OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, February 10, 2016

जर्मनी राष्ट्रे रयिल् यानयोः अपघातः बहवः मृताः 


train-accident
बर्लिन्> जर्नीयोः  राष्ट्रे बवेरियायां रयिल् यानयोः दुर्घट्टने बहवः मृताः शताधिकाः व्रणिताः म्युनिक् देशेएव अपघातः जातः होर्किच्चन् देशतः होसन् हयिं प्रति  गच्छदासीत् यानमेव आपदि पतितम्। घट्टनस्य उग्र शक्त्या यानं तिर्यक्कृत्य पट्टिकातः पतितम् इति दृक्साक्षिणः वदन्ति दुर्घटनायां कति मृताः इति वक्तुं न शक्यते इति आरक्षकाः वदन्ति। मृतानां संख्या इतोऽपि  अधिकाः भवेत्। व्रणितानां अवस्था गुरुतरा वर्तते रक्षाप्रवर्तनानि अधुनापि प्रचलन्ति। यानान्तर्भागे यात्रिकाः बन्धिताः सन्ति।
छात्राः न आगच्छन्ति चेत् विद्यालयः छात्रान् अन्विष्य गमिष्यति।
 जयपूर > छात्रान् अन्विष्य विद्यालयः सञ्जरन्ति! ग्रामीणछात्राणां पठनार्थं जय्पूर् नगरस्य टाबर सोसैटी संस्थया अविष्कृता नूतना पद्धतिरियम्।
" स्कूल् ओपण् वील् " इति नाम्ना विद्यालयः ग्रन्थशाला च संभूय भवति एतत्। "सञ्जारविद्यालयस्य " प्रवर्तनोद्धाटनं मुख्यमन्त्रिणा वसुन्धरा राजा महाभागया कृतम्। प्रथमतया जय्पूर् जनपदे एव विद्यालयस्य प्रवर्तनम्। लूणिया वास् , गोणार् मण्डलाणां ग्रामीणानां तथा गार्डिया लोहार , गुमान्डु विभागानां मध्ये च प्रवर्तनाय उद्दिश्यते। सर्वकारीयशैक्षिक रङ्गे विविधेषु राज्येषु  पृष्ठतः अस्ति राजस्थानदेशः।
संस्कृतसंभाषण शिबिरम्।
केरळम् - तृश्शूर्>  तृश्शुर् नगरे पुनः दशदिनसम्भाषणशिबिरम् भविष्यति ।  चिन्मयमिषन्  भुवनेश्वरी मन्दिरे प्रातः १० वादनतः १२ वादन पर्यन्तम् । फेब्रुवरी १७ दिनाङ्के आरम्भ:।
पाकिस्तान् संसदि हिन्दुविवाहनियमः अङ्गीकृतः।
इस्लामबाद् > हिन्दु विवाहनियमस्य प्राथमिकदेयकं पाकिस्तानी संसद्समित्या ऐककण्ठ्येन अङ्गीकृतम्।अचिरादेव नियमो भविष्यति। एतदनुसृत्य विवाहवयः १८ भवति।पञ्च हैन्दवान् सभाङ्गान् अामन्त्र्य पर्यालोचनानन्तरमेव देयकं संसिद्धम्।
आगोलभीकरसंस्थानां नियन्त्रणं ऐ.एस्.ऐ द्वारा।

नवदिल्ली > आगोलतले जिहादीप्रवर्तनानां नियन्त्रणं ऐ एस् ऐ नामकेन पाक् चारसंघेन क्रियते इति न्यूयोर्क् टैम्स् दिनपत्रिकया निवेद्यते।इस्लामिक् स्टेट् संधटनायाः प्रारम्भ अपि अनेन संघेन कृतमिति पत्रिकायां प्रसिद्धीकृते लेखने प्रस्तूयते।अन्ताराष्ट्रमुजाहिदीन् प्रवर्तकेषु भूरिभागः सुन्नितीव्रवादिनः। ऐ.एस्.ऐ इत्यस्य साहाय्यं एतेभ्यः लभ्यते इत्यत्र प्रमाणमस्तीति लेखने उच्यते।
लोके अन्विष्टाः सर्वे भीकराः पाकिस्ताने सुरक्षिताः भवन्ति। हखानी श्रृङ्खलायाः नेता सिराजुदीन् हखानी तत्र स्वतन्त्रः।तालिबान्,अल् ख्वीयदा इत्यादयः ऐ एस् ऐ इत्यस्मात् साह्यं स्वीकुर्वन्ति।
  न्यूयोर्क् टैम्स् पत्रिकायाः उत्तराफ्रिक्कन् लेखिका कार्लोट्टा गाल् एव लेखनं सज्जीकृतवती।
संस्कृतसत्रं सम्पन्नम्।

पुदुच्‍चेरी> पुदुच्चेरीस्थेन श्री - अरविन्द - भारतीयसंस्कृति - संस्थानेन आयोजितः सप्तदिनात्मकः 'स्पन्दन' झ्याख्यः संस्कृतशिक्षणवर्गः सुचारुतया सम्पन्न:। असिन् शिक्षण वर्गे देश विदेशेभ्यः उपपञ्चाशत् प्रतिभागिनः संस्कृत शिक्षणार्थम् आगतवन्तः आसन्। संस्थानस्य निदेशकः डॉ. सम्पदानन्द मिश्रः वर्ग सञ्चालनमकरोत्। वर्गे अस्मिन् मन्त्रोच्चारणशिक्षणं,  संभाषणकौशलं, संस्कृते कथानिर्माण कौशलं, बालगीतनिर्माणकौशलं, व्याकरणज्ञानं, छन्दसां परिचयः इत्यादयः अनेके विषयाः योजिताः आसन्। अन्तर्जालस्य उपयोगेन संस्कृताध्ययनं इति विषयमपि सत्रे चर्चिताः।  प्रतिभागिनां संभाषणदक्षतावर्धनाय प्रतिदिनं होरात्रयं सम्भाषणाभ्यासः चासीत्। संस्कृतस्य नानाविधविभवान् अधिकृत्य प्रतिभागिनः सप्ताहाभ्यन्तरेण प्रबोधिताः।
 डा. सम्पदानन्द मिश्रः कक्ष्यां चालयति 
 एक लिटर् शिलातैलमुपयुज्य 200 किलोमीटर्  गन्तुं शक्यते 


जय् पूर्> एक लिटर् पेट्रोल उपयुज्य 200 किलोमीटर्  गम्यमानेन  कार् यानेन सह छात्राणां संघः। जय् पूर् स्वदेशिनः अतुल आरोरया सह त्रिंशत् प्रयत्नशालिनः एव कर् यानस्य निर्मातारः।  वेल्लूर्
 इन् स्टिट्यूट् आफ् टेक्नोलजी कालालयस्य छात्रैः 'रुद्रा' इति कारयानाय नामकरणं कृतम् । न केवलं पेट्रोलस्य व्ययः पुनः पारिस्थितिकमालिन्यानि च  न्यूनीकरोति इति  सविशेषता। इलक्ट्रोणिक् संविधानेन इन्धनोपयोगक्षमता वर्धयितुं शक्यते। अष्टमासाभ्यन्तरेण  निर्मितं  कार् यानस्य  षेल् इक्को मारतण् एष्या स्पर्धायाम्  औद्योगिकरूपेण भागभागित्वं भविष्यति ।

महाराष्ट्रायां पृष्ठोपविष्टानां 
द्विचक्रयानयात्रिकानामपि शिरस्त्राणम् अनिवार्यम्। 


मुंबई > महाराष्ट्राराज्ये द्विचक्रवाहनस्य पृष्ठोपविष्टानां यात्रिकाणामपि  शिरस्त्राणम् अनुपेक्षणीयम् इति गतागतविभागस्य आदेशः। २००० तमे वर्षे मुम्बई उच्चन्यायालयेन कृतं निर्देशमनुसृत्यैव अयमादेशः। किन्तु शिरस्त्राणव्यापारिणां साहाय्यार्थमेवायमादेश इति राज् ताक्करे महोदयस्य नव निर्माणसेनायाः अभिमतम्।

मुम्बई भीकराक्रमणं ऐ.एस्.ऐ. संस्थया आसूत्रितम् - हेड्लि।


नवदिल्ली > मुम्बई नगरे २००८ संवत्सरे संवृत्तं आतङ्कवादि आक्रमणं पाकिस्तानसैन्यस्य ऐ. एस् .ऐ इति  तस्य गुप्तसंघस्य च साहाय्येन कृतमासीदिति आक्रमणस्य मुख्यसूत्रधारः डेविड् कोल्मान् हेड्लि।प्रस्तुते भीकराक्रमणे दण्डितः तीव्रवादी अस्ति पाक्-अमेरिकन् वंशजः दावूद् गीलानी नामकः हेड्ली। 
द्विवारं विफलं भूत्वा तृतीयवारप्रयत्न एव मुम्बई भीकराक्रमणे सफलीकृत इति हेड्ली मुम्बय्यां सविशेषन्यायालये स्पष्टीकृतवान्। २००८ सेप्टम्बर् ओक्टोबर् मासयोः कृतं उद्योगद्वयमपि विफलं जातम्। पुनः नवंबरमासे तेनैव संघेन कृतं प्रयत्नं सफलीकृतम्।वीडियो कोन्फ्रसिंग् द्वारा स उक्तवान्।

ऐ.एस् भीतेः भारतं न मुक्तम् - यु.ए.इ।

अबुदाबी > इस्लामिक् स्टेट् दलात् जातभीतितः भारतं  इतोऽपि न मुक्तम् भवेत् इति यु .ए .इ राष्ट्रस्य सूचना। ऐ.एस्. संघेन समं बन्धं स्थापिताः  द्वादश जनाः भारतं निगूढयारीत्या अन्तः प्रविष्टाः । भीकरविरुद्धप्रवर्तनाय भारतेन समं दृढप्रयत्नं कर्तुं शक्यते इति  यु .ए.इ राष्ट्रेण उक्तम् च। 
ऐ .एस्  भीतितः कोपि न मुक्तः। 
यः कोपि सुरक्षितस्थाने अस्तीति चिन्तयति चेत् ते बहुक्लेशमनुभवितुम् अर्हाः। भारतमपि यु.ए. इ समानं भवेत् इति यु.ए.इ मन्त्री डा.अन् वर् मुहम्मद् गरगाषः अवदत्। षेयिख् मुहम्मद् बिन् सयिद् अल् निह्यानस्य त्रिदिवसीय - भारतसन्दर्शनवेलायामेव आसीत् इयं सूचना। अपि च भीकरविरुद्धप्रवर्तनार्थं नूतन तन्त्राणि  आविष्करोतीति देशीय माध्यमान् प्रति सः अवदत्।

जर्मनीराष्ट्रे रयिल् यानयोः अपघातः बहवः मृताः 


train-accident
बर्लिन्> जर्नीयोः  राष्ट्रे बवेरियायां रयिल् यानयोः दुर्घट्टने बहवः मृताः शताधिकाः व्रणिताः म्युनिक् देशेएव अपघातः जातः होर्किच्चन् देशतः होसन् हयिं प्रति  गच्चतासीत् यानमेव आपति पतितम् घट्टनस्य उग्र शक्त्या यानं विपरी कृत्य रेल्तः पतितः इति दृक्साक्षिणः वदन्ति दुर्घटनायां कति मृताः इति वक्तुं न शक्यते इति आरक्षकाः वदन्ति मृतानां संख्या इतोऽपि  अधिका वर्धते व्रणितानां अवस्था गुरुतरा वर्तते रक्षाप्रवर्तनानि अधुनापि प्रचलन्ति यानान्तर्भागे यात्रिकाः बन्धिताः सन्ति।
छात्राः न आगच्छन्ति चेत् विद्यालयः छात्रान् अन्विष्य गमिष्यति।
 जयपूर > छात्रान् अन्विष्य विद्यालयः सञ्जरन्ति! ग्रामीणछात्राणां पठनार्थं जय्पूर् नगरस्य टाबर सोसैटी संस्थया अविष्कृता नूतना पद्धतिरियम्।
" स्कूल् ओपण् वील् " इति नाम्ना विद्यालयः ग्रन्थशाला च संभूय भवति एतत्। "सञ्जारविद्यालयस्य " प्रवर्तनोद्धाटनं मुख्यमन्त्रिणा वसुन्धरा राजेन कृतः। प्रथमतया जय्पूर् जनपदे एव विद्यालयस्य प्रवर्तनम्। लूणिया वास् , गोणार् मण्डलाणां ग्रामीणानां तथा गार्डिया लोहार , गुमान्डु विभागानां मध्ये च प्रवर्तनाय उद्दिश्यते। सर्वकारीयशैक्षिक रङ्गे विविधेषु राज्येषु  पृष्ठतः अस्ति राजस्थानदेशः।
संस्कृतसंभाषण शिबिरम्।
केरळम् - तृश्शूर्>  तृश्शुर् नगरे पुनः दशदिनसम्भाषणशिबिरम् भविष्यति ।  चिन्मयमिषन्  भुवनेश्वरी मन्दिरे प्रातः १० वादनतः १२ वादन पर्यन्तम् । फेब्रुवरी १७ दिनाङ्के आरम्भ:।
पाकिस्तान् संसदि हिन्दुविवाहनियमः अङ्गीकृतः।
इस्लामबाद् > हिन्दु विवाहनियमस्य प्राथमिकदेयकं पाकिस्तानी संसद्समित्या ऐककण्ठ्येन अङ्गीकृतम्।अचिरादेव नियमो भविष्यति। एतदनुसृत्य विवाहवयः १८ भवति।पञ्च हैन्दवान् सभाङ्गान् अामन्त्र्य पर्यालोचनानन्तरमेव देयकं संसिद्धम्।
आगोलभीकरसंस्थानां नियन्त्रणं ऐ.एस्.ऐ द्वारा।

नवदिल्ली > आगोलतले जिहादीप्रवर्तनानां नियन्त्रणं ऐ एस् ऐ नामकेन पाक् चारसंघेन क्रियते इति न्यूयोर्क् टैम्स् दिनपत्रिकया निवेद्यते।इस्लामिक् स्टेट् संधटनायाः प्रारम्भ अपि अनेन संघेन कृतमिति पत्रिकायां प्रसिद्धीकृते लेखने प्रस्तूयते।अन्ताराष्ट्रमुजाहिदीन् प्रवर्तकेषु भूरिभागः सुन्नितीव्रवादिनः। ऐ.एस्.ऐ इत्यस्य साहाय्यं एतेभ्यः लभ्यते इत्यत्र प्रमाणमस्तीति लेखने उच्यते।
लोके अन्विष्टाः सर्वे भीकराः पाकिस्ताने सुरक्षिताः भवन्ति। हखानी श्रृङ्खलायाः नेता सिराजुदीन् हखानी तत्र स्वतन्त्रः।तालिबान्,अल् ख्वीयदा इत्यादयः ऐ एस् ऐ इत्यस्मात् साह्यं स्वीकुर्वन्ति।
  न्यूयोर्क् टैम्स् पत्रिकायाः उत्तराफ्रिक्कन् लेखिका कार्लोट्टा गाल् एव लेखनं सज्जीकृतवती।

Tuesday, February 9, 2016

संस्कृतसत्रं सम्पन्नम्।

पुदुच्‍चेरी> पुदुच्चेरीस्थेन श्री - अरविन्द - भारतीयसंस्कृति - संस्थानेन आयोजितः सप्तदिनात्मकः 'स्पन्दन' झ्याख्यः संस्कृतशिक्षणवर्गः सुचारुतया सम्पन्न:। असिन् शिक्षण वर्गे देश विदेशेभ्यः उपपञ्चाशत् प्रतिभागिनः संस्कृत शिक्षणार्थम् आगतवन्तः आसन्। संस्थानस्य निदेशकः डॉ. सम्पदानन्द मिश्रः वर्ग सञ्चालनमकरोत्। वर्गे अस्मिन् मन्त्रोच्चारणशिक्षणं,  संभाषणकौशलं, संस्कृते कथानिर्माण कौशलं, बालगीतनिर्माणकौशलं, व्याकरणज्ञानं, छन्दसां परिचयः इत्यादयः अनेके विषयाः योजिताः आसन्। अन्तर्जालस्य उपयोगेन संस्कृताध्ययनं इति विषयमपि सत्रे चर्चिताः।  प्रतिभागिनां संभाषणदक्षतावर्धनाय प्रतिदिनं होरात्रयं सम्भाषणाभ्यासः चासीत्। संस्कृतस्य नानाविधविभवान् अधिकृत्य प्रतिभागिनः सप्ताहाभ्यन्तरेण प्रबोधिताः।
 डा. सम्पदानन्द मिश्रः कक्ष्यां चालयति 
 एक लिटर् शिलातैलमुपयुज्य 200 किलोमीटर्  गन्तुं शक्यते 


जय् पूर्> एक लिटर् पेट्रोल उपयुज्य 200 किलोमीटर्  गम्यमानेन  कार् यानेन सह छात्राणां संघः। जय् पूर् स्वदेशिनः अतुल आरोरया सह त्रिंशत् प्रयत्नशालिनः एव कर् यानस्य निर्मातारः।  वेल्लूर्
 इन् स्टिट्यूट् आफ् टेक्नोलजी कालालयस्य छात्रैः 'रुद्रा' इति कारयानाय नामकरणं कृतम् । न केवलं पेट्रोलस्य व्ययः पुनः पारिस्थितिकमालिन्यानि च  न्यूनीकरोति इति  सविशेषता। इलक्ट्रोणिक् संविधानेन इन्धनोपयोगक्षमता वर्धयितुं शक्यते। अष्टमासाभ्यन्तरेण  निर्मितं  कार् यानस्य  षेल् इक्को मारतण् एष्या स्पर्धायाम्  औद्योगिकरूपेण भागभागित्वं भविष्यति ।

महाराष्ट्रायां पृष्ठोपविष्टानां 
द्विचक्रयानयात्रिकानामपि शिरस्त्राणम् अनिवार्यम्। 


मुंबई > महाराष्ट्राराज्ये द्विचक्रवाहनस्य पृष्ठोपविष्टानां यात्रिकाणामपि  शिरस्त्राणम् अनुपेक्षणीयम् इति गतागतविभागस्य आदेशः। २००० तमे वर्षे मुम्बई उच्चन्यायालयेन कृतं निर्देशमनुसृत्यैव अयमादेशः। किन्तु शिरस्त्राणव्यापारिणां साहाय्यार्थमेवायमादेश इति राज् ताक्करे महोदयस्य नव निर्माणसेनायाः अभिमतम्।

मुम्बई भीकराक्रमणं ऐ.एस्.ऐ. संस्थया आसूत्रितम् - हेड्लि।


नवदिल्ली > मुम्बई नगरे २००८ संवत्सरे संवृत्तं आतङ्कवादि आक्रमणं पाकिस्तानसैन्यस्य ऐ. एस् .ऐ इति  तस्य गुप्तसंघस्य च साहाय्येन कृतमासीदिति आक्रमणस्य मुख्यसूत्रधारः डेविड् कोल्मान् हेड्लि।प्रस्तुते भीकराक्रमणे दण्डितः तीव्रवादी अस्ति पाक्-अमेरिकन् वंशजः दावूद् गीलानी नामकः हेड्ली। 
द्विवारं विफलं भूत्वा तृतीयवारप्रयत्न एव मुम्बई भीकराक्रमणे सफलीकृत इति हेड्ली मुम्बय्यां सविशेषन्यायालये स्पष्टीकृतवान्। २००८ सेप्टम्बर् ओक्टोबर् मासयोः कृतं उद्योगद्वयमपि विफलं जातम्। पुनः नवंबरमासे तेनैव संघेन कृतं प्रयत्नं सफलीकृतम्।वीडियो कोन्फ्रसिंग् द्वारा स उक्तवान्।

ऐ.एस् भीत्यात् भारतं न मुक्तम् - यु.ए.इ ।

अबुदाबी > इस्लामिक् स्टेट् दलस्य भीषणीतः भारतमपि मुक्तो नभवेत् इति यु .ए .इ राष्ट्रस्य सूचना। 
ऐ.एस्. संघेन समं बन्धं स्थापिताः  द्वादश जनाः भारतं प्राप्ताः । भीकरविरुद्धप्रवर्तनाय भारतेन समं दृढप्रयत्नं कर्तुं शक्यते इति च यु .ए.इराष्ट्रेण उक्तः। 
ऐ .एस्  भीतितः कोपि न मुक्तः। 
यः कोपि सुरक्षितस्थाने अस्तीति चिन्तयति चेत् ते बहुक्लेशमनुभवितुम् अर्हाः। भारतमपि यु.ए. इ समानं भवेत् इति यु.ए.इ मन्त्री डा.अन् वर् मुहम्मद् गरगाषः अवदत्। षेयिख् मुहम्मद् बिन् सयिद् अल् निह्यानस्य त्रिदिवसीय - भारतसन्दर्शनवेलायामेव आसीत् इयं सूचना। अपि च भीकरविरुद्धप्रवर्तनार्थं नूतन तन्त्राणि  आविष्करोतीति देशीय माध्यमान् प्रति सः अवदत्।

Monday, February 8, 2016

शास्त्रमण्डलेषु नवीनाः आविष्काराः भवितव्याः- प्रधानमन्त्री।
भुवनेश्वरम् > शास्त्रमण्डलेषु नूतनाशयाः आविष्काराश्च भवितव्याः ; ते राष्ट्रप्रगत्यै अनिवार्याः इति भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्।भुवनेश्वरे देशीय शास्त्रपठनगवेषणकेन्द्रस्य उद्घाटनं निर्वहन् भाषमाणः असीत् मोदिवर्यः।
आधुनिकसमाजः नूतनाशयेषु तेषां साक्षात्कारेषु च तत्परो भवति। अतः छात्रेषु तात्पर्यजननम् अनुपेक्षणीयमस्ति।परिस्थितिसंरक्षणे पारम्पर्येतरोर्जविनिमये च छात्राः अध्या,पकाश्च उत्सुकाः भवेयुः।भारतस्य बहिराकाशकार्यक्रमाः आगोलश्रद्धां प्राप्तवन्तः इति प्रधानमन्त्री अब्रवीत्।
  ८० वर्षात्पूर्वं दिवङ्गताय वैज्ञानिकाय लक्षं रूप्यकाणां विद्युत् स्वीकृतिः !

राञ्चि> अशीति (८०) वर्षात्पूर्वं दिवंगतं भारतस्य प्रमुख शास्त्रज्ञाय जे.सि.बोस् वर्याय एव लक्षं रुप्यकाणां दण्डः। जार्खण्डस्य वैद्युत वितरण संस्थया एव एवं सूचना प्रेषिता। ३३ वर्षस्य वैद्युतेः शुल्कम् समर्पणीयमिति निर्दिष्टम्। १९७०-२००३ वर्षेषस्य शुल्कम् १,०१८१६ इति सूचनापत्रेण ज्ञापयति। १९३७ नवंबर् मासस्य २३ दिनाङ्के एषः महोदयः दिवंगतः।
गिरिधिक् जे.सि.बोस् डिस्ट्रिक्ट् सयन्स् सेन्टर् नाम संस्थायाः वैद्युतोपयोगस्य शुल्कम् एव तत् । जार्खण्डराज्यस्य उत्भवात्पूर्वं बीहार राज्यस्य कौण्सिल् फोर सयन्स् आन्ट टेक्नोलजी नाम संस्थया विद्युत्शुल्कम् पूरितम् आसीत्I
सस्यानां जीवः अस्ति इति अन्विष्य दर्शितः भवति अनेन वैज्ञानिकेन।

आदिशङ्करस्य कुलदेवतामन्दिरे अद्य उत्सवप्रारम्भः।

कोच्ची> अद्वैतवेदान्तसंस्थापकस्य जगद्गुरुश्रीशङ्कराचार्यस्य कुलदेवतामन्दिरमिति विख्याते कालटी श्रीकृष्णमन्दिरे अष्टदिनात्मकमहोत्सवस्य अद्य शुभारम्भः।
श्रीशङ्करस्य कालं यावत् स्मारयति सर्वस्य  साक्षिरूपम् इदं च मन्दिरम्।अत्र श्रीशङ्करेणैव कुलदेवताप्रतिष्ठा कृतेति ऐतिह्यः।
  अद्य सायं अष्टवादने "कोटियेट्" इति पताकाध्वजारोहणेन उत्सवः प्रारभ्यते।फेब्रुवरी १५तमदिनाङ्के ध्वजावरोहणेन समापनं भविष्यति।श्रीमन्नारायणीय-भागवतपारायणानि, आध्यात्मिकप्रभाषणं,सोपानसंगीतं, चाक्यार् कूत्त्, पञ्चारिमेलं, नृत्तकार्यक्रमाः,बाले इति नृत्तसंगीतनाटकम् इत्यादीनि उत्सवसमारोहे अन्तर्भूय आयोज्यन्ते।


संस्कृतभारत्याः कार्यकर्तृमेलनम्।

तृश्शूर्> संस्कृतभारत्याः केरलराज्यस्य मध्यसम्भागस्य कार्यकर्तृमेलनं तृश्शूर् नगरे तेक्केमठे लक्ष्मीमण्डपे फेब्रुवरी मासे त्रयोदश (१३) दिनाङ्के शनिवासरे प्रातः दशवादनतः त्रिवादनपर्यन्तम् भविष्यति । अखिलभारतीयसङ्घटनामन्त्री श्री दिनेश् कामत् महोदयः मार्गदर्शनं करिष्यति। संस्कृतस्य प्रचाराय नूतन प्रवर्तनानि आभारतं संकृतभारत्या कृतानि सन्ति। संस्कृतस्य कृते निस्वार्थतया क्रियमाणा सर्वकारेतर संस्था भवति संस्कृतभारती।

Sunday, February 7, 2016

शबरिगिरिः देवालये महिलानां प्रवेशरोधनम् अनुवर्तितव्यमिति सर्वकारः।

नवदिल्ली >केरले शबरिगिरिश्रीधर्मशास्तृमन्दिरे  महिलानां दर्शनविषये रोधनम् अनुवर्तितव्यमिति राज्यसर्वकारः सर्वोच्चन्यायालये सत्यवाङ्मूलं प्राददात्।
  प्रस्तुतमन्दिरे १० - ५० मध्ये वयस्कानां नारीणां प्रवेशनं दर्शनं च बहुकालैः निषिद्धमस्ति। धर्मानुष्ठानानि विश्वासान् च अनुवर्तितुं शासनसंविधानस्य २५ ,२६ अनुच्छेदाभ्यां निश्चितम्। तुल्यतानिर्णयप्रकारः १४तम अनुच्छेदः आचारनिषेधाय न पर्याप्तो भवति इति सर्वकारस्य सत्यवाङ्मूले विशदीक्रियते।

देशीयतले वेतनस्यैकीकरणं परिगणनायाम्।

नवदिल्ली > भारतसर्वकारेण देशीयतले सर्वकर्मणां न्यूनतमं वेतनं निश्चेत्तुं "न्यूनतमवेतनपरिष्करणनियमरेखा " सज्जीकृता। केन्द्रकर्ममन्त्रालयेण सज्जीकृतं देयकं केन्द्रमन्त्रिसभायाः परिगणनार्थं विलम्बं विना समर्पयिष्यते।
एतदनुसृत्य राज्यानि संघत्रयं कृत्वा न्यूनतमवेतनं निश्चिनोति।केरलेन सह बीहारः प.बंगाल् कर्णाटका असम् ओडीषा इत्यादीनि राज्याणि संघे अन्तर्भवन्ति। अतः राज्यान्तरकर्मकराणां प्रवाहः स्थगितुं साध्यता अस्ति।

गुजराते बस् यानं नदीं पतित्वा ३७ मरणानि। 

अहम्मदाबाद् > गुजरात् राज्ये नवसारीजनपदे सुपाग्रामस्य समीपे राज्यसर्वकारस्य बस्  यानं पूर्णानद्यां निपत्य ३७ जनाः मृत्युमुपगताः।

Saturday, February 6, 2016

अन्ताराष्ट्रमहानौकाव्यूहप्रदर्शनम् आरब्धम्।
विशाखपट्ट्णं - धैर्यः आर्जवश्च सागरैः सम्मिलति इति उद्घोषणेन लोकराष्ट्रेभ्यः महानौकाः वंगसमुद्रं प्राप्ताः। नाविकसेनायाः शक्तिम् आत्मविश्वासं च प्रदर्शयित्वा भारतम् आतिथ्यं वहति।भारतस्य राष्ट्रपतिः अद्य सन्दर्शनं करोति।
भारत-पाक् राष्ट्रयोः चर्चा आवश्यकी - नवास् षेरीफ् भारतं विरुध्य हाफिस् सय्यद्।
इस्लामबाद्> भारतपाकिस्थानदेशयोः मिथः चर्चा आवश्यकी इति पाकिस्थानस्य प्रथानमन्त्री नवास् षरीफः। भारतविरुद्धतया पथसञ्चलनं करोति हाफिस् सय्यिद् नाम भीकरः। जम अत्तुत्त अव नाम भीकरदलस्य नेता मुंबै भीकराक्रमणस्य सूत्रधारः च एषःI काश्मीरदिनाचरणमनुबन्ध्य इस्लामबादे  अनेन 'राली' आयोजित वान्।
भीकरतया अधिकतया पीडितं राष्ट्रं भवति पाकिस्थानः। अतः भीकरान् मार्जयितुं पाकिस्थानस्य औत्सुक्यमस्ति इति षेरिफः अवदत् ।
सिरिया राष्ट्रस्य समाधानचर्चा समापितः
जनीवा> विमतानाम् अधीने वर्तमानं अलपो नगरं सिरियायाः सैन्येन परिबन्धितम् । अतः जनीवायाम् ऐक्यराष्ट्रसंस्थया आयोजिता समाघानचर्चा समापितः। तुर्कीतः आरभ्य अलपोनगर पर्यन्तं वाणिज्यमार्गे विध्नं कृत्वा रष्यायाः व्योमाक्रमणबलेन च युद्धं क्रियते। वारत्रयपर्यन्तं चर्चा नस्तीति यु.एन् प्रतिनिधिना विज्ञापितः। केवलं विमतकेन्द्रेषु एव आक्रमणं क्रियते इति रष्यायाः विदेशकार्यमन्त्री सेर्जी लवरोव् अवदत्। अलपो नगराणं मध्ये स्थितस्य उपरोधस्य समापनाय यु .एस् स्टेट् सेक्रटरि जोण् केरिना उक्तः। तुर्कीसीमातः पञ्चाशत् किलोमीटर् दूरे स्थितः अलपोनगरस्य अर्धभागं विमतानाम् अधीनम् अभवत्।
कोटिरुप्यकाणां राज्यन्तरसाहायं समाहर्तुं बृहतीं  पद्धतीं लोकराष्ट्राणां कृते  रूपीकृतः। पञ्चवर्षाणि यावत् युद्धेषु सार्धद्वयाधिकलक्षं जनाः मृताः, षष्ट्यधिकलक्षं जनाः पलायिताः, चत्वारिंशतधिकलक्षं जनाः अभयार्थिनः च भवेयुः। आभ्यन्तरचर्चां विना सिरियामध्ये समस्यायाः परिहारः नास्तीति यु.एन् सेक्रटरि जनरल् बान् की मूण्  अवदत्। ब्रिटण्, नोर्वे, जर्मनी आदिराष्ट्राणं दीर्घकालसमाश्वासाय ७.७३ बिल्यण् डोलर  यु .एन् .एजनसीना  समाहृतः।

Thursday, February 4, 2016

संस्कृतं लोकजेत्री भाषा - केरलराज्यपालः।

कोच्ची > क्रमबद्धायाः पाठ्यपद्धत्याः सुस्थितानां व्याकरणनियमानां च शक्त्या भुवने अपराजिता भाषा भवति संस्कृतमिति केरलानां राज्यपालः न्याय.पि सदाशिवम् अवदत्।
एरणाकुलं जनपदे तृप्पूणित्तुरा सर्वकारीय संस्कृतकलालयस्य उच्चतरविद्यालयस्य उच्चविद्यालयस्य च शताब्द्याघोषाणां समापनसम्मेलनम् उद्घाटनं कुर्वन्नासीत् राज्यपालः। संस्कृतकलालये न्यायसाहित्यव्याकरणज्योतिषाः विषयाः बिरुद-बिरुदानन्तरतले पठितुमवकाशः अस्तीति भाषायाः जागर्तेः कृते प्रयत्नः आवश्यकः इति स उक्तवान्।
  सम्मेलने मन्त्री के बाबुः अद्ध्यक्षपदमलंकृतवान्। प्रशस्ता नर्तकी डो. पद्मा सुब्रह्मण्यं विशिष्टातिथिः आसीत्।

विमानस्य यात्रावेलायां विस्फोटः, 
बहिर्पतितः यात्रिकः मृतः।

 मोगादिषु(सोमालिया) > यात्रामध्ये विमानविस्फोटनेन बहिरुद्पतितः यात्रिकः भूमौ पतित्वा मृतः। सोमालियायाः राजनगर्यः मोगादिषु राज्ये सुरक्षामार्गेण विमानं प्रतिनिवृत्तम्। एयर् बस् ए 321 विमानयात्रिकाः सर्वे सुरक्षास्थानेऽस्तीति अधिकरिदलेन विज्ञापितम्। पतितस्य यात्रिकस्य मृतशरीरं मोगदिषु राज्यातः त्रिंशत् किलोमीटर् दूरे दृष्टम्।विमानान्तर्भागस्य विस्फोटनकारणं कथमभवत् इति वक्तुं न शक्यते। ७४ यात्रिकैः सह मोगादिषु राज्यात् गतः विमानस्य भागे स्फोटनमभवत्। विमानस्य प्रतिनिवृतानन्तरमेव यात्रिकस्य असान्निध्यम् ज्ञातम्।
वनिता कर्मकराणां कलहेन विमानस्य  मार्गे भ्रंशः।

षिक्कागो >  वनिता कर्मकराणां मिथः जायमानेन कलहेन मार्गमध्ये विमानस्य गतिः अलक्षीकृता। अमेरिक्कायाः लोस् ऐञ्चल्सतः मिनिपोलीसं प्रति गच्छतासीत् विमानम्। डल्टा एयर् लैन्स् विमाने एव ताडनक्रिया अभवत्। उड्डयित्वा ४० मिनट्ट अनन्तरमेव संभवः।

पठान्कोट्ट् आवर्तिष्यते इति भीषणवचांसि।

मुसाफराबाद् > पठान्कोट्ट्  भीकराक्रमणं प्रशंस्य समानाक्रमणाय आह्वानं कृत्वा च मुम्बई भीकराक्रमणस्य सूत्रधारः हाफिस् सयीदः  आविर्भूतः।पाकधीनकाश्मीरे कस्मिंश्चित् पथसंचलने भाषमाण आसीत् जमाअत् उद्दवस्य नेता सयीदः।
काश्मीरस्य स्वातन्त्र्यं यावत् भारतं प्रति युद्धमनुवर्तिष्यते इति पथसञ्चारिणैः उद्घोषितम्।

केरलनियमसभासम्मेलनम् अद्य आरभते।

अनन्तपुरी - केरलनियमसभायाः अन्तिम सम्मेलनं अद्य राज्यपालस्य न्याय. पि सदाशिवस्य नयप्रख्यापनप्रभाषणेन आरभते। परन्तु आरोपणविधेयानां मन्त्रिणां त्यापत्राणि लक्षीकृत्य सम्मेलनं प्रक्षुब्धं स्यात्। विपक्षिदलैः नयप्रख्यापनं बहिष्कर्तुं निर्णयः अपि कृतः।

Wednesday, February 3, 2016

सिका वैरस् विरुध्य भारतवैज्ञानिकैः औषधम् अन्विष्य दर्शितम्।

सिका वैरस् विरुध्य भारतवैज्ञानिकै औषधं दर्शितम्।
हैद्राबाद् > लोकेषु भीतिं जनयित्वा जातं सिका नाम  वैरस् विरुध्य नूतनं औषधं दृष्टवन्तः भारतीयया: वैज्ञानिकाःI हैद्राबाद् नगरस्य भारत् बयोटेक् इन्टर् नाषणल्  संस्थायाः वैज्ञानिकाः एव अस्य औषधदर्शनस्य कृते प्रयत्नं कृतवन्तः।'सिका- विरुद्ध- औषधस्य उपज्ञातृषु संस्थासु प्रथमा संस्था अस्माकम् ' इति अध्यक्षः डा. कृष्‍णः अवदत्। सिकां विरुध्य वाक्सिन् द्वयं विकसितम्। इदानीं औषधनिर्माणाय अधिकारपत्र- प्राप्तिमुद्दिशय ICMR संस्थायाः पुरतः आवेदनं दत्तमस्ति।

औषधस्य शास्त्रीय- निरीक्षण - परीक्षणानि कृत्वा एव अधिकारपत्रदानं भविष्यति इति ICMR संस्थायाः अध्यक्षा डा. सौम्या स्वामिनाथः अवदच्च।

सिका गर्भावस्थासु शिशूनां मस्तिष्कस्य आक्रमणं करोति। मस्तिष्कस्य आकारं न्यूनी करोति। अनेन २५०० शिशवः इदानीं ब्रसील् राष्ट्रे पीडिताः सन्ति। जवेन सङ्क्रममाणा इयं सिका इत्यनेन लोकस्वास्थ्य-संस्थया लोकेषु विशेषश्रद्धा उद्‌घोषिता ।

अरब्-आफ्रिक्का राज्ययोः यात्रा सुकरी भविष्यति।

दुबाय् > गतागतरंगेषु नूतनपद्धतिम् आविष्कृत्य अरब्-आफ्रिक्का राज्ययोः यात्रा सुकरीकृता। जे.सि.सी  रयिल-पद्धतेः परं 35,200 कोटिः डोलर् उपयुज्य  षोडश सुप्रधानरयिलमार्गस्य दीर्धीकरणं भाविनि काले कर्तुं शक्यते। 
सुकरयात्रा, कर्मप्राप्तिः, यन्त्रभागानां निर्माणं, नूतन साड़्केतिकविद्या इत्यादि विषयान् अधिकृत्य 'दुबाय् राज्यान्तर कण्वेन्षन् सेन्टर्' मध्ये मार्च मासस्य अष्टम-नवम दिनाङ्कयोः 'मिडिल़् ईस्ट् रयिल् मेलायां' चर्चां करिष्यति। भारतीयानां च सान्निध्येन सह त्रिशताधिकाः प्रदर्शकाः सन्निहिताः भविष्यन्ति। 
यु. ए. इ उपप्रधानमन्त्रिणः तथा प्रसिडन्ष्यल् कार्यमन्त्रिणः षेय्ख मनसूर् बिन सायाद् अल् निह्यानस्य नेतृत्वे एव मेला प्रचलिष्यति। यु. ए.इ, कुवैत्, सौदि- अरेब्या; ओमान् इत्यादिराज्याणाम् कार्षिक-वाणिज्य- शैक्षिकमण्डलेषु च नूतनपद्धत्याः साहाय्यं लभ्यते। कुवैत् समुद्रतीरतः आरभ्य  सौदी - यु.ए.इ मर्गेण ओमान् प्राप्य ततः इतरप्रदेशेषु च गच्छति  जि.सि.सि.रयिलः। रयिल् निर्माणमेखलायां बहूनि अवसराः च लभ्यन्ते। जि.सि.सि पद्धत्यर्थं गल्फराज्यम् १०,००० कोटि-डोलर् अधिकं धनं व्ययं करिष्यतीति वार्ता।  विविधाभ्यः खनीभ्यः फोस्फेट्, बोक्सैट् च रस् अल् खैर् नाम सागरमुखम् आनयति चेत् व्यावसायिकमण्डलेषु  महत्तमं स्थानं प्राप्तुं शक्यते।

Tuesday, February 2, 2016

आयुर्वेदशास्त्रस्य  शक्तिः कियती अस्तीति चिन्तनीयं भवेत्' - प्रधानमन्त्री।

कोष़िक्कोट् (केरळम् )> 'आयुर्वेदशास्त्रस्य  शक्तिः कियत् अस्तीति चिन्तनीयं भवेत्'  इति प्रधानमन्त्री नरेन्द्रमोदिवर्यः। आयुर्वेदः जीवशास्त्रं भवति। ह्यस्तनानां नानाविधानाम् आरोग्यसमस्यानां परिहारः आयुर्वेदे अस्तीति मोदिवर्यः अवदत्।  कोष़िक्कोट्देशे स्वप्ननगर्यां आगोल -आयुर्वेद सम्मेलने विषन् कोण्केव् इति पद्धत्याः उद्घाटनं कृत्वा भाषमाणः आसीत् प्रधानमन्त्री।
आयुर्वेदशास्रं सर्म्पूणतया प्रयोगं कर्तुं वयम् श्रद्धालवः न भवेम।  भारतसर्वकारेण आयुर्वेदस्य अपि च पारम्बर्यचिकित्सा सम्प्रदायस्य च प्रधान्यं तथैव प्रचारं यथायोग्यं करिष्ये। भारतेषु  योगाशास्त्राय आयुर्वेदशास्त्राय च महत्वपूर्णं स्थानमस्ति।  इदानीं आधुनिकी चिकित्साविधीनां कृते अधिकं धनं आवश्यकं औषधानां तु पार्श्वफलं च अनेन कारणेन पारम्पर्य चिकित्सा सम्प्रदायेषु  विदग्धाः बद्धश्रद्धाः अभवन्। अन्येषां राष्ट्राणां अवस्थां संज्ञात्वा भारते आयुर्वेदशास्त्राय महत् प्रधान्यं दद्मः।
आयुर्वेदशास्त्रस्य प्रसूति गृहम् (हब्) इव केरलराज्यः वर्तते इति मोदिवर्यः अवदत्। यथा वयम् आत्मानं पश्यामः तथा अन्येषां जीविनां च मनसि निधाय पालनीयः इति अष्टाड़्गहृदयस्य वाक्यम् उक्त्वा एव प्रधानमन्त्री नरेन्द्रमोदिवर्यः तस्य भाषणं समापितवान् ।