OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, January 19, 2021

 अकिञ्चनराष्ट्राणां कृते वाक्सिनं न लभते - विश्वस्वास्थ्यसंघटनम्।

  जनीवा> धनिकराष्ट्रेषु कोविड्वाक्सिनानि स्वायत्तीकृतेषु दरिद्रराष्ट्रैः बहुक्लेशः अनुभूयते इति विश्वस्वास्थ्यसंघटनेन [WHO] उक्तम्। 'प्रथमः अहं स्यामि'ति धनिकराष्ट्राणां मनोभावः तथा वाक्सिननिर्माणसंस्थानां विधेयत्वं च वाक्सिनवितरणे असमत्वाय कारणं भवतीति WHO निदेशकमुख्यः टेट्रोस् अथनों गब्रियेसूस् वर्यः अवदत्। 

  सश्रीकराष्ट्रेषु इतःपर्यन्तं ३.९कोटि मात्राः वितरीताः। किन्तु अकिञ्चनराष्ट्रेषु केवलं २५ मात्राः एव वितरीताः। "२.५ कोटि वा २५,०००वा मात्राः न, केवलं २५ मात्रा" - तेन स्पष्टीकृतम्। तुल्यवितरणाय कृतप्रतिज्ञानि बहूनि राष्ट्राणि प्रतिज्ञापालनात् व्यतिचलितानीति अथनोंवर्यः निराशां प्रकाशितः।