OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 28, 2025

 महिला चतुरङ्गः 

द्वितीयाक्रीडा अपि समस्थितौ। 

अद्य समस्थितिभञ्जकक्रीडा।

दिव्या हम्पी च।

बातुमी> महिलानां विश्वचषकचतुरङ्गक्रीडायाः अन्तिमस्पर्धायाः द्वितीयक्रीडा अपि समस्थितौ परिसमाप्ता। कोनेरु हम्पी, दिव्या देशमुखः इति द्वयोः भारतीयमहिलयोः स्पर्धा रविवासरे ३४ तमे शारचालने   समस्थितिं प्राप्ता। 

  सोमवासरे, अद्य सोपानत्रयोपेता  समस्थितिभञ्जकक्रीडा सम्पद्यते। कस्मिन्नपि चरणे का विजयते सा विश्वविजेत्री भविष्यति।