OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, January 7, 2025

संस्कृतादेव बह्वीनां भाषाणां उत्पत्तिर्जाता - वाचस्पतिमिश्रः

    संस्कृतभाषा सर्वभाषाणां जननी इति मन्यते । एषा भाषा न केवलं भारतस्य सांस्कृतिकनिक्षेपः, अपितु तस्याः शब्दाः, व्याकरणं, संरचना च अनेकासु भाषासु प्रभावं कृतवती अस्ति। अद्यापि हिन्दी-मराठी- गुजराती-तमिल- तेलुगु, आङ्ग्ल- जर्मन -प्रभृतिषु भाषासु संस्कृतशब्दाः दृश्यन्ते ।

   संस्कृतस्य प्रभावः अस्माकं दैनन्दिनकार्यक्रमे अपि स्पष्टतया दृश्यते। सप्ताहस्य

सप्तनामानि संस्कृतात् उत्पन्नानि सन्ति । सोमवासरः चन्द्रेण (सोमेन) सह सम्बद्धः। मंगलवासरः मंगलग्रहेण सम्बद्धः। बुधवासरः बुधग्रहात् । गुरुवासरः गुरुणा (बृहस्पतिना) । शुक्रवासरः शुक्रात् शनिवासरः - शनितः। रविवासरः सूर्येण सम्बद्धः। मासानां ग्रहनक्षत्राणां च उल्लेखः संस्कृते एव प्राप्यते । संस्कृते द्वादशमासानां नामानि अपि वैदिकज्योतिषशास्त्रेण, खगोलशास्त्रेण च प्रेरितानि सन्ति । एतेषां नामानां आधारः सूर्यचन्द्रयोः गतिः- चैत्रवैशाखज्येष्ठप्रभृतयो मासाः भवन्ति।

    संस्कृते ग्रहनक्षत्राणां च विस्तृतं वर्णनम् अस्ति। सूर्य-चन्द्र-मङ्गल-बुध-बृहस्पति-शुक्र-शनि-प्रभृतीनां ग्रहानाम् नामानि संस्कृतात् गृहीतानि सन्ति । सप्तविंशतिः नक्षत्राणि (अश्विनी, भरणी, कृत्तिका इत्यादीनि) वेदेषु उल्लिखितानि सन्ति।


   विश्वस्य विषये विस्तृता सूचना संस्कृतसाहित्ये दत्ता अस्ति। “सूर्यसिद्धान्तः” “आर्यभट्टीयम्” इत्यादयः ग्रन्थाः प्राचीनभारतीय खगोलशास्त्रेण सम्पूर्णजगते दिङ् दत्ता इति प्रमाणम् अस्ति । ब्रह्माण्डं जगत् "लोकः", "अन्तरिक्षम्" इत्यादिभिः नामभिः सम्बोधितम् अस्ति ।

इत्येवं प्रकारेण स्वेन वक्तव्येन उत्तरप्रदेशसंस्कृतसंस्थानस्य अध्यक्षचरेण संस्कृतभारत्याः पश्चिमोत्तरक्षेत्रस्य विद्वत्परिषद्प्रमुखेण व्याकरणशास्त्रस्य लोकमान्येन विदुषा “डॉ वाचस्पतिमिश्रेण” संस्कृते अनेकेषां विषयाणां उदाहरणानि प्रदाय ग्रन्थेषु विश्वस्य, खगोलशास्त्रस्य, मानवजीवनस्य च जटिलतायाः विषये विशेषतया चर्चा कृता । तदीयं वक्तव्यं वैज्ञानिकं दार्शनिकं च अस्ति । 

    अमुना उदीरितं यत् संस्कृतं केवलं धार्मिकाध्यात्मिकक्षेत्रपर्यन्तमेव सीमितां न कृत्वा व्यवहारिक-वैज्ञानिक-सन्दर्भेष्वपि मन्तव्यम् । सः अवदत् यत् संस्कृतभाषा न केवलं प्राचीनभारतीयसंस्कृतेः आत्मा अस्ति, अपितु विज्ञानस्य, खगोलशास्त्रस्य, साहित्यस्य च क्षेत्रेषु अस्माकं अमूल्यो न्यासो वर्तते। इयं भाषा अतीतस्य वैभवस्य, भविष्यस्य सम्भावनायाः च संगमः अस्तीति प्रतिपादयता अमुना विदुषा शिक्षार्थिनः अभिमुखीकृताः। शिक्षार्थिनश्चापि बौद्धिकसत्ल्रस्य वक्त्रे स्वम् अनुभवं श्रावितवन्तः ‌। 

   बौद्धिके सत्रेऽस्मिन् कुलदीप मैनडोला, संगठनमंत्री गौरव शास्त्री, वर्गाधिकारी आचार्यः कीर्तिवल्लभ मैन्डोला, ज्योतिः, संतोषः, सलोनी, आनंदजोशी, राकेशसेमवालः प्रभृतयः कार्यकर्तारः आसन् ।