OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, January 3, 2025

 वाहनसम्मर्दक्लेशे बङ्गुलुरु नगरं एष्यायां प्रथमस्थाने। 

बङ्गुलुरु> एष्यायां यानानां गमनागमनक्लेशमनुभूयमानेषु नगरेषु प्रथमस्थाने बङ्गुलुरु वर्तते इति निजीयसंस्थया कृते अनुशीलने स्पष्टम्। दश कि मी दूरतरणाय २८ मिनिट् १० सेकन्ड् मितसमयः आवश्यकः इति नेतर्लान्ट आस्थानीभूतया 'टोम् टोम्' इति लोकेषन् टेकनोलजी संस्थया प्रकाशिते ट्राफिक् इन्डक्से आवेदनपत्रे स्पष्टीकृतम्। 

  इदमावेदनमनुसृत्य बङ्गुलुरु नगरवासिनः प्रतिवर्षं १३२ होराः अधिकतया वाहनसम्मर्दक्लेशमनुभवन्ति। पूणे नगरं द्वितीयस्थाने वर्तते। १० कि मी दूरतरणाय २७ मिनिट् ५० सेकन्ड् समयः आवश्यकः। तृतीयस्थाने मनिलानगरं [फिलिप्पीन्स्], अनन्तरं तायिचुङ् नगरं [तय्वान्] च वर्तेते।