OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, July 31, 2025

 'एन् ऐसार्' भौमनिरीक्षणोपग्रहः विक्षिप्तः। 

चेन्नै> बहिराकाशगवेषणमण्डले भारत-अमेरिकयोः विशिष्टसहयोगः। उभयोरपि राष्ट्रयोः बहिराकाशगवेषणसंस्थाभ्यां संयुक्ततया विकसितः 'एन् ऐसार्' नामकः भौमनिरीक्षणोपग्रहः श्रीहरिक्कोट्टायां सतीष् धवान् बहिराकाशनिलयात् विक्षिप्तः। भारतस्य जि एस् एल् वि - एफ् १६ इति शक्तिमत् विक्षेपवाहनेन एव उपग्रहः भ्रमणपथं नीतः। १९ निमेषाभ्यन्तरे उपग्रहं पृथ्वीतः ७४० कि मी मितं दूरस्थं भ्रमणपथमनयत् इति इस्रोसंस्थायाः अध्यक्षः डो वि नारायणः प्रोक्तवान्।

 सामाजिक माध्यमेषु कालः न यापनीयः पठन्तु  कृत्रिमबुद्धिमत्ता। अरविन्द श्रीनिवासः।

  इन्स्टाग्रामादि सामाजिक माध्यमेषु क्रीडनम् इच्छन्तः विद्यार्थिनः उद्दिश्य आसीत् महोदयस्य इदं वाक्यम्। कृत्रिमबुद्धिमत्तां शिक्षन्ताम् – अन्यथा कर्मलाभः सुदुष्करः भवेत् : इति महोदयः यूनं उद्बोधितवान्


भारतीयो अयं अरविन्दः श्रीनिवासः  ‘Perplexity AI’ इत्यस्य सहसंस्थापकः भवति । तस्य सन्देशः इदानीं सामाजिक माध्यमेषु प्रचुरप्रसरितः (viral) अभवत्।


  तस्य संदेशस्य सारः एवमस्ति–

कृत्रिमबुद्धिः, यन्त्राध्ययनम् (machine learning), दत्त (Data) विज्ञानम्, स्वचालितप्रणालीनिर्माणम् इत्यादीनि अनुस्यूततया प्रचलिष्यन्ति। नूतनं तन्त्रज्ञानं प्रतिदिनं जायमानम् अस्ति। एतेषु कुशलाः एव भविष्ये उत्तमानि कर्मसन्धानानि साधयति।


 "Instagram इत्यस्मिन् समयस्य नाशः मास्तु। तस्मिन् काले कृत्रिमबुद्धेः ज्ञानं संग्रहीतव्यम्। नो चेत् वृत्यर्थं धावन्तः क्लेशं अनुभविष्यन्ति।"

Coursera, edX, Udemy इत्यादिषु Online पाठ्यक्रमाः। GitHub, Kaggle इत्यादिषु कृत्रिमबुद्धेः प्रयोगः। YouTube इत्यत्र निःशुल्कशिक्षावीडियोदर्शनम् ChatGPT, Gemini इत्यादीनां साहाय्येन शिक्षणं च करणीयम् इति अरविन्दः युवकान् उद्दिश्य अवदत् ।

तिब्बते ब्रह्मपुत्रस्य उपरि महा-सेतुबन्धनिर्माणम् आरब्धम्, भारतस्य आशङ्का वर्धिता।

कृत्रिमबुद्धिमत्तया निर्मितं चित्रम्

   तिब्बतप्रदेशे यार्लुंग्त्साङ्पो इत्याख्यायाम् ब्रह्मपुत्रः नाम नद्याम् चीनदेशेन जगति अतीव महद् जलविद्युत्प्रकल्पः आरब्धः अस्ति। अस्य प्रकल्पस्य सामर्थ्यम् ६० GW अस्ति, यः आकारे विश्वप्रसिद्धस्य पूर्वाधार-परियोजनायाः त्रैगुण्यम् अतिक्रामति।

    एषः बन्धः भारतस्य पूर्वोत्तरभागे जलप्रवाहम्, कृषि-व्यवस्थां च गम्भीरेण प्रकारेण प्रबाधयितुं शक्नोति। अतः भारतदेशेन अयं प्रकल्पः "जलबोम्ब्" इत्याख्यया विशेषतया चिन्तनीयः इति घोष्यते। यः प्रदेशः भूकम्पप्रभवकेन्द्रः अस्ति, तस्मिन् एषः निर्माणकार्यं पर्यावरणदृष्ट्या अपि विवादास्पदम् अभवत्।

     भारतदेशेन चीनं प्रति निवेदनं कृतम्— " निम्न-देशस्थितानां राज्यानां हिताय परियोजनायाः निर्माणं करणीयम्" इति। परन्तु चीनदेशः एतां परियोजनां स्वस्य ऊर्जा-स्वावलम्बनाय तथा 'कार्बण्-न्यूट्रल्' लक्ष्यसिद्ध्यै आवश्यकं मन्यते।

 कृषकेभ्यः पञ्जीकृतसुविधा आयोजिता।

   नवदिली> कृषकाणां कल्याणाय केन्द्रसर्वकारः सङ्गणक-कृषक-पञ्चीकरणं समारब्धम्। कृषिक्षेत्रे स्वामित्वं विद्यमानानां - पि एम् किसान् योजनायाम् अन्तर्गतानां कृषकाणां क्षेत्रसंबन्धीनि कृषिसंबन्धीनि विवरणानि अत्र निवेशनीयनि भवन्ति। सर्वेभ्यः कृषक व्यक्तिसूचक-संख्या ( Unique Farmer ID Number) अपि प्रदास्यते। अनेन कृषिवर्धनाय अनुकूला सेवा, विना विलम्बं लभते इत्यस्ति वैशिष्ट्यम्।

 भारतस्य ट्रम्पशुल्कः २५%। 

अनिष्टे द्रव्यदण्डमपि!

मुम्बई> विविधेषु राष्ट्रेषु उपरि डोनाल्ड ट्रम्पेन विहितेषु आयातशुल्केषु प्राबल्यमानेतुं एकमात्रे दिने अवशिष्टे भारतस्य उपर्यपि आयातशुल्कः विहितः। भारतात् निर्यातानां सामानानां यू एस् राष्ट्रे २५% शुल्कं राष्ट्रपतिना डोनाल्ड ट्रम्पेन विहितम्। ओगस्त् प्रथमदिनाङ्कतः प्रवृत्तिपथमेष्यति। 

 तथा च रूसराष्ट्रात् तैलेन्धनं क्रीणाति इत्यनिष्टकारणेन द्रव्यदण्डं विधास्यतीति ट्रम्पेण घोषितम्।

 युक्रैने रष्यायाः आक्रमणं - २२ मरणानि। 

ट्रम्पस्य अन्त्यशासनं निष्फलम्।

कीव्>  १० -१२ दिनाभ्यन्तरे युद्धं समापनीयमिति डोनाल्ड ट्रम्पस्य अन्त्यशासनं तृणवद्गणयित्वा रष्यया युक्रैने  विधत्ते आक्रमणे २२ जनाः हताः। सोमवासरे रात्रौ आसीदाक्रमणम्। सपोरिसा इत्यत्रस्थं कारागृहं प्रति विधत्ते बोम्बाक्रमणे १७ कारागृहवासिनः मृताः। अशीत्यधिके जनाः व्रणिताः। डिनिप्रोस्थाने वर्तमानम् आतुरालयं प्रति कृते आक्रमणे चत्वारः मृताः। अष्ट जनाः कठिनतया आहताः। ७३ स्थानेषु रष्यया आक्रमणं कृतं, २२ मरणानि अभवन्निति युक्रेनस्य राष्ट्रपतिः व्लोदिमर्  सेलन्स्की अवोचत्।

Wednesday, July 30, 2025

 ओपरेषन् सिन्दूरं

संसदि चर्चा सम्पन्ना। 

संसदि सम्पन्ना चर्चा 

युद्धपरिसमाप्तये स्वस्य व्यवहारः जात इति ट्रम्पस्य वादः प्रधानमन्त्रिणा निरस्तः।

राक्षामन्त्री राजनाथसिंहः स्वाभिमतं प्रकाशयति। 

नवदिल्ली> पहल्गामे आतङ्कवाद्याक्रमणानन्तरं भारतेन कृतः सैनिकप्रक्रमं - ओपरेषन् सिन्दूरम् - अधिकृत्य विपक्षदलस्य निरन्तरापेक्षानुसारं लोकसभायां १६ होराः  दीर्घिता चर्चा समायोजिता। 

  शासनपक्षतः राष्ट्ररक्षामन्त्री   राजनाथसिंहः, गृहमन्त्री अमित शाहः, जे पि नड्डा इत्यादयः प्रमुखाः चर्चायां भागं कृतवन्तः। आतङ्कवादं विरुध्य भारतस्य प्रक्रमाः ओपरेषन् सिन्दूरात् परमपि अनुवर्तन्ते,  तत्कारणादेव सोमवासरे अपि पहल्गाम भीकराक्रमणे साक्षात् नेतृत्वमूढवन्तं भीकरमभिव्याप्य त्रीन् भीकरान् मारयितुं सेना अशक्नुवदिति ते सूचितवन्तः। 

  विपक्षतः विपक्षनेता राहुल गान्धी, प्रियङ्कागान्धी, पि चिदम्बरम् इत्यादयः प्रमुखाः नेतारः भागं गृहीतवन्तः। युद्धपरिसमाप्तये स्वस्य निर्देशः आवश्यक अभवदिति अमेरिकायाः राष्ट्रपतेः डोनाल्ड ट्रम्पस्य अभिमानवादान् निराकर्तुं प्रधानमन्त्री सज्जः भवेदिति विपक्षभागतः अपेक्षितम्। 

  चर्चायाः  उपसंहाररूपेण प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् युद्धसमाप्तये कस्यापि विदेशराष्ट्रस्य व्यवहारः न जातः। ट्रम्पस्य अभिमानवादः मोदिना निरस्तः। पाकिस्थानस्य सेनााधिकारी भारतस्य आक्रमणं सोढुं परमक्तमित्यतः युद्धं समापयितुं ययाचे इति प्रधानमन्त्रिणा स्पष्टीकृतम्।

 दिव्या देशमुखः - विश्वचषकं प्रापयन्ती प्रथमा भारतीयवनिता। 

बातुमी> फिडे महिला विश्वचषकचतुरङ्गकिरीटं प्राप्तवती दिव्या देशमुखः एतदुपलब्धिं प्राप्यमाणा प्रथमा भारतीयमहिला भवति। चतुरङ्गक्रीडायां परिणतप्रज्ञां कोनेरु हम्पीमेव  १९ वयस्का एषा कुमारी समस्थितिभञ्जकस्य द्वितीयक्रीडायां  पराजितवती। प्राप्ताङ्कः २. ५ - १. ५। अनेन विजयेन 'ग्रान्ड् मास्टर्' स्थानमपि एतस्यै  लब्धम्। 

  विश्वस्मिन् प्रमुखाः १०७ क्रीडिकाः वीरतास्पर्धायां निकषायन्ते स्म। विश्वश्रेणीगणे १५ तमं 'सीड्' पदे उपस्थितायै दिव्यायै प्रारम्भे सम्भावना न कल्पिता। किन्तु श्रेणीगणे अग्रेसर्यः एकैकां पराजित्य आसीत् दिव्यायाः अश्वमेधः। 

  महाराष्ट्रे नागपुरं प्रान्तीया दिव्या वैद्यदम्पत्योः जितेन्द्र देशमुख-नम्रता देशमुखयोः पुत्री अस्ति।

Tuesday, July 29, 2025

 'ओपरेषन् महादेवः'

काश्मीरे त्रयः भीकराः व्यापादिताः।

पहल्गामसुत्रधारः तेष्वेकः।

श्रीनगरं> 'ओपरेषन् महादेवः' इत्यभिधेयेन सेनाप्रक्रमेण पहल्गाम आक्रमणस्य मुख्यसूत्रधारमभिव्याप्य त्रयः भीकरनिष्ठुराः व्यापादिताः। 

  लष्कर ई तोय्बा इति भीकरसंघटनस्य मुख्यः कमान्डर् पदीयः हाषिम मूसा इत्याख्यः यः पहल्गाम आक्रमणे साक्षात् भागं कृतवान्  अपि हत इति सेनाधिकारिणा निगदितम्।

 चतुरङ्गे दिव्यात्भुतम्। 

दिव्या देशमुखाय विश्वमहिलाचतुरङ्गकिरीटम्। 


बातुमी> जोर्जिया राष्ट्रे बातुमीनगरे सम्पन्ने विश्वमहिलाचतुरङ्गक्रीडायाः अन्तिमे प्रतिद्वन्द्वे भारतस्य दिव्या देशमुखः नामिका १९ वयस्का किरीटं धृतवती। भारतस्यैव कोनेरुहम्पी नामिकां वरिष्ठां क्रीडिकां पराजित्य भवति दिव्यायाः विजयः। समस्थितिभञ्जकक्रीडायां   [Tie Breaker] द्वितीयक्रीडायाः ७५ तमं शारचालनं दिव्यायाः विजयकारणमभवत्।

Monday, July 28, 2025

 गासायै सहाय्यार्थं गता  महानौका इस्रयेलेन अवरुद्धा। 

टेल् अवीवः> गासायाः उपरि इस्रयेलेन विधत्तम् उपरोधमुल्लङ्घयितुमुद्दिश्य गासां प्रस्थिता 'हन्डाला'भिधेया महानौका इस्रयेलेन अवरुद्धा। 'फ्रीडं फ्लोटिला' इति साहाय्यसंघटनस्य महानौका आसीदियम्।

  महानौकायां वर्तमानाः सन्नद्धप्रवर्तकाः वार्ताहराश्च २१ संख्याकाः निगृहीताः कारागृहबद्धाश्च। महानौकास्थानि भोज्यवस्तूनि औषधानि च निगृहीतानि।

 भारतेङ्गलण्टयोः चतुर्थः निकषः समस्थितिं प्राप्तः।

त्रयः भारतीयक्रीडकाः 'शतकाभिषिक्ताः'।

माञ्चेस्टर्> भारत-इङ्गलण्टयोर्मध्ये माञ्चेस्टरे सम्पन्ना चतुर्था क्रिकट् निकषस्पर्धा समस्थितौ परिसमाप्ता। चतुर्थनिकषस्य पञ्चमे दिने भारतस्य द्वितीयताडनप्रकरणे ४२५/४ इति स्थिते समस्थितिः घोषिता। प्राप्ताङ्कसूचिका एवं - भारतं - ३५८, ४२५/४। इङ्गलण्टः - ६६९। 

  भारताय शुभमान गिलः चतर्थे निकषे अपि शतकं प्राप्तवान् [१०३]। तमतिरिच्य वाषिङ्टण सुन्दरः १०१ धावनाङ्कैः, रवीन्द्र जडेजः १०७ धावनाङ्कैश्च अबाह्यौ स्थितौ। निकषस्पर्धायाः चतुर्थे चरणे त्रयः भारतीयताडकाः शतकं प्राप्नुवन्ति इति प्रप्रथमं भवति। 

  अनेन इङ्गलण्टः २ - १ इति क्रमेण अग्रे अस्ति। पञ्चमः अन्तिमश्च निकषः ४३१ तमदिनाङ्कतः ओवल् क्रीडाङ्कणे सम्पत्स्यते।

 महिला चतुरङ्गः 

द्वितीयाक्रीडा अपि समस्थितौ। 

अद्य समस्थितिभञ्जकक्रीडा।

दिव्या हम्पी च।

बातुमी> महिलानां विश्वचषकचतुरङ्गक्रीडायाः अन्तिमस्पर्धायाः द्वितीयक्रीडा अपि समस्थितौ परिसमाप्ता। कोनेरु हम्पी, दिव्या देशमुखः इति द्वयोः भारतीयमहिलयोः स्पर्धा रविवासरे ३४ तमे शारचालने   समस्थितिं प्राप्ता। 

  सोमवासरे, अद्य सोपानत्रयोपेता  समस्थितिभञ्जकक्रीडा सम्पद्यते। कस्मिन्नपि चरणे का विजयते सा विश्वविजेत्री भविष्यति।

Sunday, July 27, 2025

 महिला विश्वचतुरङ्गचषकः। 

प्रथमचरणं समस्थितौ। 

कोनेरु हम्पी दिव्या देशमुखश्च अन्तिमस्पर्धायाम्। 

बातुमी> जोर्जियाराष्ट्रे बातुमी नगरे प्रचाल्यमानायाः  महिला विश्वचतुरङ्गचषकस्पर्धायाः अन्तिमचरणस्य प्रथमे दिने भारतीयमहिलयोः कोनेरु हम्पी - दिव्या देशमुखयोः स्पर्धा समस्थितिं प्राप्ता। अत्यन्तं प्रतिनिविष्ठतया क्रीडितयोः तयोः ४१ तमे शारचालने ते समस्थितिं स्वीकृतवत्यौ। द्वितीयक्रीडा अद्य सायं सम्पत्स्यते। अद्यतनविजेत्री चषकं प्रापयिष्यति। पुनः समस्थितिः चेत् सोमवासरे सम्पद्यमानेन समस्थितिभञ्जकेन [Tie breaker] विजेत्री निश्चेष्यते।

 मालद्वीपनेतृभिः सह मोदी मिलितवान्। 

माले> दिनद्वयसन्दर्शनार्थं मालद्वीपं प्राप्तवान् भारतप्रधानमन्त्री नरेन्द्रमोदी तत्रत्यैः राष्ट्रनेतृभिः सह मिलित्वा चर्चां कृतवान्। उभयोरपि राष्ट्रयोः सौहृदप्रबलीकरणमालक्ष्य आसन् चर्चाः। 

  शनिवासरे मालद्वीपसंसदः अध्यक्षः अब्दुल् रहीम अब्दुल्ला, भूतपूर्वराष्ट्रपतिः मुहम्मज नषीदः इत्येतयोः साकं संसदीयसौहृदसख्यमधिकृत्य चर्चां कृतवान्। शुक्रवासरे राष्ट्रपतिः मुहम्मद मुयिसु इत्यनेन सह कृतायाः चर्चायाः अनन्तरं द्वीपस्य आधारसुविधाप्रवर्धनाय ४८५० कोटि रूप्यकाणि ऋणरूपेण वाग्दत्तानि।

 अतिवृष्टिदुष्प्रभावः 

केरले सर्वत्र महानाशः, जलोपप्लव‌ः,  क्लेशः।

चत्वारः मृताः। 


कोच्ची>  दिनं यावत् अनुस्यूततया वर्षितस्य अतिवर्षस्य दुष्प्रभावेण आकेरलं महानाशः अभवत्।  उपशतं गृहाणि विशीर्णानि। सहस्रशः वासगृहाणि जलाप्लावितानि भवन्ति। जनाः बन्धुगृहाणि दुरिताश्वासशिबिराणि च अभयं प्राप्तवन्तः।   मुख्यवीथयः तत्र जलनिमग्नाः जाताः। 

  प्रायेण सर्वेषु जनपदेषु निम्नप्रदेशाः जलनिमग्नाः जाताः। व्रीहि-कदल्यादयः  कृषयः सर्वे विनष्टाः। सर्वासु नदिषु जलोपप्लवः अजायत। जनजीवनं क्लेशमयमभवत्। विविधजनपदेषु दुरापन्नासु दुर्घटनासु चत्वारः जनाः मृताः। अद्यापि सर्वेषु जनपदेषु जाग्रत्तानिर्देशः कृतः।

Saturday, July 26, 2025

 अद्य कार्गिल् विजयदिवसः। 


नवदिल्ली> १९९९ तमे वर्षे कार्गिल् सीमामुल्लङ्घ्य अतिक्रान्तान् पाकिस्थानसैनिकान् अपसार्य विजयीभूतायाः भारतसेनायाः विजयस्य शनिवासरे २६ वयः प्राप्नोति। युद्धे ५२७ भटाः वीरमृत्युं प्रापुः। 'ओपरेषन् विजयः' इत्यासीत् तदानींतनदौत्यस्य नामधेयः। 

   विजयदिनाचरणं पुरस्कृत्य  द्रासक्षेत्रे भारतसेनया अनुस्मरणकार्यक्रमाः आरब्धाः। कार्गिल् युद्धस्मारके रक्षासहमन्त्रिणः नेतृत्वे पुष्पचक्राणि समर्पितानि। कार्गिल् बलिदानिनां कृते नागरिकाणां ओण् लैन् द्वारा श्रद्धाञ्जलिं समर्पयितुं 'ई-श्रद्धाञ्जली' इति अन्तर्जालीयप्रवेशकः [Portal] शनिवासरे सैन्येन आरभ्यते।

 ताय्लान्ट्-कम्बोडिया सीमायां संघर्षः।

११ ताय्लान्टीयाः व्यापादिताः।  

संघर्षप्रदेशे ताय् सैन्यस्य कवचितवाहनानि। 

बाङ्कोक्> प्रातिवेशिकराष्ट्रयोः ताय्लान्ट -कम्बोडिययोः मध्ये सैनिकसंघर्षः। सीमाप्रदेशः युद्धसमानावस्थां प्राप्तः। 

  उभयोरपि राष्ट्रयोर्मध्ये वर्षशतकैः वर्तमानः सीमाधिष्ठितकलहः गतदिनेषु मूर्धन्यावस्थां प्राप्तः आसीत्। तस्य अंशतया ताय् ग्रामेषु कम्बोडियया कृते व्योमाक्रमणे ११ जनाः हताः। तेषु अधिके सामान्यजनाः इति सूच्यते। 

  षट्सु सीमाप्रदेषु परस्पराक्रमणम् अनुवर्तते इति ताय्लान्टस्य राष्ट्रसुरक्षामन्त्रालयाधिकारिणा उक्तम्। गुरुवासरे कम्बोडियया व्योमाक्रमणे आरब्धे ताय् ग्रामवासिनः गृहेभ्यः  पलायितुमारभन्त।