OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, March 1, 2022

रूस - युक्रेणचर्चा अनुवर्तिष्यते - आविश्वम् आकांक्षायाम्। 

गोमिल्> पञ्चदिनात्मकं यावत् अनुवर्तमानं युद्धं समापयितुं रूस - युक्रेणयोः मिथः संवृत्तायां चर्चायां अनन्तरचर्चां कर्तुं निर्णयोSभवत्। प्रकरणपरिहाराय काश्चन रूपरेखाः कृताः, तासां प्रवृत्तिपथप्राप्त्यर्थं पुनरपि चर्चाः भविष्यन्तीति युक्रेनस्य राष्ट्रपतेः व्लादिमिर् सेलन्स्कीवर्यस्य उपदेष्टा उक्तवान्। 

  प्रातिवेशिकराष्ट्रस्य बलूरसस्य सीमाप्रान्ते विद्यमानायाः प्रिप्यात् नद्याः तीरे आसीत् चर्चावेदिका। प्रथमा चर्चा ५ होरापर्यन्तं दीर्घिता।