OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, January 16, 2021


 केरळाराज्यस्थेन संस्कृतप्रसारप्रचारक्षेत्रे अनवरतं कार्यं कुर्वता Livesanskrit संघेन राष्ट्रियपुरस्कारः अवाप्तः। 


संस्कृतचलच्चित्रनिर्माणगीतप्रकाशनादिकार्येषु सदा अग्रेसरः अयं livesanskrit संघः केरलाज्यस्थानां संस्कृताध्यापकानां एकः समवायः अस्ति। कविकुलगुरुकालिदासविश्वविद्यालयेन समायोजितायां ह्रस्वचलच्चित्रनिर्माण-प्रतियोगितायां केरलास्थेन livesanskrit संघेन प्रथमपुरस्कारः प्राप्तः। राष्ट्रिययुवजनदिनस्य परिप्रेक्ष्ये आसीदियं प्रतियोगिता समायोजिता। भारतीययुवकान् प्रति विवेकानन्दस्वामिनां सन्देशः इति विषये आसीत् प्रतियोगिता| भारतस्य विविधेभ्यः राज्येभ्यः अनेके प्रतिभागिनः अस्यां प्रतियोगितायां भागं स्वीकृतवन्तः।  वन्दे विवेकानन्दम् इति नाम्ना निर्मितमिदं ह्रस्वचलच्चित्रम् सामाजिकमाध्यमेषु अपि लोकावधानताम् आप्नोति। अस्य सम्पादनम् निदेशनम् च  विनायक् सि बि, रचना शब्दसंयोजनं च  नन्दकिशोर् आर्, पटकथा लिबि पुरनाट्टुकरा च द्वारा एव विहितानि। livesanskrit संघस्य सदस्याः एव एते सर्वे समीपकाले एव अनेन संघेन shibus Sanskrit इति युट्यूब् सरण्यां प्रकाशितं किम् किम् किम् इति मलयालगीतस्य संस्कृतीकृतं गीतं सामाजिक माध्यमेषु बहुधा प्रसिद्धम् अभवत्। इयं पुरस्कारप्राप्तिः livesanskrit संघस्य प्रवर्तनेभ्यः प्रेरणादायिका एवेति संघाध्यक्षः डो महेष् वाबु एस् एन् सम्प्रतिवार्तामाध्यमम् अवदत् ।