OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, March 11, 2022

 भारतस्य तीरसेनायाः उदग्रयानं काश्मीरे भग्नमभवत्। वैमानिकः निहतः। सहवैमानिकः व्रणितश्च।


नवदिल्ली> भारतस्य तीरसेनायाः 'चीट्टा' उदग्रयानं जम्मूकश्मीरे गुरेस् मण्डले हिमावृतप्रदेशे भग्नमभवत्। अपघाते मुख्य वैमानिकः निहतः सहवैमानिकः व्रणितश्च इति अधिकारिभिः आवेदितम्। गुरेस् अधित्यकायां गुजरान्नल्ला मण्डले एव अपघातः आम्पन्नः। अपघाते आपन्ने क्षणे एव रक्षाप्रवर्तनानि समारब्धानि। सहवैमानिकः सैनिकातुरालये चिकित्सायां वर्तते इत्यपि अधिकारिभिः आवेदितम्।