OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 31, 2025

 युक्रैने रष्यायाः आक्रमणं - २२ मरणानि। 

ट्रम्पस्य अन्त्यशासनं निष्फलम्।

कीव्>  १० -१२ दिनाभ्यन्तरे युद्धं समापनीयमिति डोनाल्ड ट्रम्पस्य अन्त्यशासनं तृणवद्गणयित्वा रष्यया युक्रैने  विधत्ते आक्रमणे २२ जनाः हताः। सोमवासरे रात्रौ आसीदाक्रमणम्। सपोरिसा इत्यत्रस्थं कारागृहं प्रति विधत्ते बोम्बाक्रमणे १७ कारागृहवासिनः मृताः। अशीत्यधिके जनाः व्रणिताः। डिनिप्रोस्थाने वर्तमानम् आतुरालयं प्रति कृते आक्रमणे चत्वारः मृताः। अष्ट जनाः कठिनतया आहताः। ७३ स्थानेषु रष्यया आक्रमणं कृतं, २२ मरणानि अभवन्निति युक्रेनस्य राष्ट्रपतिः व्लोदिमर्  सेलन्स्की अवोचत्।