OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, February 20, 2018

सर्वाशस्तिषु श्रेष्ठा विशाखा मदीया
   
वार्ताहर: मंजू भट्टाचार्य 
कत्तर्> गतदिबसे कतार् (Qatar) प्रदेशे डोहा (Doha ) इति स्थाने 'संस्कृत भारती' नाम्नः समूहः संस्कृतस्य प्रचार-प्रसारणाय 'संस्कृतं दिनम्'  इति एकम् अभिनव प्रतियोगितायाः आयोजनम् अकरोत्। डोहा अञ्चले स्थितं सर्वेषां भारतीयानां विद्यालयानां छात्राः अस्यां स्पर्धायाम् अंशग्रहणम् अकुर्वन्। संस्कृतं दिनम् अनुष्ठाने  सुभाषितानि च लघुकथावाचश्च हस्तलिखनं च संस्कृत - गीतं च नानाविधानि विभागेषु स्पर्धा आयोजितम् आसीत्। 'विशाखा हरिकृष्णनः ' नाम्नः एका द्वादशवर्षिया बाला संस्कृते अनुवादितं " सारे जहाँ से अच्छा हिंदुस्तान हमारा (सर्वलोकेषु रम्यं भारतमस्मदीयं मदीयम् ....)" गीत्वा प्रथमस्थानम् प्राप्तवती। अत्र उल्लेखनीय यत् इदं बहुः लोकप्रियश्च विख्यातः गीतस्य संस्कृतानुवादं भारतवर्षस्य आसामप्रदेशनिवासी रञ्जन बेजबरुआ महाशयेन कृतम्। २०१६ तमे वर्षे इदं गीतं दूरदर्शने प्रसारणम् अभवत्। इदानीं रञ्जन महाशयेन  अनुवादितम् इदं गीतं संस्कृतजगति सर्वाधिकं लोकप्रियं भवति। कनिष्ठा विशाखा इदं गीतं च हस्तलिखनं द्वे क्षेत्रे प्रथमं स्थानम् प्राप्तवती। वालायाः  उत्फुल्लश्च गर्वितः पिता श्रीः एइच् गणपति महाशयः स्वयं अयं सन्देशः पत्रमाध्यमेन गीतानुवादकं प्रेषितवान्। एषा वार्ता सर्वसंस्कृतप्रेमीणां निकटे हि आनन्ददायका।