OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, January 3, 2025

 उत्तरभारते अतिशैत्यं - जनाः क्लेशमनुभवन्ति। 

नगरेषु भवनरहितानां कृते अभयशिबिराणि आरब्धानि। 

नवदिल्ली> उत्तरभारते दिल्ली, हरियानम्, उत्तरप्रदेशः, मध्यप्रदेशः इत्यादिषु राज्येषु शैत्यं कठिनतरं वर्तते। प्रभाते तापमानं ६ डिग्री सेल्ष्यस् पर्यन्तमाकुञ्चितम्। अत एव  जनाः बहुक्लेशमनुभवन्ति। 

  दिल्ल्यां रेल् यानसेवायां बहुविलम्बः जातः। हिमपातेन वीथीदृश्येषु क्लेशः अनुभूयते। वीथीयात्रा क्लिष्टा अभवत्। 

  नगरेषु बहवः भवनरहिताः जनाः अतिशैत्येन दुरितपूर्णजीवनं यापयन्ति। तादृशानां कृते समाजसेवासंघटनानां नेतृत्वे अभयशिबिराणि आरब्धानि।  कुटीराणि निर्माय शीतप्रतिरोधकवस्त्राणि इत्यादिकं दत्वा एव आश्वासप्रवर्तनानि आयोजितानि।