OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, January 10, 2025

 भावगायकः पि जयचन्द्रः दिवंगतः। 


तृशूर्> भावगायकः इति विख्यातः दक्षिणभारते चलच्चित्र-ललितगानादिषु व्यक्तिमुद्रां पातितवान् पि जयचन्द्रः [८१] दिवंगतः। अर्बुदरोगबाधितः सः संवत्सरैकं यावत्  परिचर्यायामासीत्। 

  १९४४ तमे वर्षे कोच्चीदेशे चेन्दमङ्गलं प्रदेशस्थे पालियं भवने लब्धजन्मा जयचन्द्रः अर्धशतकाधिककालस्य गानसपर्यया मलयालं तमिल् कन्नडा हिन्दि भाषासु १६,००० गानानि अगायत्। पञ्चवारं केरलराज्यस्य श्रेष्ठगायकपुरस्कारः तस्मै दत्तः। चतुर्वारं तमिलनाटराज्यस्य अयं पुरस्कारः सम्मानितः। चलच्चित्रमण्डले समग्रयोगदानाय दीयमानः जे सि डानियेल् पुरस्कारः केरलसर्वकारेण तस्मै समर्पितः। अनश्वरगायकस्य भौतिकशरीरं  जन्मगेहे पालियं भवने आनीय श्वः अन्त्येष्टिकर्माणि विधास्यन्ति।