OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, January 3, 2025

 खेल् रत्नपुरस्काराः प्रख्यापिताः। 

मनु भाकरः, डि गुकेशः, हर्मन् प्रीतसिंहः, प्रवीणकुमारश्च खेलरत्नानि। 

३२ कायिकतारेभ्यः अर्जुनपुरस्कारः, त्रिभ्यः द्रोणाचार्यपुरस्कारश्च। 

डि गुकेशः 

नवदिल्ली> चत्वारः कायिककुशलाः राष्ट्रस्य परमोन्नतकायिकपुरस्काराय खेलरत्नाय अर्हाः अभवन्। अतीते ओलिम्क्से युगलपतकं प्राप्तवती गोलिकाप्रक्षेपिका मनु भाकरः, विश्वचतुरङ्गविजेता डि गुकेशः, यष्टिक्रीडानायकः हर्मन् प्रीतसिंहः, ऊनाङ्गानाम्  ओलिम्पिक्स् मध्ये क्रीडकः  प्रवीण कुमारः इत्येते गतवर्षस्य खेलरत्नपुरस्काराय अर्हाः अभवन्। 

  जनुवरि १७ तमे दिनाङ्के राष्ट्रपतिभवने सम्पत्स्यमाने समारोहे पुरस्कारसमर्पणं भविष्यतीति केन्द्र युवजन-कायिकमन्त्रालयेन निगदितम्।