OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 26, 2025

 अद्य कार्गिल् विजयदिवसः। 


नवदिल्ली> १९९९ तमे वर्षे कार्गिल् सीमामुल्लङ्घ्य अतिक्रान्तान् पाकिस्थानसैनिकान् अपसार्य विजयीभूतायाः भारतसेनायाः विजयस्य शनिवासरे २६ वयः प्राप्नोति। युद्धे ५२७ भटाः वीरमृत्युं प्रापुः। 'ओपरेषन् विजयः' इत्यासीत् तदानींतनदौत्यस्य नामधेयः। 

   विजयदिनाचरणं पुरस्कृत्य  द्रासक्षेत्रे भारतसेनया अनुस्मरणकार्यक्रमाः आरब्धाः। कार्गिल् युद्धस्मारके रक्षासहमन्त्रिणः नेतृत्वे पुष्पचक्राणि समर्पितानि। कार्गिल् बलिदानिनां कृते नागरिकाणां ओण् लैन् द्वारा श्रद्धाञ्जलिं समर्पयितुं 'ई-श्रद्धाञ्जली' इति अन्तर्जालीयप्रवेशकः [Portal] शनिवासरे सैन्येन आरभ्यते।