OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, July 27, 2025

 मालद्वीपनेतृभिः सह मोदी मिलितवान्। 

माले> दिनद्वयसन्दर्शनार्थं मालद्वीपं प्राप्तवान् भारतप्रधानमन्त्री नरेन्द्रमोदी तत्रत्यैः राष्ट्रनेतृभिः सह मिलित्वा चर्चां कृतवान्। उभयोरपि राष्ट्रयोः सौहृदप्रबलीकरणमालक्ष्य आसन् चर्चाः। 

  शनिवासरे मालद्वीपसंसदः अध्यक्षः अब्दुल् रहीम अब्दुल्ला, भूतपूर्वराष्ट्रपतिः मुहम्मज नषीदः इत्येतयोः साकं संसदीयसौहृदसख्यमधिकृत्य चर्चां कृतवान्। शुक्रवासरे राष्ट्रपतिः मुहम्मद मुयिसु इत्यनेन सह कृतायाः चर्चायाः अनन्तरं द्वीपस्य आधारसुविधाप्रवर्धनाय ४८५० कोटि रूप्यकाणि ऋणरूपेण वाग्दत्तानि।