OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, February 25, 2018

अभिनेत्री श्रीदेवी दिवंगता।
         कोच्ची > अतुल्यया अभिनयप्रतिभया सार्धदशकाधिकैः संवत्सरैः 'बोलिवुड्' चलच्चित्रमण्डलस्य मुखश्रीरूपेण परिलसिता विख्याता अभिनेत्री श्रीदेवी [५४] दिवंगता। दुबाय् देशे कस्मिंश्चन विवाहोत्सवे भागभाजं कर्तुं गतासीत्। मदिरां पीत्वा स्नाना य गता सा स्नानभ्ष्ट्रे निमज्जिजिता मृत्यु वशं गताः इति श्रूयते।  आतुरालये  प्रवेशितापि तत्पूर्वमेव मरणग्रस्ता इत्यपि श्रूयते।  रात्रौ सार्धैकादशवादने  अन्त्यं जातं स्यादिति मन्यते। स्वस्य चतुर्थे वयसि तमिळ् चलच्चित्रे नटनं कृत्वा एव श्रीदेव्याः अभिनयजीवनमारब्धम्। ततः हिन्दी, मलयालं, तमिल्, कन्नटा, तेलुगु इत्यादिषु भाषासु २५० परं चलच्चित्रेषु स्वस्य अभिनयप्रतिभां प्रकाशितवती। २०१३ तमे वर्षे राष्ट्रस्य पद्मश्री बहुमत्या समादृता। श्रीदेव्याः मरणे राष्ट्रपतिः, प्रधानमन्त्री, बहवः चलच्चित्र-सांस्कृतिक प्रमुखाश्च अनुशोचनं प्रकाशितवन्तः।।