OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, January 12, 2025

 लोसान्जलसे बडवाग्निः नियन्त्रणाधीनः। 

१६ मरणानि, १२,००० भवनानि अग्निसात्कृतानि, ३६,००० हेक्टर मितप्रदेशः अग्निग्रस्तः, १५,००० कोटि डोलर् मितस्य नाशः। 

लोस् आञ्जलिस्>  यू एस् राष्ट्रस्य मुख्यनगरेषु अन्यतमेषु लोस् आञ्जलिस् मध्ये दिनत्रयं संहारताण्डवं कृतवान् बडवाग्निः नियन्त्रणाधीनः अभवत्। 'पालिसेड्', 'ईटण्' इति कृतनामधेयेन अग्निद्वयेन इतःपर्यन्तं १६ जनाः मृत्युमुपगताः। अनेके अप्रत्यक्षाः जाताः। 

  यू एस् देशे जनाधिवासस्य संख्यायां द्वितीयस्थानमावहति १३ लक्षं जनाः अधिवसत् लोसान्जलस् नगरम्। अत्रत्यः ३६,००० हेक्टर मितप्रदेशः अग्निग्रस्तः इत्यनेन १५,००० कोटि डोलर् मितस्य नाशः अभवत्। अष्टमासान् यावत् अनावृष्टिरनुवर्तते अत्र। अतः उष्णवायोः प्रभाव एव एतादृशस्य अग्निताण्डवस्य कारणम्।