OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, July 30, 2025

 ओपरेषन् सिन्दूरं

संसदि चर्चा सम्पन्ना। 

संसदि सम्पन्ना चर्चा 

युद्धपरिसमाप्तये स्वस्य व्यवहारः जात इति ट्रम्पस्य वादः प्रधानमन्त्रिणा निरस्तः।

राक्षामन्त्री राजनाथसिंहः स्वाभिमतं प्रकाशयति। 

नवदिल्ली> पहल्गामे आतङ्कवाद्याक्रमणानन्तरं भारतेन कृतः सैनिकप्रक्रमं - ओपरेषन् सिन्दूरम् - अधिकृत्य विपक्षदलस्य निरन्तरापेक्षानुसारं लोकसभायां १६ होराः  दीर्घिता चर्चा समायोजिता। 

  शासनपक्षतः राष्ट्ररक्षामन्त्री   राजनाथसिंहः, गृहमन्त्री अमित शाहः, जे पि नड्डा इत्यादयः प्रमुखाः चर्चायां भागं कृतवन्तः। आतङ्कवादं विरुध्य भारतस्य प्रक्रमाः ओपरेषन् सिन्दूरात् परमपि अनुवर्तन्ते,  तत्कारणादेव सोमवासरे अपि पहल्गाम भीकराक्रमणे साक्षात् नेतृत्वमूढवन्तं भीकरमभिव्याप्य त्रीन् भीकरान् मारयितुं सेना अशक्नुवदिति ते सूचितवन्तः। 

  विपक्षतः विपक्षनेता राहुल गान्धी, प्रियङ्कागान्धी, पि चिदम्बरम् इत्यादयः प्रमुखाः नेतारः भागं गृहीतवन्तः। युद्धपरिसमाप्तये स्वस्य निर्देशः आवश्यक अभवदिति अमेरिकायाः राष्ट्रपतेः डोनाल्ड ट्रम्पस्य अभिमानवादान् निराकर्तुं प्रधानमन्त्री सज्जः भवेदिति विपक्षभागतः अपेक्षितम्। 

  चर्चायाः  उपसंहाररूपेण प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् युद्धसमाप्तये कस्यापि विदेशराष्ट्रस्य व्यवहारः न जातः। ट्रम्पस्य अभिमानवादः मोदिना निरस्तः। पाकिस्थानस्य सेनााधिकारी भारतस्य आक्रमणं सोढुं परमक्तमित्यतः युद्धं समापयितुं ययाचे इति प्रधानमन्त्रिणा स्पष्टीकृतम्।