द्वि-दिवसीयसंस्कृतशिक्षणवर्गः
सम्पन्नः-प्रतिभागिनः प्रौढाः
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Friday, April 22, 2016
उत्तराखण्डे राष्ट्रपतिशासनं उच्चन्यायालयेन निराकृतम्।
नैनिटाल्> उत्तराखण्डराज्ये राष्ट्रपतिशासनम् आदिष्टं केन्द्रसर्वकारस्य क्रियाविधिः उत्तराखण्डोच्चन्यायालयेन निराकृतम्। हरीष् रावत् वर्यस्य नेतृत्वे विद्यमानः सर्वकारः अधिकारपदप्राप्तिम् अर्हतीति न्यायालयेन आदिष्टम्।
एप्रिल् २९ तमे दिनाङ्के विश्वासप्रमाणं प्राप्तव्यमिति मुख्यन्याया. के एम् जोसफः न्याया. वि के बिष्टः इत्येतयोः नीतिपीठः निरदिशत्।
Thursday, April 21, 2016
संस्कृतवार्तावतरणपरिशीलने शिल्पशाला आरब्धा।
कोच्ची > छात्रेषु नूतनं दिशाबोधं जनयन् संस्कृतभाषायां वार्तावतरणे त्रिदिनात्मकशिल्पशाला चेङ्ङमनाट् सरस्वतीविद्यानिकेतन् विद्यालये समारब्धा। सम्प्रतिवार्तायाः सर्वशिक्षा अभियानस्य च संयुक्ताभिमुख्ये प्रचाल्यमानाम् इयं शिल्पशाला अाकाशवाण्याः कोच्ची निलयस्य निदेशकेन डो. बालकृष्णन् कोय्याल् वर्येण उद्घाटिता। संस्कृतभाषापठनद्वारा भारतसंस्कृतेः स्वांशीकरणं कार्यमिति बालकृष्णन् वर्येण उक्तम्।

![]() |
ssa logo sanskrit |
संप्रतिवार्तायाः मुख्यसंपादकः अय्यम्पुष़ा हरिकुमारः पत्रिकामधिकृत्य विशदीकृतवान्। एस् एस् ए जिल्ला कार्यक्रमाधिकारी एस् सन्तोष्कुमारः स्वागतं, पत्रिकायाः निदेशकसमित्यंगः एस् रविकुमारः कृतज्ञतां च व्याजहार।
उज्जयिन्यां सिहंस्थ-पूर्ण-कुम्भ-मेला आकाशवाण्याःप्रसारणम् अद्य।
नवदिल्ली >साम्प्रतं महाकाल-नगर्याम् उज्जयिन्यां सिहंस्थ-पूर्ण-कुम्भ-मेला प्रवर्तते। जगति भारतीय-धार्मिक-आध्यात्मिक-परम् परासु
च ऐतिहासिक-पर्वेदं सर्वेषामपि कृते शुभदं सुखदं च स्यादिति भावनया
प्रवर्तमानायाः अस्याः मेलायाः सुबहु महत्वं वर्तते इति जानन्ति विद्वान्सः
वार्ताहराः साधकाः निष्ठावन्तोsत्रभवन्तो भवन्तश्च। परश्वः अर्थात्
२०७३-विक्रम-संवत्सरस्य चैत्र-वैशाख-मासयोः पूर्णिमायां [२२-०४-२०१६]
प्रथमं शाहिस्नान-पर्व भविता।
एनमवसरम्
अभिलक्ष्य आकाशवाण्याः विदेश-प्रसारण-विभागेन {Indian Overseas Services
of All India Radio, New Delhi} विशिष्टं साक्षात्संभाषणम् अद्य सायं
प्रसार्यते। भारतीय-संस्कृत-पत्रकार-सङ् घस्य
महासचिवेन साक्षात्संभाषमाणः श्रीला.ब.शा.रा.सं.विद्यापीठस्य कुलपतिः
भा.सं.प.संघस्य उपाध्यक्षः च प्रो.रमेशकुमार-पाण्डेयः सिंहस्थ-कुम्भस्य
विस्तृतम् ऐतिहासिकं ज्यौतिषं सांस्कृतिकम् आध्यात्मिकञ्च महत्वं
ख्यापितवान्। चित्रस्थः प्रसारणाधिकारी श्री डी.थोमस् एतादृशान् अपरान्
कार्यक्रमान् प्रसारयितुं समुत्सहते इत्यस्ति सुखकरी वार्ता।"
Wednesday, April 20, 2016
विजयमल्ल्यं प्रति प्रतिभूतिरहितम् अधिपत्रं विज्ञापितम्।
मुम्बई- विवादशौण्डिकं विजयमल्ल्यं बध्नातुं मुम्बय्यां सविशेषन्यायालयः प्रतिभूतिरहितम् अधिपत्रं विज्ञापितम्।
ऐ.डि.बि.ऐ वित्तकोशात् किङ्फिषर् इति विमानसंस्थायै स्वीकृतं ९०० कोटिरूप्यकाणाम् ऋणम् अनुचितरीत्या विदेशे धनं सम्पादयितुम् उपयुक्तवान् इति विषये एन्फोर्स्मेन्ट् डयरक्टरेट् संस्थायाः अपेक्षानुसारमेव न्यायालयस्य अधिपत्रम्।
अतितापे राष्ट्रं दहति।
कोच्ची - ग्रीष्मतापः भारते सर्वत्र जनजीवनं दुस्सहं कारयति। महाराष्ट्रं ओडीषा तेलुङ्काना केरलम् इत्यादीनि राज्यानि रूक्षम् अनावृष्टिनाशम् अनुभवन्ति।
ओडीषायां तापमानः ४६ डिग्री सेल्ष्यस् रेखितः। नवदिल्ल्यां ४४ डिग्री अतीतः। केरले उच्चतमः तापः मलम्पुष़ायाम् अङ्कितः -४१.१ डिग्री सेल्ष्यस्।
केरले नद्यः सर्वाः शुष्यन्ति स्म। कृषेश्च व्यापकनाश अभवत्।
आदिवासिकुटुम्बैः वासः नद्यां कृतः।
कोट्टियूर्,केरलम् - रूक्षया अनावृष्ट्या आदिवासिनः स्वावासस्थानं विहाय नदी तीरमाश्रिताः। कण्णूर् जनपदे नेल्लियोट् कल्लंतोट् सहनिवासस्थाः वनवासिनः सकुटुम्बं बावलीनदीमाश्रित्य कुटीराणि कृत्वा वासमारब्धवन्तः।
अष्ट परिवाराः अपत्यैः सह नद्यां पर्णकुटीराणि निर्मीय तेष्वेव वासः। जनुवरिमासादारभ्य जलदौर्लभ्यमनुभवन्तीति तैः उक्ततम्। इदानीं नद्यां लघुगर्तं कृत्वा जलं सम्पादयन्ति। पचनस्वापादिकं सर्वं कुटीरे एव कुर्वन्ति।
Tuesday, April 19, 2016
प्रतिभूतिव्यवस्थायै सार्वजनीनमानदण्डः।
नवदिल्ली - अपराधविषयेषु प्रतिभूत्यनुमतिदानव्यवस्थेभ्यः सार्वजनीनमानदण्डं व्ववस्थापयितुं केन्द्रसर्वकारेण लक्ष्यते। न्यायाधिपानाम् इष्टानिष्टविधेयकं प्रतिभूतिदानं निषेधं च अपाकर्तुमेवायं परिचिन्तनम्।
एतदर्थं सर्वकारेण नीतिसमित्याः मतम् अन्वेष्टुं निश्चितम्। नीतिन्यायमन्त्री सदानन्दगौडः नीतिसमित्याः अध्यक्षेण बि एस् चौहानेन सह चर्चा कृतवान्।
Monday, April 18, 2016
इक्वडोरे भूकम्पः- २३३ जनाः मृताः।
क्विट्टो > इक्वडोर्देशे जाते भूकम्पे त्रयस्त्रिंशदधिक दिशत संख्यकाः जनाः मृताः। संख्या इतोप्यधिकं भवितुमर्हति। रिक्टर् मापिकायां ७.८ अङ्किते भूचलने बहूनिगृहाणि वाहनानि च भग्नानि। वाणिज्यनिलयानि वीथयः अपरिसेतवः च भगनानि। वैद्युत दूरवाणी सेवनानि स्थगितानि। राजधानी नगरे (क्विट्टो) चत्वारिंशत् निमेषपर्यन्तं कम्पनम् अभवत्। इक्वडोर् कोलम्बिय तीरदेशेभ्यः सुनामीभीत्या जनाः अन्यत्र प्रापिताः।
वर्णविस्मयं कृत्वा तृश्शिवपेरूर् पूरं सम्पन्नम्।
तृश्शिवपेरूर् - दृश्यस्य वर्णविस्मयं कृत्वा वटक्कुन्नाथमन्दिराङ्कणे छत्रपरिवर्तनं सम्पन्नम्। मन्दिरस्य दक्षिणप्राकारकवाटे अभिमुखं स्थित्वा पारमेक्काव् तिरुवम्पाटि संधौ वर्णछत्राणां स्थानान्तरशीध्रतया दृश्योत्सवविस्मयं कृतवन्तौ।
Sunday, April 17, 2016
जापानस्य भूकम्पे ३५ जनाः मृताः
कुम मोट्टो > दक्षिण जापानं प्रकम्पितयोः भूकम्प्रयोः पञ्चत्रिशत् जनाः मृताः सहस्राधिकाः व्रणिताः। एतेषु चत्वारिंशदधिक अष्टादशशतानां जनानां अवस्था गुरुतरा अस्ति। प्रचण्डवातः मृत् पातः च भविष्यतः इति घोषणां श्रुत्वा जनाः भयचकिताः। कुमोट्टो मण्डलेषु एव नाशाधिक्यः। गृहाणि, पन्थानः, रेल् पन्थानः च निमिषार्धेन अप्रत्यक्षाः अभवन्। हर्म्यावशिष्टाणांमध्ये जनाः बहवः बन्धिताः। रक्षाप्रवर्तनानि अनुवर्तते च। गुरुवासरे जाते कम्पने नवजनाः मृताः आसन्। किन्तु शनिवासरस्य कम्पने १६ जनाः मृताः I रिक्टर् मापिकायं ७ अंकिताः द्वितीयः कम्पः। सेतोः नाशं विचिन्त्य ३००जनाः ततः निष्कासिताः। इदानीम् आहत्य ९०,००० जनाः सुरक्षितस्थानं प्रापिताः। चतुरधिकशतं वर्षान् भूकम्पान् अतिजीव्य तिष्टन् कुममोट्टो प्राकारः भागिकतया नाशिताः १६०७ तमे वर्षे राज्ञा कियो मासो काट्टो महात्मना मिर्मितोSयं प्राकारः।
प्रभावहानिं विना अद्य तृश्शिवपेरूर् पूरम् ।
तृश्शिवपेरूर् - (केरलम् ) - विश्वप्रसिद्धः तृशूर् पूरं महोत्सवः अद्य तृश्शिवपेरूर् वटक्कुन्नाथमन्दिराङ्कणे प्रचलति ।
पुट्टिङ्ङल् स्फोटकदुरन्तस्य पृष्ठभूमिकया स्फोटोत्सवः दिवां गजावलिप्रदर्शनं च उच्चन्यायालयेन निरुद्धौ इत्यतः पूरं नाममात्रं कर्तुं निश्चितमासीत् । परन्तु मुख्यमन्त्रिणः उम्मन् चाण्टि वर्यस्य नेतृत्वे त्रिभिः मन्त्रिभिः देवस्वम् अधिकारिभिश्च सह तृश्शिवपेरूरे सम्पन्नायां चर्चायां पूरं सर्वप्रभावेण प्रौढ्या च संचालयितुं निश्चयः कृतः । गजप्रदर्शनस्य नियन्त्रणं सर्वकारेण निराकृतम् । तथा स्फोटोत्सवाय उच्चन्यायालयस्य अनुमतिः लब्धा च ।
Saturday, April 16, 2016
केरळे संस्कृताधापकपरिशीलनम् आरब्धम्।
इटुक्की > केरळे चतुर्दिन संस्कृताध्यापक सहयोगकार्यक्रमः आरब्धः। विविधेभ्यः जनपथेभ्यः द्विचत्वारिंशत् अध्यापकाः विशेषज्ञत्वेन परिशीलिताः भवेयुः। एते केरळस्य विविधेषु प्रदेशोषु अध्यापकेभ्यः अध्यापनाय सहाय्यं करिष्यन्ति।
सार्वजनीन-शिक्षामण्डले निजीय शैक्षिकमण्डलापेक्षया अधिकतया उत्कर्षः जातः इति अभिप्रयन्ति जनाः। संस्कृत -विभागे प्रथम कक्षादारभ्य द्वादाश कक्षापर्यन्तं चतुर्लक्षं छात्राः पठन्ति। १०१६ जूण्मासे पञ्चाशत् सहस्रं छात्राः प्रथम कक्ष्यायां आगच्छेयुः इति प्रतीक्ष्यते इति राज्यस्तरीय शैक्षिक अनुसन्धानस्य संस्कृत विभागास्य प्रत्येक अधिकारी श्रीमति डा. सुनीतीदेवी वर्या अक्तवती। इदानीं प्रथमकक्षायां संस्कृतपठनाय सर्वेषां अवसरः नास्ति। यत्र प्रथम कक्षादारभ्य सप्तमकक्षा पर्यन्तं माध्यमिकविद्यालयः आयोजितः अस्ति केवलं तत्रैव संस्कृताध्ययनाय अवसरः इति न्यूनताअस्ति। किन्तु इदानीम् अधिकाः जनाः अपत्यान् संस्कृतं पाठयतुम् अभिलषन्ति इति च सा उक्तवती।
काश्मीरे सैन्यस्य नालिकाशस्त्रप्रहारेण चिकित्सितः छात्रः मृतः।
ऐ पि एल् अन्तिमचक्रं बंगलुरुं स्थानपरिवर्तनाय निर्देशः।
भूमिं अन्धकारं कर्तुं सौर-प्रचण्डवातः
विज्ञानलोकाः भीत्याम्।
वैद्युत श्रृङ्खलां नाशयितुं सक्षमो भवति अयं सौरचण्डवातः। जि. पि. एस्. आदयः साङ्केतिक संविधानान् नाशयितुमपि अयं शक्तः। अतः वयं जाग्रताः भवेम ।
भारतेन सह चर्चा अनुवर्तिष्यते ।
कराच्ची > भारतेन सह विद्यमाना चर्चा विना भेदं अनुवर्तिष्यतेति पाकिस्थानः। राष्ट्रयोर्मध्ये . विद्यमान-समस्यापरिहाराय चर्चया विना ना न्य: मार्ग: इत्युक्तं पाक् विदेशकार्य वक्त्रा नफीस् स्करियया। चर्चायाः रूपरेखा सज्जीकरण समनन्तर मेव विदेशकार्य सजिव स्तरीय मेल नं भविष्यति। भारतेन सहचर्चा निलम्बिता इति गते सप्ताहे पाक् स्थानपतिना उक्तमासीत् । नयतन्त्रमित्यनेन राष्ट्राणां परस्पर सम्पर्कः एव उद्दिश्यते । सीजवस्तरीय चर्चायै उपाधि स्वीकरणं नोचितम्।
इन्धनतैल मूल्ये अपचितिः।
सप्तति 'पैसाद्मिका' अपचितिरभवत्।
Subscribe to:
Posts (Atom)