OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, February 12, 2021

 'केन्ट्' कोरोणा वैराणुव्यापनं विश्वमखिलं स्यात्। वाक्सिन् निष्फलं भविष्यति इति वैज्ञानिकाः।

   लण्टन्> चीनराष्ट्रे पुनरपि कोरोणा वैराणुभीषया द्वे नगरे पिधानं कृतम्। केन्ट् मध्ये प्रत्यभिज्ञातः नूतनः कोरोणवैराणुः आविश्वं व्याप्स्यते इति वैज्ञानिकाः अभिप्रेन्ति। इदानीं दीयमानेन वाक्सिनेन लब्धं संरक्षणं दुर्बलं कर्तुं नूतनः वैराणुः सज्जः स्यात् इति यु के राष्ट्रस्य जनितक-निरीक्षणायोगस्य अधिपः षारोण् पीकोक् इत्याख्येन आवेद्यते। कोरोणा वैराणुना इतःपर्यन्तं २.३५ दशलक्षं जनाः मारिताः। कोटिशानां साधारणजनानां जीवनम् तिरश्चीनमभवन्। नूतनः वैराणुः औषधप्रतिरोधान् प्रतिकूलरीत्या बाधिष्यते इति च षारोण् पीकोक् अवदत्। ब्रिट्टणे व्याप्तः नूतनवैराणुः शक्ता भवति। विश्वहननाय क्षमतायुक्तः भवति एषः इत्यपि तेन उक्तम्।