OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, February 10, 2016

जर्मनी राष्ट्रे रयिल् यानयोः अपघातः बहवः मृताः 


train-accident
बर्लिन्> जर्नीयोः  राष्ट्रे बवेरियायां रयिल् यानयोः दुर्घट्टने बहवः मृताः शताधिकाः व्रणिताः म्युनिक् देशेएव अपघातः जातः होर्किच्चन् देशतः होसन् हयिं प्रति  गच्छदासीत् यानमेव आपदि पतितम्। घट्टनस्य उग्र शक्त्या यानं तिर्यक्कृत्य पट्टिकातः पतितम् इति दृक्साक्षिणः वदन्ति दुर्घटनायां कति मृताः इति वक्तुं न शक्यते इति आरक्षकाः वदन्ति। मृतानां संख्या इतोऽपि  अधिकाः भवेत्। व्रणितानां अवस्था गुरुतरा वर्तते रक्षाप्रवर्तनानि अधुनापि प्रचलन्ति। यानान्तर्भागे यात्रिकाः बन्धिताः सन्ति।
छात्राः न आगच्छन्ति चेत् विद्यालयः छात्रान् अन्विष्य गमिष्यति।
 जयपूर > छात्रान् अन्विष्य विद्यालयः सञ्जरन्ति! ग्रामीणछात्राणां पठनार्थं जय्पूर् नगरस्य टाबर सोसैटी संस्थया अविष्कृता नूतना पद्धतिरियम्।
" स्कूल् ओपण् वील् " इति नाम्ना विद्यालयः ग्रन्थशाला च संभूय भवति एतत्। "सञ्जारविद्यालयस्य " प्रवर्तनोद्धाटनं मुख्यमन्त्रिणा वसुन्धरा राजा महाभागया कृतम्। प्रथमतया जय्पूर् जनपदे एव विद्यालयस्य प्रवर्तनम्। लूणिया वास् , गोणार् मण्डलाणां ग्रामीणानां तथा गार्डिया लोहार , गुमान्डु विभागानां मध्ये च प्रवर्तनाय उद्दिश्यते। सर्वकारीयशैक्षिक रङ्गे विविधेषु राज्येषु  पृष्ठतः अस्ति राजस्थानदेशः।
संस्कृतसंभाषण शिबिरम्।
केरळम् - तृश्शूर्>  तृश्शुर् नगरे पुनः दशदिनसम्भाषणशिबिरम् भविष्यति ।  चिन्मयमिषन्  भुवनेश्वरी मन्दिरे प्रातः १० वादनतः १२ वादन पर्यन्तम् । फेब्रुवरी १७ दिनाङ्के आरम्भ:।
पाकिस्तान् संसदि हिन्दुविवाहनियमः अङ्गीकृतः।
इस्लामबाद् > हिन्दु विवाहनियमस्य प्राथमिकदेयकं पाकिस्तानी संसद्समित्या ऐककण्ठ्येन अङ्गीकृतम्।अचिरादेव नियमो भविष्यति। एतदनुसृत्य विवाहवयः १८ भवति।पञ्च हैन्दवान् सभाङ्गान् अामन्त्र्य पर्यालोचनानन्तरमेव देयकं संसिद्धम्।
आगोलभीकरसंस्थानां नियन्त्रणं ऐ.एस्.ऐ द्वारा।

नवदिल्ली > आगोलतले जिहादीप्रवर्तनानां नियन्त्रणं ऐ एस् ऐ नामकेन पाक् चारसंघेन क्रियते इति न्यूयोर्क् टैम्स् दिनपत्रिकया निवेद्यते।इस्लामिक् स्टेट् संधटनायाः प्रारम्भ अपि अनेन संघेन कृतमिति पत्रिकायां प्रसिद्धीकृते लेखने प्रस्तूयते।अन्ताराष्ट्रमुजाहिदीन् प्रवर्तकेषु भूरिभागः सुन्नितीव्रवादिनः। ऐ.एस्.ऐ इत्यस्य साहाय्यं एतेभ्यः लभ्यते इत्यत्र प्रमाणमस्तीति लेखने उच्यते।
लोके अन्विष्टाः सर्वे भीकराः पाकिस्ताने सुरक्षिताः भवन्ति। हखानी श्रृङ्खलायाः नेता सिराजुदीन् हखानी तत्र स्वतन्त्रः।तालिबान्,अल् ख्वीयदा इत्यादयः ऐ एस् ऐ इत्यस्मात् साह्यं स्वीकुर्वन्ति।
  न्यूयोर्क् टैम्स् पत्रिकायाः उत्तराफ्रिक्कन् लेखिका कार्लोट्टा गाल् एव लेखनं सज्जीकृतवती।