OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, January 26, 2021

 भारत-गणतन्त्रदिवसः!

अस्माकं भारतदेशे प्रतिवर्षं जनवरीमासस्य षड्विंशतिदिनाङ्के गणतन्त्रदिवसः समायोज्यते। दिवसोऽयं राष्ट्रियपर्वत्वेनापि परिपाल्यते। प्रतिवर्षं जनवरीमासस्य षड्विंशतिदिनाङ्कः एवं किञ्चन दिनं वर्तते यस्मिन् दिने प्रत्येकं भारतीयानां मनसि देशभक्तिः जागर्ति मातृभूमिं च प्रति अपारस्नेहः उत्पद्यते। एवमेव अनेकाः महत्त्वपूर्णाः स्मृतयः सन्ति याः तेन पर्वणा सह योजिताः भवन्ति। १९५० तमे वर्षे जनवरीमासस्य षड्विंशतिदिनाङ्के भारतदेशस्य


 संविधानं प्रवर्तते स्म। तदनन्तरं भारतदेशः पूर्णरूपेण गणतन्त्रदेशः अभवत्। तदारभ्य जनवरीमासस्य षड्विंशतिदिनाङ्कः स्वतन्त्रदिवसत्वेन समग्रे देशे अत्यन्तम् उत्साहेन आमान्यते, अपिच तद्दिने राष्ट्रियावकाशः घोषितो भवति।आयोजनमिदं देशस्य कृते निःस्वार्थभावेन आत्मानं समर्पितवतां हुतात्मनां स्मरणं कारयति। जय हिन्द् वन्दे मातरम्। 

रचयिता-

प्रदीपकुमारनाथः असमप्रदेशः।