OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, February 1, 2018

 शिक्षादानेन दीर्घकालिका सन्तुष्टि: भवति - डॉ. के. साम्बशिवमुर्ति:
वार्ताहरः- दापक् शास्त्री

          नवदिल्ली>जगद्गुरूरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालय: तथा शंखनादफाउन्डेशन इत्यनयो: तत्वावधाने २७-०१-२०१८ तमे दिनाङ्के विश्वविद्यालयस्य परिसरे रामानन्दसभागारे "भिक्षा न शिक्षा ददातु" इति विषये एका संगोष्ठी समायोजिता। संगोष्ठया: अध्यक्ष: विश्वविद्यालयस्य कुलपतिः डॉ. विनोदशास्त्रीमहोदय: आसीत्। कुलपतिमहोदयेन आशीर्वादप्रदाय उक्तम् यत् प्राचीन भारते शास्त्रेषु वेदेषु शिक्षा सन्दर्भे वर्णितानां विशेषविषयाणां प्रतिपादनं कृतम्। कार्यक्रमस्य सारस्वतातिथि: विश्वविद्यालयस्य कुलसचिव: डॉ. के. साम्बशिवमुर्ति: महोदय: आसीत्। महोदयेन स्वभाषणे सम्बोधितं यत् अन्नदानं तु  महादानं वर्तते  अन्नदानात् श्रेयस्कर: तु विद्यादानं वर्तते  यतो हि अन्नात् क्षणिका तृप्ति: भवति किन्तु शिक्षादानेन दीर्घकालिका सन्तुष्टि: भवति अन्यानपिशिक्षितुं शक्नोति। तथा अशिक्षितजनानां शिक्षा दानं भवेत् शिक्षितजनानां अपि संस्कारप्रदानं भवेत् इति उद्बोधयत्। राजस्थान बालायोगस्य अध्यक्षा मनन चतुर्वेदी बालयोगेन आयोजितानां कार्यक्रमाणां एवं सर्वकारीय परियोजनानां परिचयं दत्वा परिचयं  तासां सफलतायै सर्वान् सहयोगं प्रदानाय अनुरोधं कृतवती। क्रमेSस्मिन्  शंखनाद फाउन्डेशनस्य अध्यक्ष: श्रीवेदप्रकाश महोदयेन फाउन्डेशन विषये विस्तृतं परिचयम् उपस्थापितम्। भूमिका महोदया संगोष्ठया: आयोजनस्य उद्देश्य: कार्य-योजनायाश्च विषये प्रस्तावना प्रस्तुतवती।  संगोष्ठयामस्यां विश्वविद्यालयस्य सर्वेशिक्षका: पी.एच्.डी षाण्मासिक पाठ्यक्रमस्य शोधार्थिन: सर्वे: विभागीयच्छात्राश्च समुपस्थिता: आसन्। सभायाः संचालनं शुभममिश्रमहोदयेन कृतम्।