OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, January 10, 2025

 नेतारः उच्चन्यायालयं प्रति साक्षादुपस्थातव्याः।

मार्गावरुद्धसम्मेलनं न्यायलयादेशविरुद्धम्।

केरलस्य प्रमुखराजनैतिकदलनेतॄन् प्रति आदेशः। 

अनन्तपुर्यां राजवीथीमवरुध्य  राजनैतिकदलसम्मेलनाय  निर्मिता वेदिका।

कोच्ची> वीथीं चलनमार्गं चातिलङ्ध्य राजनैतिकदलसम्मेलनानि प्रतिषेधान् चायोजितानि इति प्रकरणे प्रथमदृष्ट्या न्यायालयादेशलङ्घनमस्तीति केरलस्य उच्चन्यायालयस्य आदेशः। सि पि एं दलस्य राज्यसचिवः एं वि गोविन्दः, सि पि ऐ दलस्य राज्यसचिवः बिनोय् विश्वः, कोण्ग्रस् दलनेता सामाजिकश्च टि जे विनोदः इत्यादयः उच्चन्यायालयस्य नीतिपीठसमक्षं फेब्रुवरि दशमदिनाङ्के उपस्थातुं आदेशः दत्तः। प्रत्येकस्मिन् प्रकरणे ये उत्तरदायित्वं निर्वोढ्यमानाः आसन् ते  आरक्षकाधिकारिणश्च उपस्थातव्याः। 

  न्यायाधीशौ अनिल् के नरेन्द्रः, एस् मुरलीकृष्णः इत्येतयोः नीतिपीठस्यैवायमादेशः।