OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, January 11, 2025

 केरलराज्यपालः प्रधानमन्त्रिणा सह मेलितवान्। 

राज्यपालः आर्लेकरः प्रधानमन्त्रिणे केरलस्य उपहारं समर्पयति। 

"उन्नतशिक्षामण्डलस्य उत्तरदायित्वमात्मन्येव" - राज्यपालः।

नवदिल्ली> केरलस्य नूतनः राज्यपालः राजेन्द्र विश्वनाथ आर्लेकरः दिल्यां प्रधानमन्त्रिणा नरेन्द्रमोदिना, उपराष्ट्रपतिः जगदीप धनकरेण च सह मेलनं विधत्तवान्। राज्यपालपदस्वीकरणानन्तरं प्रथममेव तस्य दिल्लीप्राप्तिः। शनिवासरे केरलं प्रतिनिवर्तयिष्यति। 

  केरले उन्नतशैक्षिकमण्डलस्य पूर्णम् उत्तरदायित्वम् आत्मनि निक्षिप्तमिति केरलहौस् मध्ये वार्ताहरान् प्रति अवोचत्। यू जि सि संस्थायाः मार्गनिर्दशं विरुध्य मुख्यमन्त्रिणः परामर्शमधिकृत्य वार्ताहराणां प्रशनस्य समाधानरूपेणैव राज्यपालस्य उक्तिः।