OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, February 2, 2016

आयुर्वेदशास्त्रस्य  शक्तिः कियती अस्तीति चिन्तनीयं भवेत्' - प्रधानमन्त्री।

कोष़िक्कोट् (केरळम् )> 'आयुर्वेदशास्त्रस्य  शक्तिः कियत् अस्तीति चिन्तनीयं भवेत्'  इति प्रधानमन्त्री नरेन्द्रमोदिवर्यः। आयुर्वेदः जीवशास्त्रं भवति। ह्यस्तनानां नानाविधानाम् आरोग्यसमस्यानां परिहारः आयुर्वेदे अस्तीति मोदिवर्यः अवदत्।  कोष़िक्कोट्देशे स्वप्ननगर्यां आगोल -आयुर्वेद सम्मेलने विषन् कोण्केव् इति पद्धत्याः उद्घाटनं कृत्वा भाषमाणः आसीत् प्रधानमन्त्री।
आयुर्वेदशास्रं सर्म्पूणतया प्रयोगं कर्तुं वयम् श्रद्धालवः न भवेम।  भारतसर्वकारेण आयुर्वेदस्य अपि च पारम्बर्यचिकित्सा सम्प्रदायस्य च प्रधान्यं तथैव प्रचारं यथायोग्यं करिष्ये। भारतेषु  योगाशास्त्राय आयुर्वेदशास्त्राय च महत्वपूर्णं स्थानमस्ति।  इदानीं आधुनिकी चिकित्साविधीनां कृते अधिकं धनं आवश्यकं औषधानां तु पार्श्वफलं च अनेन कारणेन पारम्पर्य चिकित्सा सम्प्रदायेषु  विदग्धाः बद्धश्रद्धाः अभवन्। अन्येषां राष्ट्राणां अवस्थां संज्ञात्वा भारते आयुर्वेदशास्त्राय महत् प्रधान्यं दद्मः।
आयुर्वेदशास्त्रस्य प्रसूति गृहम् (हब्) इव केरलराज्यः वर्तते इति मोदिवर्यः अवदत्। यथा वयम् आत्मानं पश्यामः तथा अन्येषां जीविनां च मनसि निधाय पालनीयः इति अष्टाड़्गहृदयस्य वाक्यम् उक्त्वा एव प्रधानमन्त्री नरेन्द्रमोदिवर्यः तस्य भाषणं समापितवान् ।