जूण् १० तमदिनाङ्कपर्यन्तं राज्ये महती वृष्टिः भविष्यति इति सूचितम्। शुक्रवासरे पत्तनंतिट्टातः कासर्कोट् पर्यन्तम् एकादशसु जनपदेषु ओरञ्चजागरूकता उद्घोषिता।

 विश्वचषकपादकन्दुकस्पर्धायां भारतं न क्रीडति, किन्तु भारतीयः क्रीडिष्यति। 

खत्तरस्य क्रीडासंघे केरलीयः तह्सिन् मुहम्मद जंषीदः। 

तहसिन् महम्मदः। 

कोषिक्कोट्> अद्यावधि भारतं विश्वचषकपादकन्दुके नाक्रीडत्। समीपभाविनि तथा न सम्भवेत्। किन्तु २०२६ तमवर्षस्य विश्वचषकपादकन्दुकस्पर्धायां कश्चन भारतीयः इदं प्रथमतया क्रीडितुम् सन्दर्भं लभते। केरले कण्णूर् जनपदीयः तह्सिन् मुहम्मद जंषीदः एव सः भाग्यवान्। बी संघे अन्तर्भूतस्य खत्तरराष्ट्रस्य क्रीडासंघे अङ्गमस्ति अयं १९ वयस्कः तह्सिनः। गतदिने विश्वचषकस्य खत्तरसंघे उद्घोषिते फिफाविश्वचषके क्रीड्यमानः "प्रथमभारतीयः तथा प्रथमकेरलीयः" इति चरित्रोपलब्धिः तह्सिनाय दृढीकृता। 

  कण्णूर जनपदे तलश्शेरी प्रदेशे लब्धजन्मनः जंषीदस्य पुत्रः तहसिन् मुहम्मदः इदानीं खत्तरे 'अल् दुहैल् क्लब्' इत्यस्य क्रीडकः अस्ति। २०२४ जूण्मासे विश्वचषकस्य योग्यताचक्रे अफ्गानिस्थानं विरुध्य क्रीडन् राष्ट्रियदले स्थानं लब्धवान्। अतिशीघ्रवान् क्रीडकः इति विशेषता एव तस्मै क्रीडासंघे स्थानं दृढीकृतम्। संघस्य 'प्रथम एकादशे' स्थानं न लब्धमपि सब्स्टिट्यूट् [substitute] रूपेण सः क्रीडिष्यतीति निश्चयः।

 वर्षाकालः सम्प्राप्तः। 


अनन्तपुरी> मण्सूण नामकः दक्षिण-पश्चिमीयवर्षाकालः गुरुवासरे केरलं सम्प्राप्तः। मासैकाभ्यन्तरे आभारतं वर्षाकालः प्राप्स्यतीति केन्द्र ऋतुविज्ञानीयविभागेन निगदितम्। 

  केरलमतिरिच्य माही, कर्णाटकं, तमिलनाटस्य केचित्प्रदेशाः इत्येतेषु स्थानेषु अपि वर्षाकालः प्राप्तः। द्वित्राणां दिनानामाभ्यन्तरे गोवा, महाराष्ट्रं, भारतस्य उत्तर-पूर्वीयराज्येषु च मण्सूणवार्षाः प्राप्स्यन्ति। वंगसमुद्रान्तरालस्य दक्षिण,दक्षिणपश्चिम,मध्य,  उत्तरपूर्वीयभागेषु वर्षा संप्राप्ता इति ऋतु विज्ञानीयविभागेन निगदितम्।

Thursday, June 4, 2026

 गुजराते बङ्गलादेशीयेभ्यः मार्गणम्। 

३०० निगृहीताः। 

अहम्मदाबादः> गुजराते अहम्मदाबादप्रदेशम् अनधिकारत्वेन अधिवसद्भ्यः बङ्गलादेशनागरिकेभ्यः आरक्षकाधिकारिभिः कृते अन्वेषणे - ओपरेषन् डेल्टा  नामके - उपत्रिशतं जनाः गृहीताः। एषु १६६ जनाः बङ्गलादेशनागरिकाः इति प्रत्यभिज्ञाताः। गतवर्षे चन्दोला तटाकपरिसरे कृते अन्वेषणे रक्षां प्राप्ताः जनाः नगरे विभिन्नस्थानेषु वासं कुर्वन्ति इति सूचना लब्धा आसीत्।

 पश्चिमेष्या पुनरपि संघर्षभरिता; रक्तरूषिता।

कुवैट् विमाननिलये इरानस्य ड्रोण् आक्रमणं- भारतीयो मृतः। 

कुवैट् नगरं> लबनन्देशे कृताक्रमणवशात्  शान्त्युपस्थापने सन्दिग्धे जाते आक्रमण-प्रत्याक्रमणैः पश्चिमेष्या पुनरपि संघर्षभरिता जाता। कुवैटे, बहरिने च वर्तमानान् यू एसस्य निलयान् प्रति इरानेन अग्निशस्त्राणि ड्रोण् आयुधानि च प्रयुक्तानि। प्रत्याक्रमणरीत्या होर्मिस् समुद्रसङ्कोचसमीपं वर्तमानम् इरानसेनायाः नियन्त्रणकेन्द्रं यू एसेन आक्रान्तम्। 

  कुवैट् अन्ताराष्ट्रविमाननिलयं विरुध्य इरानेन विधत्ते आक्रमणे एकः भारतीयः मृतः। मध्यप्रदेशीयः मन्सूर् अहम्मदः अस्ति मृतः। अनेन फेब्रुवरी २८ दिनाङ्के युद्धारम्भात् परं मृतानां भारतीयानां संख्या १० अभवत्। 

  ह्यस्तने आक्रमणे ६३ जनाः व्रणिताः। तेषु १२ जनाः भारतीयाः भवन्ति। तेषु त्रयः केरलीयाः।



 दिल्ल्यां वाससमुच्चये अग्निबाधा। 

अग्निबाधायाः दृश्यानि। 

२१ जनाः मृताः। 

मृतेषु ११ विदेशीयाः। 

नवदिल्ली> राष्ट्रराजधानीं प्रकम्पितायाम् महत्याम् अग्निबाधायां ह्यः २१ जनाः दग्धाः। बुधवासरे प्रभाते दक्षिणदिल्ल्यां मालव्यानगरस्थे 'फ्लरिस् स्टे बी आन्ड् बी' - Flourish Stay B&B- नामके वाससमुच्चये आसीत् महती अग्निबाधा। उपपञ्चाशत् जनाः आहताः सन्तः विभिन्नेषु आतुरालयेषु परिचर्यायां वर्तन्ते। 

  मृतेषु ११ विदेशीयाः अपि सन्ति। नैजीरिया, मोसांबिक्, लैबीरिया, बङ्गलादेशः इत्येतेभ्यः राष्ट्रेभ्यः प्राप्ताः इति सूच्यते।

 कर्णाटकम्।

डि के शिवकुमारः मुख्यमन्त्रिपदं प्राप्तवान्।

डि के शिवकुमारः शपथं कुर्वन् पदं स्वीकरोति। 

बङ्गलुरु> कर्णाटकराज्ये मुख्यमन्त्रिरूपेण कोण्ग्रस् नेता डि के शिवकुमारः प्रतिज्ञावाचनं कृत्वा कार्यभारम् प्राप्तवान्। लोकभवने 'ग्लास् हौस्' इत्यत्र राज्यपालः तावर चन्द गहलोट् वर्यः प्रतिज्ञावाचनं कारितवान्। शिवकुमारेण सह १२ मन्त्रिणः अपि शपथं कृत्वा  अधिकारं प्राप्तवन्तः। जि परमेश्वरः उपमुख्यमन्त्री भविष्यति। 

  सिद्धरामय्ये स्थानत्यागे कृतवति अस्ति डि के शिवकुमारस्य पदप्राप्तिः। कोण्ग्रस् नेतृवरिष्ठाः राहुल गान्धी, मल्लिकार्जुन खार्गे, के सि वेणुगोपालः, केरलस्य मुख्यमन्त्री वी डी सतीशः इतरे मन्त्रिणः इत्यादयः प्रतिज्ञावाचन कार्यक्रमे भागं कृतवन्तः।

 सि बी एस् ई कृत्यविलोपे परिहारप्रक्रमः। 

अध्यक्षः कार्यदर्शी च निष्कासितौ। शिक्षामन्त्री सुरक्षितः।

नवदिल्ली> सि बी एस् ई संस्थायाः द्वादशकक्ष्यापरीक्षायाः 'डिजिटल्' मूल्यनिर्णये जातं कृत्यविलोपमधिकृत्य आक्षेपविमर्शनेषु केन्द्रसर्वकारेण मुखसंरक्षणप्रक्रमाः आरब्धाः। सि बी एस् ई संस्थायाः अध्यक्षः राहुल सिंहः, कार्यदर्शी हिमांशु गुप्तः च तत्तत्स्थानाभ्यां निष्कासितौ। किन्तु मुख्योत्तरदायित्वे वर्तमानः विद्याभ्यासमन्त्री धर्मेन्द्र प्रधानः अस्पृश्यः वर्तते। 

  तथा च अस्मिन् वर्षे द्वादशकक्ष्याछात्राणां मूल्यनिर्णयाय Onscreen marking नामकं संविधानं निर्वोढुं ये  सन्धिं प्राप्तवन्तः तेषामुपरि अन्वेषणाय समितिः रूपीकृता। परीक्षाकृत्यविलोपे विद्याभ्यासमन्त्रिणः स्थानत्यागमालक्ष्य विपक्षीयदलानां प्रतिषेधः अपि प्रचलति।

Wednesday, June 3, 2026

 सर्वोच्चन्यायालये पञ्च न्यायाधिपाः अपि नियुक्ताः। 


नवदिल्ली> सर्वोच्चन्यायालये पञ्च न्यायाधिपाः अपि गतदिने नियुक्ताः। पञ्चाब-हरियानयोः मुख्यन्यायाधिपः शील नागुः, मुम्बई उच्चन्यायालयस्य मुख्यन्यायाधिपः श्री चन्द्रशेखरः, मध्यप्रदेशस्य मुख्यन्यायाधिपः सञ्जीव सत् देवः, जम्मु काश्मीरस्य मुख्यन्यायाधिपः अरुण पल्ली तथा वरिष्ठा नीतिज्ञा वी मोहना च नियुक्ताः। मोहनवर्यायाः नियोगेन महिलान्यायाधिपसंख्या द्वे जाते।

 यू एसेन सह चर्चा इरानेन समापिता। 

इस्रयेलस्य लबननं विरुध्य कृतम् आक्रमणं हेतुः।

टेहरानं> इरान-यू एस् इत्येतयोर्मध्ये समाकलिते युद्धविरामसन्धौ मुख्यव्यवस्थासु अन्यतमः  'लबनने युद्धविरामः' इत्ययं  इस्रयेलेन उल्लंघितः इत्यारोप्य यू एसेन सह शान्तिचर्चा इरानेन समापिता। इरानीय वार्ताप्रतिनिधिः 'तस्निम्' इत्यनया संस्थया निगदितं यत् मध्यस्थद्वारा प्रचाल्यमानानि सर्वाणि आशयविनिमयानि सम्भाषणानि च इरानस्य चर्चासंघेन समापितानि इति। 

  रविवासरे चरित्रप्रसिद्धं 'ब्ल्यू फोर्ट् कासिल्' [Blueu fort castle]नामकं दुर्गं सन्निगृह्य इस्रयेलः लबनने स्वाधिनिवेशं प्रबल्यकुरुत।लबननस्य राजधानीनगरस्य - बेय्रूत् - दक्षिणप्रदेशम् आक्रमितुं सैन्यं प्रति बञ्चमिन् नेतन्याहुः आदिशत् च। लबननं प्रति सैनिकप्रक्रमाय यू एसस्य सहयोगः लब्धः इति इस्रयेलमाध्यमैः वृत्तान्तीकृतम्।



Tuesday, June 2, 2026

 धावनाङ्कप्राप्तिवैभवे

वैभव सूर्यवंशिनः अङ्गीकारः - ऐ पी एल् ओरञ्चशिरोवेष्टनम्।

ओरञ्ज् शिरोवेष्टनं लब्धवान् वैभव सर्यवंशी इतरैः पुरस्कारैः सह। 

अहम्मदाबादः> ऐ पी एल् क्रिकट् महोत्सवे बहुषु महारथेषु सत्स्वपि धावनाङ्काSSखेटनस्य कृते दीयमानं ओरञ्चशिरोवेष्टनम् [Orange Cap] इत्यङ्गीकाराय कौमारक्रीडकः वैभव सूर्यवंशी अर्हः अभवत्। राजस्थान् रोयल्स् दलस्य नूतनः अयं 'महाप्रभः तारकः' [Super Star] १६ क्रीडाभ्यः ७७६ धावनाङ्कान् सम्पाद्य धावनाङ्कप्राप्तौ प्रथमस्थानम् अलभत। ओरञ्चशिरोवेष्टनाय स्पर्धितवन्तौ गुजरात टैटन्स् दलीयौ शुभमान गिलः (७३२), साय् सुदर्शनः (७२२) इत्येतौ अन्तिम स्पर्धायां न प्रशोभितवन्तौ। 

  सूर्यवंशी ऐ पी एल् क्रीडासु एकं शतकं, पञ्च अर्धशतकानि च प्राप्तवान्।त्रिषु क्रीडासु अर्धशतकानन्तरं नवत्युपरि धावनाङ्कान् प्राप्य शतं इत्येतत् प्राप्तप्रायःआसीत्। किंतु तदानीं सः अविचारितया रीत्या निष्कासितः अभवत्।

 आहत्य ७२ षट्काणि, ६३ चतुष्काणि च तस्य ताडनीतः जातानि। Orange Cap इत्येतत् अतिरिच्य super striker, emerging player, topest sixer , श्रेष्ठः क्रीडकः इत्येते पुरस्काराः अपि तेन लब्धाः।

 राष्ट्रिय परिवारस्वास्थ्य समीक्षणम्।

पोषकखाद्यन्यूनता वरिष्ठेषु वर्धते।

निर्णायकसूचनाः तमस्कृताः इति सर्वकारं प्रति विमर्शः च।

नवदिल्ली> केन्द्रसर्वकारस्य स्वास्थ्य-परिवारकल्याणमन्त्रालयस्य अधीशत्वे अन्ताराष्ट्रीयजनसंख्यानुशीलनकेन्द्रेण विधत्तस्य राष्ट्रिय परिवारस्वास्थ्य समीक्षणस्य विज्ञप्तिलेखः प्रकाशितः। शरीरभारसूचिका [Body Mass Index] सामान्येन आवश्यपरिमाणात् न्यूनीभूतानां महिलानां मानं नगरप्रदेशेषु वर्धते इति विज्ञप्तिलेखे सूच्यते। बालकेषु पोषकाहारन्यूनतां गणनीयरीत्या आकुञ्चयितुम् अशक्यत। किन्तु ग्रामक्षेत्रेषु पुरुषेषु तथा महिलासु च पोषकभोज्यन्यूनता वर्धते इति प्रत्यभिज्ञातम्। वृत्तिराहित्यम्, आर्थिकसन्दिग्धता च अस्य कारणमिति मन्यते। 

 महिलासु पुरुषेषु च अतिस्थूलत्वं [Obesity] नगरेषु ग्रामेषु च वर्धते। तमाखुं [tobacco] तस्योत्पन्नानि च उपयुज्यमानानां महिलानां मानं ग्रामेषु वर्धते। 

  किन्तु निर्णायकवृत्तान्तानि तमस्कृत्य एव राष्ट्रिय परिवारस्वास्थ्यसमीक्षणं विधत्तमिति विमर्शः अपि बहिःश्रूयते। राष्ट्रस्य रक्ताल्पताबाधितानां[Anemia] मानं, पाकेन्धनवातोपयोगः, स्वच्छताप्रगतिः इत्यादीनि सुप्रधानसूचकानि समीक्षणे न विद्यन्ते इत्येतत् विमर्शविधेयमभवत्।

 कर्णाटकम्। 

डि के शिवकुमारस्य प्रतिज्ञा बुधवासरे। 


बङ्गलुरु> कर्णाटके मुख्यमन्त्रिरूपेण कोण्ग्रस् दलस्य वरिष्ठनेता डि के शिवकुमारः जूण् तृतीयदिनाङ्के प्रतिज्ञां कृत्वा पदं प्राप्स्यति। राज्यपालः तावर् चन्द गहलोत् इत्यस्य पुरतः सायं ४. ०५ वादने प्रतिज्ञावाचनं करिष्यति। 

  स्थनत्यागं कुर्वतः सिद्धरामय्यस्य स्थाने अस्ति शिवकुमारस्य पदप्रवेशः। शनिवासरे विधानसौधस्य सभागारे सम्पन्ने कोण्ग्रसः सामाजिकसम्मेलने सः ऐककण्ठ्येन चितः। सिद्धरामय्यवर्यः तस्य नाम निरदिशत्।

Monday, June 1, 2026

 केरलम्। 

'ट्रोलिंग्' निरोधः नवमदिनाङ्कतः। 

अनन्तपुरी> केरलस्य तीरसमुद्रेषु जूण् ९ दिनाङ्कतः जूलाय् ३१ दिनाङ्कपर्यन्तं trolling नामकस्य यन्त्रवत्कृतनौकामुपयुज्य क्रियमाणस्य मत्स्यबन्धनस्य निरोधः विहितः। एषः कालखण्डः मत्स्यानां प्रमुखः प्रजननकालः इत्यतः मत्स्यसम्पदं संरक्षितुमुद्दिश्य एव ५२ दिनानां ट्रोलिंग् निरोधः विहितः। 

  तीरसमुद्रे परम्परागतधीवराणाम् उपरितलमत्स्यबन्धनाय निरोधो नास्ति। यन्त्रवत्कृतमत्स्यबन्धनयानानां कर्मकराः ये वृत्तिनष्टेन क्लेशमनुभूयमानाः, तेभ्यः अनुबन्धवृत्तिकरेभ्यश्च अस्मिन् कालखण्डे निश्शुल्कम् अन्नपरिमाणं [ration] अनुमोदयिष्यते।

 ऐ पि एल् किरीटं बङ्गलुरुणा प्राप्तम्।

किरीटप्राप्ति वेलायां RBC दलस्य आह्लादः। 

अहम्मदाबादः> 'Indian Premier League'- ऐ पि एल् - इति क्रिकट् स्पर्धापरम्परायाः अन्तिमस्पर्धायां 'रोयल् चलञ्चेर्स् बङ्गलुरु' संज्ञया RBC , गुजरात् टैटन्स् संघं पञ्च द्वारकैः पराजित्य किरीटं सम्प्राप। अनुस्यूततया द्वितीयवारमेव  ऐ पि एल् किरीटं RBC दलेन सम्प्राप्तम्। अनेन चेन्नै सूपर् किङ्स्, मुम्बई इन्डियन्स् इत्येतयोः द्विवारं किरीटोपलब्धिः इति  सविशेषस्थानमपि लब्धम्। 

  उत्क्षेपनिर्णयं [Toss] उपलभ्य क्षेत्रपालनं [Fielding] चितवान् बङ्गुलुरु संघः प्रतिद्वन्दिनं गुजरातं २० क्षेपणचक्रेषु १५५ धावनाङ्कान् प्रति सङ्कोचयति स्म। प्रत्युत्तरक्रीडायां १८ क्षेपणचक्रेषु १६१ धावनाङ्कान् सम्पाद्य ऐ पि एल् चषकमपि सम्पादयामास। विराट कोह्ली विजयशिल्पी अभवत् [४५ कन्दुकैः ७५*]। प्राप्ताङ्कसूचिका - गुजरातः २० क्षेपणचक्रेषु १५५/८।बङ्गुलुरु १८ क्षेपणचक्रेषु १६१/५।

 ज्ञानमाधुर्येण सह प्रवेशनोत्सवः; उन्मेषभरिताः राज्यस्य विद्‍यालयाः; प्रथमकक्ष्यां प्रति लक्षशः शिशवः।

​   तिरुवनन्तपुरम्:> ग्रीष्मावकाशस्य दीर्घविरामात् परं राज्यस्य विद्‍यालयेषु अद्य नूतनाध्ययनवर्षस्य उत्साहपूर्णः प्रारम्भः अभवत्। वर्षाबिन्दुभिः वर्णाभछत्रैः सह लक्षशः छात्राः अद्य विद्‍यालयान् प्रविष्टवन्तः। अक्षराङ्गणं प्रति प्रथमवारं पदन्यासं कृतवन्तः शिशवः मधुरपक्वान्नैः वातगोलकैः (baloon) च अध्यापकैः ज्येष्ठछात्रैः च सादरं स्वागतीकृताः।

   ​तिरुवनन्तपुरस्थ-शासकीय-आदर्श-उच्चतर-विद्‍यालये आयोजितं राज्यस्तरीय-प्रवेशनोत्सवं मुख्यमन्त्री वि. डि. सतीशन् महोदयः उद्घाटितवान्। सार्वजनिक-शिक्षाविभगस्य मन्त्री एन्. षंसुद्दीन् महोदयः कार्यक्रमे अध्यक्षपदम् अलङ्कृतवान्। अन्ये मन्त्रिणः जनप्रतिनिधयश्च विभिन्नजनपदेषु प्रवृत्तानां प्रवेशनोत्सवानां नेतृत्वम् ऊढवन्तः।

 पाकिस्थानसम्बन्धिनः अष्ट भीकराः दिल्ल्यां निगृहीताः। 

बृहद्भीकराक्रमणाभियोजना भग्नायिता।

नवदिल्ली> पाकिस्थानस्य गूढान्वेषणसंस्था ऐ एस् ऐ [Inter Service Intelligence] इत्यनया सह संबन्धमानाः अष्ट भीकराः दिल्ली आरक्षकसेनायाः सविशेषसंघेन निगृहीताः। आयुधानि स्फोटकवस्तूनि च एभ्यः संगृहीतानि। 

 ऐ एस् ऐ इत्यस्य साहाय्येन मुम्बैस्थया अधोलोकश्रृङ्खलया सह संयोज्य दिल्ल्यां तन्त्रप्रमुखक्षेत्राणि सुरक्षाधिकारिणः च आक्रमितुम् अनेन संघेन परियोजना आसूत्रिता इति आरक्षणाधिकारिभिः प्रोक्तम्। 

 उत्तरप्रदेशः, झार्खण्डः, पञ्चाबः, महाराष्ट्रम् इत्येतानि राज्यनिवासिनः सप्त, एकः नेपालदेशीयः च निगृहीताः भीकराः। राष्ट्र गुप्तान्वेषणसंघस्य सूचनया अनुस्यूतनिरीक्षणस्य अन्वेषणस्य च अन्ते आसीत् एतेषां निग्रहणम्।