लडाके सैनिकोदग्रयानेन अतिसाहसिकं रक्षाप्रवर्तनम्।
१८,६०० पादमिते उच्चस्थाने लग्नः पर्वतारोहकः रक्षितः। 
सेनायाः रक्षादौत्यस्य विदूरदृश्यम्।
ले[श्रीनगरं]> भारतस्य स्थलसेनाविभागः अतिसाहसिकेन रक्षाप्रवर्तनेन प्रशस्तेः उत्तुंगश्रृङ्गमारूढः। श्रीनगरस्थे 'नण्कुण्'नामक पर्वतश्रेण्यां समुद्रतलात् १८,६०० पादमिते उच्चस्थाने पर्वतारोहणमध्ये क्षतेन लग्नं पर्वतारोहकं स्थलसेनावैमानिकाः अभ्यरक्षन्। कठिने शैत्ये शक्ते वायुवाते न्यूनायां वायुसान्द्रतायां च अतिसाहसिकेन आसीत् रक्षादौत्यम्।
उदग्रयानमवतारयितुम् असाध्ये प्रपातप्रदेशे 'One skid landing' प्रौद्योगिकविद्याम् उपयुज्य आसीत् रक्षाप्रवर्तनम्। वैमानिकानां धैर्यं, सूक्ष्मता, श्रेष्ठं संयोजनं च प्रयत्नविजये निर्णायकमभवन्। तत्तु भारतस्य स्थलसेनायाः व्योमयानविभागस्य सेवाकिरीटे अनर्घरत्नमिव शोभते।
दौत्यस्य विजयाय सर्वविधपूर्वसज्जतां गृहीत्वा आसीत् प्रवर्तनम्।