OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, January 9, 2025

 कौमारकलावसन्तस्य शुभपरिसमाप्तिः।

तृशूर् जनपदस्य सुवर्णकिरीटम्। 

किरीटजेतारः तृशूरजनपदीयाः मन्त्री के राजन् वर्येण सह।

अनन्तपुरी> केरलस्य ६३ तम राज्यस्तरीयविद्यालयकलोत्सवस्य राजधानीनगरे शुभपरिसमाप्तिः। एष्यायाः बृहत्तमः कौमारकलोत्सवः इति ख्यातिमापन्नस्य कलावसन्तस्य अन्ते तृशूरजनपदं श्रेष्ठतमजनपदाय दीयमाने सुवर्णचषके चुम्बनं समार्पयत्। आद्यन्तमुत्साहपूर्णायां स्पर्धायां तृशूरजनपदेन १००८ अङ्काः सम्प्राप्ताः। 

  पालक्काट् जनपदं १००७ अङ्कैः अनुधावन्नभवत्। गतवर्षस्य जेतारः कण्णूर् जनपदं १००३ अङ्कैः तृतीयस्थानं प्राप। 

  समाप्तिसम्मेलनं विपक्षनेता वि डि सतीशः उद्घाटनमकरोत्। शिक्षामन्त्री वि शिवन्कुट्टिः सुवर्णचषकं सम्मानितवान्। चलच्चित्राभिनेतारौ टोविनो तोमसः, आसिफ् अली च विशिष्टातिथिरूपेण भागं गृहीतवन्तौ।