OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 31, 2025

 सामाजिक माध्यमेषु कालः न यापनीयः पठन्तु  कृत्रिमबुद्धिमत्ता। अरविन्द श्रीनिवासः।

  इन्स्टाग्रामादि सामाजिक माध्यमेषु क्रीडनम् इच्छन्तः विद्यार्थिनः उद्दिश्य आसीत् महोदयस्य इदं वाक्यम्। कृत्रिमबुद्धिमत्तां शिक्षन्ताम् – अन्यथा कर्मलाभः सुदुष्करः भवेत् : इति महोदयः यूनं उद्बोधितवान्


भारतीयो अयं अरविन्दः श्रीनिवासः  ‘Perplexity AI’ इत्यस्य सहसंस्थापकः भवति । तस्य सन्देशः इदानीं सामाजिक माध्यमेषु प्रचुरप्रसरितः (viral) अभवत्।


  तस्य संदेशस्य सारः एवमस्ति–

कृत्रिमबुद्धिः, यन्त्राध्ययनम् (machine learning), दत्त (Data) विज्ञानम्, स्वचालितप्रणालीनिर्माणम् इत्यादीनि अनुस्यूततया प्रचलिष्यन्ति। नूतनं तन्त्रज्ञानं प्रतिदिनं जायमानम् अस्ति। एतेषु कुशलाः एव भविष्ये उत्तमानि कर्मसन्धानानि साधयति।


 "Instagram इत्यस्मिन् समयस्य नाशः मास्तु। तस्मिन् काले कृत्रिमबुद्धेः ज्ञानं संग्रहीतव्यम्। नो चेत् वृत्यर्थं धावन्तः क्लेशं अनुभविष्यन्ति।"

Coursera, edX, Udemy इत्यादिषु Online पाठ्यक्रमाः। GitHub, Kaggle इत्यादिषु कृत्रिमबुद्धेः प्रयोगः। YouTube इत्यत्र निःशुल्कशिक्षावीडियोदर्शनम् ChatGPT, Gemini इत्यादीनां साहाय्येन शिक्षणं च करणीयम् इति अरविन्दः युवकान् उद्दिश्य अवदत् ।