ताय्लान्ट्-कम्बोडिया सीमायां संघर्षः।
११ ताय्लान्टीयाः व्यापादिताः।
![]() |
संघर्षप्रदेशे ताय् सैन्यस्य कवचितवाहनानि। |
बाङ्कोक्> प्रातिवेशिकराष्ट्रयोः ताय्लान्ट -कम्बोडिययोः मध्ये सैनिकसंघर्षः। सीमाप्रदेशः युद्धसमानावस्थां प्राप्तः।
उभयोरपि राष्ट्रयोर्मध्ये वर्षशतकैः वर्तमानः सीमाधिष्ठितकलहः गतदिनेषु मूर्धन्यावस्थां प्राप्तः आसीत्। तस्य अंशतया ताय् ग्रामेषु कम्बोडियया कृते व्योमाक्रमणे ११ जनाः हताः। तेषु अधिके सामान्यजनाः इति सूच्यते।
षट्सु सीमाप्रदेषु परस्पराक्रमणम् अनुवर्तते इति ताय्लान्टस्य राष्ट्रसुरक्षामन्त्रालयाधिकारिणा उक्तम्। गुरुवासरे कम्बोडियया व्योमाक्रमणे आरब्धे ताय् ग्रामवासिनः गृहेभ्यः पलायितुमारभन्त।