OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, January 31, 2021

 दिल्लीस्फोटनं - उत्तरदायित्वं 'जय्षे उल् हिन्द्'ना स्वीकृतम्। 


   नवदिल्ली> इस्रायेल् एम्बसीकार्यालयस्य समीपे शुक्रवासरे सायं सञ्जातस्य स्फोटनस्य उत्तरदायित्वं स्वीकृत्य 'जय्षे उल् हिन्द्' नामकस्य आतङ्कवादसंघटनस्य टेलिग्रामसन्देशः प्रचरन्नस्ति। किन्तु अन्वीक्षणसंस्थायाः एतदास्पदं सुव्यक्तं किमपि प्रमाणं नालभत। 

  स्फोटनस्य नातिचिरात्प्राक् एम्बसीकार्यालयस्य समीपेन किमपि यानं सन्देहास्पदे साहचर्ये प्राचलदिति समीपस्थेषु सि सि टि वि दृश्येषु वर्तते। प्रकरणमिदं एन् ऐ ए संस्थया स्वीक्रियते इति श्रूयते।