OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, February 7, 2016

शबरिगिरिः देवालये महिलानां प्रवेशरोधनम् अनुवर्तितव्यमिति सर्वकारः।

नवदिल्ली >केरले शबरिगिरिश्रीधर्मशास्तृमन्दिरे  महिलानां दर्शनविषये रोधनम् अनुवर्तितव्यमिति राज्यसर्वकारः सर्वोच्चन्यायालये सत्यवाङ्मूलं प्राददात्।
  प्रस्तुतमन्दिरे १० - ५० मध्ये वयस्कानां नारीणां प्रवेशनं दर्शनं च बहुकालैः निषिद्धमस्ति। धर्मानुष्ठानानि विश्वासान् च अनुवर्तितुं शासनसंविधानस्य २५ ,२६ अनुच्छेदाभ्यां निश्चितम्। तुल्यतानिर्णयप्रकारः १४तम अनुच्छेदः आचारनिषेधाय न पर्याप्तो भवति इति सर्वकारस्य सत्यवाङ्मूले विशदीक्रियते।

देशीयतले वेतनस्यैकीकरणं परिगणनायाम्।

नवदिल्ली > भारतसर्वकारेण देशीयतले सर्वकर्मणां न्यूनतमं वेतनं निश्चेत्तुं "न्यूनतमवेतनपरिष्करणनियमरेखा " सज्जीकृता। केन्द्रकर्ममन्त्रालयेण सज्जीकृतं देयकं केन्द्रमन्त्रिसभायाः परिगणनार्थं विलम्बं विना समर्पयिष्यते।
एतदनुसृत्य राज्यानि संघत्रयं कृत्वा न्यूनतमवेतनं निश्चिनोति।केरलेन सह बीहारः प.बंगाल् कर्णाटका असम् ओडीषा इत्यादीनि राज्याणि संघे अन्तर्भवन्ति। अतः राज्यान्तरकर्मकराणां प्रवाहः स्थगितुं साध्यता अस्ति।

गुजराते बस् यानं नदीं पतित्वा ३७ मरणानि। 

अहम्मदाबाद् > गुजरात् राज्ये नवसारीजनपदे सुपाग्रामस्य समीपे राज्यसर्वकारस्य बस्  यानं पूर्णानद्यां निपत्य ३७ जनाः मृत्युमुपगताः।