महिला विश्वचतुरङ्गचषकः।
प्रथमचरणं समस्थितौ। कोनेरु हम्पी दिव्या देशमुखश्च अन्तिमस्पर्धायाम्।
बातुमी> जोर्जियाराष्ट्रे बातुमी नगरे प्रचाल्यमानायाः महिला विश्वचतुरङ्गचषकस्पर्धायाः अन्तिमचरणस्य प्रथमे दिने भारतीयमहिलयोः कोनेरु हम्पी - दिव्या देशमुखयोः स्पर्धा समस्थितिं प्राप्ता। अत्यन्तं प्रतिनिविष्ठतया क्रीडितयोः तयोः ४१ तमे शारचालने ते समस्थितिं स्वीकृतवत्यौ। द्वितीयक्रीडा अद्य सायं सम्पत्स्यते। अद्यतनविजेत्री चषकं प्रापयिष्यति। पुनः समस्थितिः चेत् सोमवासरे सम्पद्यमानेन समस्थितिभञ्जकेन [Tie breaker] विजेत्री निश्चेष्यते।