अतिवृष्टिदुष्प्रभावः
केरले सर्वत्र महानाशः, जलोपप्लवः, क्लेशः।
चत्वारः मृताः।
कोच्ची> दिनं यावत् अनुस्यूततया वर्षितस्य अतिवर्षस्य दुष्प्रभावेण आकेरलं महानाशः अभवत्। उपशतं गृहाणि विशीर्णानि। सहस्रशः वासगृहाणि जलाप्लावितानि भवन्ति। जनाः बन्धुगृहाणि दुरिताश्वासशिबिराणि च अभयं प्राप्तवन्तः। मुख्यवीथयः तत्र जलनिमग्नाः जाताः।
प्रायेण सर्वेषु जनपदेषु निम्नप्रदेशाः जलनिमग्नाः जाताः। व्रीहि-कदल्यादयः कृषयः सर्वे विनष्टाः। सर्वासु नदिषु जलोपप्लवः अजायत। जनजीवनं क्लेशमयमभवत्। विविधजनपदेषु दुरापन्नासु दुर्घटनासु चत्वारः जनाः मृताः। अद्यापि सर्वेषु जनपदेषु जाग्रत्तानिर्देशः कृतः।