OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 1, 2026

 उत्तरभारते तीव्रवृष्टिः। 

उत्तराखण्डे त्रयः मृताः। 

नव दिल्ली> उत्तरभारते सामान्यतया बहुषु राज्येषु तीव्रा वृष्टिः अनुवर्तते। जम्मु-काश्मीरम्, उत्तराखण्डः, असमः, मध्यप्रदेशः, पश्चिमवंगः, ओडीषा इत्यादिषु राज्येषु कठिनवृष्टिरस्ति। वंगसमुद्रान्तराले जातः न्यूनमर्द एव वृष्टिहेतुः। 

 उत्तराखण्डे कार् यानं जलप्रवाहे निपत्य त्रयः कार् यानयात्रिकाः मृताः।  नद्यः आप्लुतोदकाः वर्तन्ते। डराडूणे विद्यालयानां विरामः उद्घोषितः।