OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, January 28, 2025

 राष्ट्रियकायिकोत्सवः अद्य समारभते। 

भाग्यचिह्नः मौली 

दह्रादूणः> राष्ट्रियकायिकोत्सवस्य ३८ तमसंस्करणाय उत्ताखण्डराज्ये मङ्गलवासरे शुभारम्भो भविष्यति। २८ राज्येभ्यः ८ केन्द्रशासनप्रदेशेभ्यः 'सर्वीसस् बोर्ड्' इत्यस्माच्च दशसहस्रं कायिकताराः भागं करिष्यन्ति। ११ वेदिकासु ४३ स्पर्धाप्रकरणानि विधास्यन्ति। 

  दह्रादूणस्थे राजीवगान्धि अन्तर्देशीयक्रिकट् क्रीडाङ्कणे सायं चतुर्वादने प्रधानमन्त्री नरेन्द्रमोदी कायिकोत्सवम्  उद्घाटयिष्यति।

  राज्यरूपीकरणस्य २५ तमं वार्षिकमाघुष्यमाणः उत्तराखण्डः प्रथमतया एव राष्ट्रिय कायिकोत्सवाय आतिथ्यं वहति। 'मौलि' इत्यस्ति कायिकोत्सवस्य भाग्यचिह्नस्य नाम।