OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, February 1, 2018

केन्द्र आर्थिकसमाकल्पना अद्य।
             नवदिल्ली > अद्य प्रातः ११ वादने धनमन्त्रिणा अरुण्जैट्ली महाभागेन केन्द्र अर्थिकसमाकल्पना विधानसभायां अवतारयिष्यते। पण्य-सेवनकरस्य आयोजनानन्तरं अवतार्यमाणः प्रथमः आर्थिक-समाकल्पना भवति इयम्। २०१९ तमे वर्षे आयोक्ष्यमाणात् लोकसभानिर्वाचनात् प्राक् अवतार्यमाणा आर्थिक-समाकल्पना इति कारणतया अस्याः प्राधान्यं अधिकं वर्तते। पञ्चमोऽयं सन्दर्भः यस्मिन् जय् ट्ली महाभागेन आर्थिकसमाकल्पना अवतार्यते। करस्य श्रेणिक्रमे समाश्वासः प्रतीक्ष्यते आर्थिकविचक्षणैः। प्रत्यक्षकरनियमस्य परिष्करणाय गते नवंबर् मासे वरिष्ठाधिकारिणः संयोजनेन टाक्स् फोर्स् नाम आयोगः रूपीकृतः आसीत् । आयोगस्य करसमाश्वासनिर्देशाः परिगणयिष्यते  इत्यपि श्रूयते।