OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, January 4, 2025

 चीनदेशे वैराणोः प्रसरणे भीतिः न आवश्यकं भारतीय स्वास्थ्य  संस्था।

   चीनदेशे ह्युमन् मेटाप् न्यूमोनो वैराणोः प्रसरणे भारतजनानाम् आशङ्कायाः आवश्यकता नास्ति, इति भारतीयस्वास्थ्यसंस्थया स्वास्थ्यसेवया उक्तम्। केन्द्रसर्वकारस्य गृहमन्त्रालयः स्थितिं यथायथं निरीक्षते इति स्वास्थ्यसेवायाः महानिर्देशकः (डी जी एच् एस्) डॉ० अतुल् जोयलः अवदत्। ह्युमन् मेटाप् न्यूमोनो वैराणोः प्रतिरोधाय औषधानि अद्यापि उपलब्धानि न सन्ति, तथापि सर्वाणि श्वाससम्बन्धिरोगाणि निवारयितुं साधारणनिर्देशाः पालनियाः इति चीनदेशेन विचार्यते। भारतदेशं प्रति काचन आशङ्कायाः आवश्यकता नास्ति इत्यपि तेनोक्तम्।