OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 21, 2016

संस्कृतवार्तावतरणपरिशीलने शिल्पशाला आरब्धा। 


कोच्ची > छात्रेषु नूतनं दिशाबोधं जनयन् संस्कृतभाषायां वार्तावतरणे त्रिदिनात्मकशिल्पशाला चेङ्ङमनाट् सरस्वतीविद्यानिकेतन् विद्यालये समारब्धा। सम्प्रतिवार्तायाः सर्वशिक्षा अभियानस्य च संयुक्ताभिमुख्ये प्रचाल्यमानाम् इयं शिल्पशाला अाकाशवाण्याः कोच्ची निलयस्य निदेशकेन डो. बालकृष्णन् कोय्याल् वर्येण उद्घाटिता। संस्कृतभाषापठनद्वारा भारतसंस्कृतेः स्वांशीकरणं कार्यमिति बालकृष्णन् वर्येण उक्तम्।
सर्वशिक्षा अभियानस्य एरणाकुलं जिल्लाप्रकल्पाधिकारी डो.पि.ए.कुञ्ञ्मुहम्मद् वर्यः अध्यक्षपदम् अलङ्कृतवान्। सर्वशिक्षा अभियानस्य कृते  संस्कृतभाषायां सज्जीकृतं चिह्नम् (Logo) अपि अस्मिन् समारोहे एव प्रकाशितम्।
ssa logo sanskrit
  बालसाहित्यकारः षाजि मालिप्पारा , सरस्वती विद्यानिकेतन् प्रबन्धकः आर् वि जयकुमारः , कार्यदर्शी चन्द्रन् पिल्लै वर्यश्च आशंसां व्याहृतवन्तः।
  संप्रतिवार्तायाः मुख्यसंपादकः अय्यम्पुष़ा हरिकुमारः पत्रिकामधिकृत्य विशदीकृतवान्। एस् एस् ए जिल्ला कार्यक्रमाधिकारी एस् सन्तोष्कुमारः स्वागतं, पत्रिकायाः निदेशकसमित्यंगः एस् रविकुमारः कृतज्ञतां च व्याजहार।

 उज्जयिन्यां सिहंस्थ-पूर्ण-कुम्भ-मेला आकाशवाण्याःप्रसारणम् अद्य।
नवदिल्ली >साम्प्रतं महाकाल-नगर्याम् उज्जयिन्यां सिहंस्थ-पूर्ण-कुम्भ-मेला प्रवर्तते। जगति भारतीय-धार्मिक-आध्यात्मिक-परम्परासु च ऐतिहासिक-पर्वेदं सर्वेषामपि कृते शुभदं सुखदं च स्यादिति भावनया प्रवर्तमानायाः अस्याः मेलायाः सुबहु महत्वं वर्तते इति जानन्ति विद्वान्सः वार्ताहराः साधकाः निष्ठावन्तोsत्रभवन्तो भवन्तश्च। परश्वः अर्थात् २०७३-विक्रम-संवत्सरस्य  चैत्र-वैशाख-मासयोः पूर्णिमायां [२२-०४-२०१६] प्रथमं शाहिस्नान-पर्व भविता
 एनमवसरम् अभिलक्ष्य आकाशवाण्याः विदेश-प्रसारण-विभागेन {Indian Overseas Services of All India Radio, New Delhi} विशिष्टं साक्षात्संभाषणम् अद्य सायं प्रसार्यतेभारतीय-संस्कृत-पत्रकार-सङ्घस्य महासचिवेन साक्षात्संभाषमाणः श्रीला.ब.शा.रा.सं.विद्यापीठस्य कुलपतिः भा.सं.प.संघस्य उपाध्यक्षः च प्रो.रमेशकुमार-पाण्डेयः सिंहस्थ-कुम्भस्य विस्तृतम् ऐतिहासिकं ज्यौतिषं सांस्कृतिकम् आध्यात्मिकञ्च महत्वं ख्यापितवान्। चित्रस्थः  प्रसारणाधिकारी श्री डी.थोमस् एतादृशान् अपरान् कार्यक्रमान् प्रसारयितुं समुत्सहते इत्यस्ति सुखकरी वार्ता।"