OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, January 6, 2025

 रामनगरे संस्कृतभारती उत्तराञ्चलम्  प्रान्तस्य प्रान्तसम्मेलनं प्रारब्धम्।

   संस्कृतभारती उत्तराञ्चलस्य द्विदिनात्मकं प्रान्तीयसम्मेलनं रामनगरस्य खत्रीसभाभवने आरब्धम्।   कार्यक्रमस्य आरम्भ: दीपप्रज्ज्वलेन मुख्यातिथि: रूपेण समागताः दीवानसिंह बिष्टः (विधायकः) रामनगरम् महोदयेन कृतम्।

अवसरेsस्मिन्  प्रान्तमन्त्री श्रीगिरीशतिवारी, क्षेत्रसंगठनमंत्री देवेन्द्र पण्ड्या,प्रान्तगणसदस्या श्रीमती जानकी त्रिपाठी,  इत्येभिः सहिताः अनेके विद्वांसः उपस्थिताः आसन् ।कार्यक्रमस्य संचालनं डॉ. वेदव्रतेन

कृतम् ।

   सम्मेलने संस्कृतस्य प्रचारं जनजीवनस्य अभिन्नं भागं करणाय च बलं दत्तम् । वक्तारः अवदन् यत् संस्कृतं केवलं भाषा नास्ति, अपितु मानवजीवनस्य, संस्कृतस्य, सभ्यतायाः च आधारशिला अस्ति, “संस्कृतं न केवलं भाषा, अपितु अस्माकं संस्कृतस्य, परम्परायाः, ज्ञानस्य च अमूल्यं धरोहरं वर्तते। अस्यां दिशि संस्कृतभारत्याः प्रयत्नाः अतीव प्रशंसनीयाः, अयं सम्मेलनम् अस्माकं कार्याय नूतनां दिशं दास्यति इति मम विश्वासः अस्ति।"

 प्रो.दिनेशचंद्रशास्त्री उत्तराखण्ड संस्कृतविश्वविद्यालयस्य हरिद्वारस्य कुलपतिः, देवेन्द्रहरबोला संस्कृतमहाविद्यालयस्य रामनगरस्य विद्वांसः अपि स्वविचारं चर्चिततवन्तः।

   साप्ताहिकः आवासीयः भाषाप्रबोधनवर्गः अपि अत्रैव निरन्तरं भवति।

 प्रचलितस्य साप्ताहिकस्य आवासीयप्रबोधनवर्गस्य चतुर्थे दिने शिबिरार्थिनः संस्कृतभाषायां वाक्-कौशलस्य अभ्यासं कृतवन्तः। प्रतिभागिभ्यः संस्कृतभाषायां संचारकौशलं शिक्षितुं कक्षाधिकारी कीर्तिवल्लभ मैनदोला, संगठनमन्त्री गौरवशास्त्री, राज्यशिक्षणप्रमुखः डॉ. राघव झाः, वर्गशिक्षणप्रमुखः कुलदीपमैण्डोला च योगदानं दत्तवन्तः।

  अध्यापकाः शिविरार्थिनः सरलतया प्रभावीरूपेण च संस्कृतभाषायाः अभ्यासं कृतवन्तः, तेन भाषायाः व्यावहारिकरूपेण आत्मीकरणं कृतम्। आयोजने सहभागिनां उत्साहः दर्शनीयः आसीत्।