OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, March 1, 2022

भारतीयानां प्रतिनिवर्तनं - चत्वारः केन्द्रमन्त्रिणः यूक्रेनसीमासु। 

नवदिल्ली> युक्रेनात् भारतीयान् प्रतिनिवर्तयितुमुद्दिष्टानां प्रवर्तनानां नेतृत्वं वोढुं चत्वारः केन्द्रमन्त्रिणः प्रधानमन्त्रिणा नरेन्द्रमोदिना नियुक्ताः। जनरल् वि के सिंहः, ज्योतिरादित्य सिन्ध्यः, हरदीपसिंहपुरी, किरण रिरिजुः इत्येते मन्त्रिणः 'ओपरेषन् गङ्गा' इति कृतनामधेयस्य रक्षादौत्यस्य प्रतिनिधिरूपेण युक्रेनेन सह सीमान्ते विद्यमानानि पञ्चराष्ट्राणि गन्तुं नियुक्ताः। 

  प्रवर्तनानां संयोजनं, एतदर्थं प्रादेशिकशासनैः सह चर्चा, केन्द्रसर्वकारेण सह सम्बन्ध्य प्रक्रियाः शीघ्रं कारयेयुः इत्येते अधिकाराः तेषु निक्षिप्ताः सन्ति। 

   ८००० भारतीयाः एतदाभ्यन्तरे प्रतिनिवृत्ताः इति विदेशकार्यवक्ता अरिन्दं बाग्चीवर्यः अवोचत्। युक्रैने १२,००० भारतीयाः अपि अवशिष्यन्ते, तानपि स्वदेशमानेतुं सर्वकारः प्रतिज्ञाबद्ध इति तेनोक्तम्।