OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, January 1, 2025

 मुण्टक्कै-चूरल्मला भूस्खलनम् अतितीव्रमिति केन्द्रसर्वकारस्य सम्मतिः।

नवदिल्ली>  २०२४ आगस्ट् मासे  केरले वयनाट्जनपदे दुरापन्नः भूस्खलनदुरन्तः अतितीव्रस्वभावयुक्तः इति दुरन्तस्य १५६ तमे दिने केन्द्रसर्वकारस्य सम्मतिः। विषयमिदं केन्द्रगृहमन्त्रालयः राज्यसर्वकारम् औद्योगिकरीत्या न्यवेदयत्। 

  अनेन केन्द्रसर्वकारात् अधिकसाहाय्यं लब्धुं मार्गः जातः। केरलं पुरस्कृत्य केन्द्रसर्वकारस्य इदं प्रख्यापनं महतः आश्वासस्य विषयः अस्ति। विविधाभ्यः  पुनरधिवासप्रक्रियाभ्यः ऊर्जप्रदायकं  भवति।