OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, March 5, 2022

 षेन् वोण् निर्यातः। 

बाङ्कोक्> क्रिकट् इतिहासः इति विख्यातः आस्त्रिलियायाः 'स्पिन्' ऐन्द्रजालिकः षेन् वोण् [५२] शुक्रवासरे दिवंगतः। ताय्लान्ट् मध्ये हो समूयि प्रदेशस्थे स्वभवने मृतरूपेण दृष्ट आसीत्। हृदयस्तम्भनमेव कारणमिति  प्राथमिकनिर्णयः। 

  क्रिक्कट् मण्डले सम्भूतेषु वरिष्ठतमेषु क्रीडकेषु अन्यतम षेन् वोणः निकषस्पर्धायां अधिकतमविक्कट् लब्धेषु द्वितीयस्थानमर्हति। १५ संवत्सराणां दीर्घिते तस्य क्रीडाजीवने ७०८ द्वारकाः [Wickets]तेन लब्धाः।