OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, February 6, 2016

अन्ताराष्ट्रमहानौकाव्यूहप्रदर्शनम् आरब्धम्।
विशाखपट्ट्णं - धैर्यः आर्जवश्च सागरैः सम्मिलति इति उद्घोषणेन लोकराष्ट्रेभ्यः महानौकाः वंगसमुद्रं प्राप्ताः। नाविकसेनायाः शक्तिम् आत्मविश्वासं च प्रदर्शयित्वा भारतम् आतिथ्यं वहति।भारतस्य राष्ट्रपतिः अद्य सन्दर्शनं करोति।
भारत-पाक् राष्ट्रयोः चर्चा आवश्यकी - नवास् षेरीफ् भारतं विरुध्य हाफिस् सय्यद्।
इस्लामबाद्> भारतपाकिस्थानदेशयोः मिथः चर्चा आवश्यकी इति पाकिस्थानस्य प्रथानमन्त्री नवास् षरीफः। भारतविरुद्धतया पथसञ्चलनं करोति हाफिस् सय्यिद् नाम भीकरः। जम अत्तुत्त अव नाम भीकरदलस्य नेता मुंबै भीकराक्रमणस्य सूत्रधारः च एषःI काश्मीरदिनाचरणमनुबन्ध्य इस्लामबादे  अनेन 'राली' आयोजित वान्।
भीकरतया अधिकतया पीडितं राष्ट्रं भवति पाकिस्थानः। अतः भीकरान् मार्जयितुं पाकिस्थानस्य औत्सुक्यमस्ति इति षेरिफः अवदत् ।
सिरिया राष्ट्रस्य समाधानचर्चा समापितः
जनीवा> विमतानाम् अधीने वर्तमानं अलपो नगरं सिरियायाः सैन्येन परिबन्धितम् । अतः जनीवायाम् ऐक्यराष्ट्रसंस्थया आयोजिता समाघानचर्चा समापितः। तुर्कीतः आरभ्य अलपोनगर पर्यन्तं वाणिज्यमार्गे विध्नं कृत्वा रष्यायाः व्योमाक्रमणबलेन च युद्धं क्रियते। वारत्रयपर्यन्तं चर्चा नस्तीति यु.एन् प्रतिनिधिना विज्ञापितः। केवलं विमतकेन्द्रेषु एव आक्रमणं क्रियते इति रष्यायाः विदेशकार्यमन्त्री सेर्जी लवरोव् अवदत्। अलपो नगराणं मध्ये स्थितस्य उपरोधस्य समापनाय यु .एस् स्टेट् सेक्रटरि जोण् केरिना उक्तः। तुर्कीसीमातः पञ्चाशत् किलोमीटर् दूरे स्थितः अलपोनगरस्य अर्धभागं विमतानाम् अधीनम् अभवत्।
कोटिरुप्यकाणां राज्यन्तरसाहायं समाहर्तुं बृहतीं  पद्धतीं लोकराष्ट्राणां कृते  रूपीकृतः। पञ्चवर्षाणि यावत् युद्धेषु सार्धद्वयाधिकलक्षं जनाः मृताः, षष्ट्यधिकलक्षं जनाः पलायिताः, चत्वारिंशतधिकलक्षं जनाः अभयार्थिनः च भवेयुः। आभ्यन्तरचर्चां विना सिरियामध्ये समस्यायाः परिहारः नास्तीति यु.एन् सेक्रटरि जनरल् बान् की मूण्  अवदत्। ब्रिटण्, नोर्वे, जर्मनी आदिराष्ट्राणं दीर्घकालसमाश्वासाय ७.७३ बिल्यण् डोलर  यु .एन् .एजनसीना  समाहृतः।