OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, February 9, 2016

संस्कृतसत्रं सम्पन्नम्।

पुदुच्‍चेरी> पुदुच्चेरीस्थेन श्री - अरविन्द - भारतीयसंस्कृति - संस्थानेन आयोजितः सप्तदिनात्मकः 'स्पन्दन' झ्याख्यः संस्कृतशिक्षणवर्गः सुचारुतया सम्पन्न:। असिन् शिक्षण वर्गे देश विदेशेभ्यः उपपञ्चाशत् प्रतिभागिनः संस्कृत शिक्षणार्थम् आगतवन्तः आसन्। संस्थानस्य निदेशकः डॉ. सम्पदानन्द मिश्रः वर्ग सञ्चालनमकरोत्। वर्गे अस्मिन् मन्त्रोच्चारणशिक्षणं,  संभाषणकौशलं, संस्कृते कथानिर्माण कौशलं, बालगीतनिर्माणकौशलं, व्याकरणज्ञानं, छन्दसां परिचयः इत्यादयः अनेके विषयाः योजिताः आसन्। अन्तर्जालस्य उपयोगेन संस्कृताध्ययनं इति विषयमपि सत्रे चर्चिताः।  प्रतिभागिनां संभाषणदक्षतावर्धनाय प्रतिदिनं होरात्रयं सम्भाषणाभ्यासः चासीत्। संस्कृतस्य नानाविधविभवान् अधिकृत्य प्रतिभागिनः सप्ताहाभ्यन्तरेण प्रबोधिताः।
 डा. सम्पदानन्द मिश्रः कक्ष्यां चालयति 
 एक लिटर् शिलातैलमुपयुज्य 200 किलोमीटर्  गन्तुं शक्यते 


जय् पूर्> एक लिटर् पेट्रोल उपयुज्य 200 किलोमीटर्  गम्यमानेन  कार् यानेन सह छात्राणां संघः। जय् पूर् स्वदेशिनः अतुल आरोरया सह त्रिंशत् प्रयत्नशालिनः एव कर् यानस्य निर्मातारः।  वेल्लूर्
 इन् स्टिट्यूट् आफ् टेक्नोलजी कालालयस्य छात्रैः 'रुद्रा' इति कारयानाय नामकरणं कृतम् । न केवलं पेट्रोलस्य व्ययः पुनः पारिस्थितिकमालिन्यानि च  न्यूनीकरोति इति  सविशेषता। इलक्ट्रोणिक् संविधानेन इन्धनोपयोगक्षमता वर्धयितुं शक्यते। अष्टमासाभ्यन्तरेण  निर्मितं  कार् यानस्य  षेल् इक्को मारतण् एष्या स्पर्धायाम्  औद्योगिकरूपेण भागभागित्वं भविष्यति ।

महाराष्ट्रायां पृष्ठोपविष्टानां 
द्विचक्रयानयात्रिकानामपि शिरस्त्राणम् अनिवार्यम्। 


मुंबई > महाराष्ट्राराज्ये द्विचक्रवाहनस्य पृष्ठोपविष्टानां यात्रिकाणामपि  शिरस्त्राणम् अनुपेक्षणीयम् इति गतागतविभागस्य आदेशः। २००० तमे वर्षे मुम्बई उच्चन्यायालयेन कृतं निर्देशमनुसृत्यैव अयमादेशः। किन्तु शिरस्त्राणव्यापारिणां साहाय्यार्थमेवायमादेश इति राज् ताक्करे महोदयस्य नव निर्माणसेनायाः अभिमतम्।

मुम्बई भीकराक्रमणं ऐ.एस्.ऐ. संस्थया आसूत्रितम् - हेड्लि।


नवदिल्ली > मुम्बई नगरे २००८ संवत्सरे संवृत्तं आतङ्कवादि आक्रमणं पाकिस्तानसैन्यस्य ऐ. एस् .ऐ इति  तस्य गुप्तसंघस्य च साहाय्येन कृतमासीदिति आक्रमणस्य मुख्यसूत्रधारः डेविड् कोल्मान् हेड्लि।प्रस्तुते भीकराक्रमणे दण्डितः तीव्रवादी अस्ति पाक्-अमेरिकन् वंशजः दावूद् गीलानी नामकः हेड्ली। 
द्विवारं विफलं भूत्वा तृतीयवारप्रयत्न एव मुम्बई भीकराक्रमणे सफलीकृत इति हेड्ली मुम्बय्यां सविशेषन्यायालये स्पष्टीकृतवान्। २००८ सेप्टम्बर् ओक्टोबर् मासयोः कृतं उद्योगद्वयमपि विफलं जातम्। पुनः नवंबरमासे तेनैव संघेन कृतं प्रयत्नं सफलीकृतम्।वीडियो कोन्फ्रसिंग् द्वारा स उक्तवान्।

ऐ.एस् भीत्यात् भारतं न मुक्तम् - यु.ए.इ ।

अबुदाबी > इस्लामिक् स्टेट् दलस्य भीषणीतः भारतमपि मुक्तो नभवेत् इति यु .ए .इ राष्ट्रस्य सूचना। 
ऐ.एस्. संघेन समं बन्धं स्थापिताः  द्वादश जनाः भारतं प्राप्ताः । भीकरविरुद्धप्रवर्तनाय भारतेन समं दृढप्रयत्नं कर्तुं शक्यते इति च यु .ए.इराष्ट्रेण उक्तः। 
ऐ .एस्  भीतितः कोपि न मुक्तः। 
यः कोपि सुरक्षितस्थाने अस्तीति चिन्तयति चेत् ते बहुक्लेशमनुभवितुम् अर्हाः। भारतमपि यु.ए. इ समानं भवेत् इति यु.ए.इ मन्त्री डा.अन् वर् मुहम्मद् गरगाषः अवदत्। षेयिख् मुहम्मद् बिन् सयिद् अल् निह्यानस्य त्रिदिवसीय - भारतसन्दर्शनवेलायामेव आसीत् इयं सूचना। अपि च भीकरविरुद्धप्रवर्तनार्थं नूतन तन्त्राणि  आविष्करोतीति देशीय माध्यमान् प्रति सः अवदत्।