OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, January 14, 2025

महाकुम्भमेला - प्रथमदिने ६० लक्षं पुण्यस्नानानि। 

प्रथमे दिने त्रिवेणीसंगमस्थाने पुण्यस्नानं कुर्वन्तः भक्तजनाः। 

प्रयागराजः> ह्यः पौष्यपौर्णम्यां समारब्धायाः महाकुम्भमेलायाः प्रथमदिने शंखनादानां कीर्तनालपानाम् अनुगमनेन ६० लक्षाधिकं तीर्थाटकाः त्रिवेणीसंगमस्थाने पुण्यस्नानं कृतवन्तः। प्रत्येकं १२ वर्षाभ्यन्तरे आयोज्यमाना इदं तीर्थाटनं विश्वस्मिन् महत्तमं तीर्थाटनमिति परिगण्यते। 

  ४५ दिनात्मके महाकुम्भमेलने आहत्य ५० कोटि भक्ताः भागं करिष्यन्ति। कार्यक्रमेभ्यः सज्जं महाकुम्भनगरं १०,००० एकर् मितं विस्तृतमस्ति। एकस्मिन् काले एककोटि तीर्थाटकान् अन्तर्भावयितुं शक्यते।