OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, February 21, 2018

महाराष्ट्र सर्वकारस्य  विमाननिर्माणदायित्वं युवकाय।
                मुम्बै> प्रथमविमाननिर्माणेन  सफलताम् अवाप्य अमोल् यादवः।  महाराष्ट्र सर्वकारस्य कृते विमाननिर्माणस्य दायित्वम् इदानीं अमोल् यादवस्य एव। एतदर्थं पञ्चत्रिंशत् कोटिरुण्यकाणि सर्वकारेण प्रदास्यते। अमोलस्य तेर्स्ट् एयर्क्राफ्ट् प्रै. लिमिट्टड्  नाम उद्योग संस्थया निर्मितं षट् यात्रिकणां यात्रासनयुक्तं विमानं व्याेमयान विभागस्य अङ्गीकारम् अवाप्तम्  इत्यनेन एव महाराष्ट्र सर्वकारः सन्धौ  हस्ताक्षरीकृतम्।  योजनायाः कृते पल् गर् जनपदे सप्तपञ्चाशतधिक एकशत (१५७) 'एकर्' परिमितं भूमिं प्रदास्यते। नवदश यात्रारासनयुक्तं विमानमेव (१९) नवीनायां योजनायां प्रथमतया निर्मीयते इति अमोल् यादवेन उक्तम्।